भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 243

243.001

:ए इत्य् आग्नेये महापुराणे पुरुषलक्षणं नाम
द्विचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {243}
:श् अथ त्रिचत्वारिंशदधिकद्विशततमो ऽध्यायः
स्त्रीलक्षणं
समुद्र उवाच
शस्ता स्त्री(1) चारुसर्वाङ्गी मत्तमातङ्गगामिनी ।अप्_243.001अब्।
गुरूरुजघना या च मत्तपारावतेक्षणा

243.002

सुनीलकेशी तन्वङ्गी विलोमाङ्गी मनोहरा ।अप्_243.002अब्।
:न्
1 शुभा स्त्री इति ज..
:प् 386
समभूमिस्पृशौ पादौ संहतौ च तथा स्तनौ

243.003

नाभिः प्रदक्षिणावर्ता गुह्यमश्वत्थपत्रवत् ।अप्_243.003अब्।
गुल्फौ निगूढौ मध्येन नाभिरङ्गुष्ठमानिका

243.004

जठरन्न प्रलम्बञ्च रोमरूक्षा न शोभना ।अप्_243.004अब्।
नर्क्षवृक्षनदीनाम्नी न सदा(1) कलहप्रिया

243.005

न लोलुपा न दुर्भाषा शुभा देवादिपूजिता ।अप्_243.005अब्।
गण्डैर् मधूकपुष्पाभैर् न शिराला न लोमशा

243.006

न संहतभ्रूकुटिला पतिप्राणा पतिप्रिया ।अप्_243.006अब्।
अलक्षणापि लक्षण्या यत्राकारास्ततो गुणाः(2)

243.007

भुवङ्कनिष्ठिका यस्या न स्पृशेन्मृत्युरेव सा

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc