भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 244

244.001

:ए इत्य् आग्नेये महापुराणे स्त्रीलक्षणं नाम
त्रिचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {244}
:श् अथ चतुश् चत्वारिंशदधिकद्विशततमो ऽध्यायः
चामरादिलक्षणम्
अग्निर् उवाच
चामरो रुक्मादण्डो ऽग्र्यः छत्रं राज्ञः प्रशस्यते ।अप्_244.001अब्।
हंसपक्षैर् विरचितं मयूरस्य शुकस्य च

244.002

पक्षैर् वाथ बलाकाया न कार्यं मिश्रपक्षकैः ।अप्_244.002अब्।
:न्
1 न शथेति छ..
2 जठरमित्यादिः, ततो गुणा इत्य् अन्तः पाठः घ.. , ञ.. ,
पुस्तकद्वये नास्ति
:प् 387
चतुरस्यं ब्राह्मणस्य वृत्तं राज्ञश् च शुक्लकं

244.003

त्रिचतुःपञ्चषट्सप्ताष्टपर्वश् च दण्डकः ।अप्_244.003अब्।
भद्रासनं क्षीरवृक्षैः पञ्चाशदङ्गुलोच्छ्रयैः(1)

244.004

विस्तारेण त्रिहस्तं(2) स्यात् सुवर्णाद्यैश् च चित्रितं ।अप्_244.004अब्।
धनुर्द्रव्यत्रयं लोहं शृङ्गं दारु द्विजोत्तम

244.005

ज्याद्रव्यत्रितयञ्चैव वंशभङ्गत्वचस् तथा ।अप्_244.005अब्।
दारुचापप्रमाणन्तु श्रेष्ठं हस्तचतुष्टयं

244.006

तदेव समहीनन्तु प्रोक्तं मध्यकनीयसि ।अप्_244.006अब्।
मुष्टिग्राहनिमित्तानि मध्ये द्रव्याणि कारयेत्

244.007

स्वल्पकोटिस्त्वचा शृङ्गं शार्ङ्गलोहमये द्विज ।अप्_244.007अब्।
कामिनीभ्रूलताकारा कोटिः कार्या सुसंयुता

244.008

पृथग्वा विप्र मिश्रं वा लौहं शार्ङ्गन्तु कारयेत् ।अप्_244.008अब्।
शार्ङ्गं समुचितं कार्यं रुक्मविन्दुविभूषितं

244.009

कुटिलं स्फुटितञ्चापं सच्छिद्रञ्च न शस्यते ।अप्_244.009अब्।
सुवर्णं रजतं ताम्रं कृष्णायो धनुषि स्मृतं

244.010

माहिषं शारभं शार्ङ्गं रौहिषं वा धनुःशुभं ।अप्_244.010अब्।
चन्दनं वेतसं सालं धावलङ्ककुभन्तरुः

244.011

सर्वश्रेष्ठं धनुर्वंशैर् गृहीतैः शरदि श्रितैः ।अप्_244.011अब्।
पूजयेत्तु धनुः(3) खड्गमन्त्रैस्त्रैलोक्यमोहनैः

244.012

अयसश्चाथ वंशस्य शरस्याप्यशरस्य च ।अप्_244.012अब्।
ऋत्विजो हेमवार्णाभाः स्नायुश्लिष्टाः सुपत्रकाः

244.013

:न्
1 चतुरस्रमित्यादिः, पञ्चाशदङ्गुलोच्छ्रयैर् इत्यन्तः पाठः
ज..पुस्तके नास्ति
2 द्विहस्तमिति ट..
3 पूजयेत्तद्धनुरिति ग.. , घ.. , ञ.. च
:प् 388
रुक्मपुङ्खाः सुपङ्कास्ते तैलधौताः सुवर्णकाः ।अप्_244.013अब्।
यात्रायामभिषेकादौ यजेद्वाणधनुर्मुखान्

244.014

सपताकास्त्रसङ्ग्राहसांवत्सरकरान्नृपः ।अप्_244.014अब्।
ब्रह्मा वै मेरुशिखरे स्वर्गगङ्गातटे ऽयजत्

244.015

लौहदैत्यं स ददृशे विध्नं यज्ञे तु चिन्तयन् ।अप्_244.015अब्।
तस्य चिन्तयतो वह्नेः पुरुषो ऽभूद्वली महान्

244.016

ववन्दे ऽजञ्च तन्देवा अभ्यनन्दन्त हर्षिताः(1) ।अप्_244.016अब्।
तस्मात्स नन्दकः(2) कड्गो देवोक्तो हरिरग्रहीत्

244.017

तं जग्राह शनैर् देवो(3) विकोषः सो ऽभ्यपद्यत ।अप्_244.017अब्।
खड्गो नीलो रत्नमुष्टिस्ततो ऽभूच्छतबाहुकः

244.018

दैत्यः स गदया देवान् द्रावयामास वै रणे ।अप्_244.018अब्।
विष्णुना खड्गच्छिन्नानि दैत्यगात्राणि भूतले

244.019

पतितानि तु संस्पर्शान्नन्दकस्य च तानि हि ।अप्_244.019अब्।
लोहभूतानि सर्वाणि हत्वा तस्मै हरिर्वरं

244.020

ददौ पवित्रमङ्गन्ते आयुधाय भवेद्भुवि ।अप्_244.020अब्।
हरिप्रसादाद् ब्रह्मापि विना विघ्नं हरिं प्रभुं

244.021

पूजयामास यज्ञेन वक्ष्ये ऽथो खड्गलक्षणं ।अप्_244.021अब्।
खटीखट्टरजाता ये दशनीयास्तुते स्मृताः

244.022

कायच्छिदस्त्वाषिकाः स्युर्दृढाः सूर्पारकोद्भवाः ।अप्_244.022अब्।
तीक्ष्णाश्छेदसहा वङ्गास्तीक्ष्णाःस्युश्चाङ्गदेशजाः

244.023

शतार्धमङ्गुलानाञ्च श्रेष्ठं खद्गं प्रकीर्तितं ।अप्_244.023अब्।
:न्
1 लोहदैत्यमित्यादिः, हर्षिता इत्य् अन्तः पाठः ज.. पुस्तके
नास्ति
2 तस्मात्तु नन्दक इति घ.. , ञ.. च
3 महादेव इति ज..
:प् 389
तदर्धं मध्यमं ज्ञेयं ततो हीनं न धारयेत्

244.024

दीर्घं सुमधुरं शब्दं युस्य खड्गस्य सत्तम ।अप्_244.024अब्।
किङ्किणीसदृशन्तस्य धारणं श्रेष्ठमुच्यते

244.025

खड्गः पद्मपलाशाग्रो मण्डलाग्रश् च शस्यते ।अप्_244.025अब्।
करवीरदलाग्राभो घृतगन्धो वियत्प्रभः

244.026

समाङ्गुलस्थाः शस्यन्ते व्रणाः खद्गेषु लिङ्गवत् ।अप्_244.026अब्।
काकोलूकसवर्णाभा विषमास्ते न शोभनाः

244.027

खड्गे न पश्येद्वदनमुच्छिष्टो न स्पृशेदसिं ।अप्_244.027अब्।
मूल्यं जातिं न कथयेन्निशि कुर्यान्न शीर्षके

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc