भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 245

245.001

:ए इत्य् आग्नेये महापुराणे आयुधलक्षणादिर्नाम चतुश्
चत्वारिंशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {245}
:श् अथ पञ्चचत्वारिंशदधिकद्विशततमो ऽध्यायः
रत्नपरीक्षा
अग्निर् उवाच
रत्नानां लक्षणं वक्ष्ये रत्नं धार्यमिदं नृपैः ।अप्_245.001अब्।
वज्रं मरकतं रत्नं पद्मरागञ्च मौक्तिकं

245.002

इन्द्रनीलं महानीलं वैदूर्यं गन्धशस्यकं ।अप्_245.002अब्।
चन्द्रकान्तं सूर्यकान्तं स्फटिकं पुलकं तथा

245.003

:प् 390
कर्केतनं पुष्परागं तथा ज्योतीरसं द्विज ।अप्_245.003अब्।
स्पटिकं राजपट्टञ्च तथा राजमयं शुभं

245.004

सौगन्धिकं तथा गञ्जं शङ्खब्रह्ममयं तथा ।अप्_245.004अब्।
गोमेदं रुधिराक्षञ्च तथा भल्लातकं द्विज

245.005

धूलीं मरकतञ्चैव तुथकं सीसमेव च ।अप्_245.005अब्।
पीलुं प्रवालकञ्चैव गिरिवज्रं द्विजोत्तम

245.006

भुजङ्गममणिञ्चैव तथा वज्रमणिं शुभं ।अप्_245.006अब्।
टिट्टिभञ्च तथा पिण्डं भ्रामरञ्च तथोत्पलं

245.007

सुवर्णप्रतिबद्धानि रत्नानि श्रीजयादिके ।अप्_245.007अब्।
अन्तःप्रभत्वं वैमल्यं सुसंस्थानत्वमेव च

245.008

सुधार्या नैव धार्यास्तु निष्प्रभा मलिनास् तथा ।अप्_245.008अब्।
खण्डाः सशर्करा ये च प्रशस्तं वज्रधरणम्

245.009

अम्भस्तरति यद्वज्रमभेद्यं विमलं च यत् ।अप्_245.009अब्।
षट्कोणं शक्रचापाभं लघु चार्कनिभं शुभम्

245.010

शुकपक्षनिभः स्निग्धः कान्तिमान्विमलस् तथा ।अप्_245.010अब्।
स्वर्णचूर्णनिभैः सूक्ष्मैर् मरकतश् च विन्दुभिः

245.011

स्फटिकजाः पद्मरागाः स्यू रागवन्तो ऽतिनिर्मलाः ।अप्_245.011अब्।
जातवङ्गा भवन्तीह कुरुविन्दसमुद्भवाः

245.012

सौगन्धिकोत्था काषाया मुक्ताफलास्तु शुक्तिजाः ।अप्_245.012अब्।
विमलास्तेभ्य उत्कृष्टा ये च शङ्खोद्भवा मुने

245.013

नागदन्तभवाश्चाग्र्याः कुम्भशूकरमत्स्यजाः ।अप्_245.013अब्।
वेणुनागभवाः श्रेष्ठा मौक्तिकं मेघजं वरं

245.014

वृत्तत्वं शुक्रता स्वाच्छ्यंमहत्त्वं मौक्तिके गुणाः ।अप्_245.014अब्।
:प् 391
इन्द्रनीलं शुभं क्षीरे राजते भ्राजते ऽधिकं(1)

245.015

रञ्जयेत् स्वप्रभावेण तममूल्यं विनिर्दिशेत् ।अप्_245.015अब्।
नीलरक्तन्तु वैदूर्यं श्रेष्ठं हारादिकं भजेत्(2)

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc