भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 242

242.001

:ए इत्य् आग्नेये महापुराणे रामोक्तराजनीतिर्नाम
एकचत्वारिंशदधिकद्विशततमो ऽध्यायः ॥
:न्
1 अस्मल्लब्धपुस्तकनां मध्ये क.. ज.. चिह्नितपुस्त्रकद्वये
दण्डादिकतिपयव्यूहानां विन्दुविन्यासैस्तत्तन्नामसमीपे
आकृतयः प्रदर्शिताः , परन्तु ता अशुद्धा । ता
यथा,दण्डव्यूहस्य ??? । प्रदारकस्य ??? । दृढव्यूहस्य ??? ।
असह्यव्यूहस्य ??? । खातकव्यूहस्य ??? । वलयव्यूहस्य ??? ।
दुर्जयव्यूहस्य ??? । भोगव्यूहस्य ??? । गोमूत्रिकाव्यूहस्य ??? ।
शकटव्यूहस्य ??? । अमरव्यूहस्य ??? । सर्वतोभद्रव्यूहस्य ???॥
:प् 383
% छप्तेर् {242}
:श् अथ द्विचत्वारिंशदधिकद्विशततमो ऽध्यायः
पुरुषलक्षणं
अग्निर् उवाच
रामोक्तोक्ता मया नीतिः स्त्रीणां राजन् नृणां वदे ।अप्_242.001अब्।
लक्षणं यद्समुद्रेण गर्गायोक्तं यथा पुरा

242.002

समुद्र उवाच
पुंसाञ्च लक्षणं वक्ष्ये स्त्रीणाञ्चैव शुभाशुभं ।अप्_242.002अब्।
एकाधिको द्विशुक्रश् च त्रिगन्भीरस्तथैव च

242.003

त्रित्रिकस्त्रिप्रलम्बश् च त्रिभिर्व्याप्नोति यस् तथा ।अप्_242.003अब्।
त्रिबलीमांस्त्रिविनतस्त्रिकालज्ञश् च सुव्रत

242.004

पुरुषः स्यात्सुलक्षण्यो विपुलश् च तथा त्रिषु ।अप्_242.004अब्।
चतुर्लेखस् तथा यश् च तथैव च चतुःसमः

242.005

चतुष्किष्कुश् चतुर्दंष्ट्रः शुक्लकृष्णस्तथैव च ।अप्_242.005अब्।
चतुर्गन्धश् चतुर्ह्रस्वः सूक्ष्मदीर्घश् च पञ्चसु

242.006

षडुन्नतो ऽष्टवंशश् च सप्तस्नेहो नवामलः ।अप्_242.006अब्।
दशपद्मो दशव्यूहो न्यग्रोधपरिमण्डलः

242.007

चतुर्दशसमद्वन्द्वः षोडशाक्षयश् च शस्यते ।अप्_242.007अब्।
धर्मार्थकामसंयुक्तो धर्मो ह्य् एकाधिको मतः

242.008

तारकाभ्यां विना नेत्रे शुक्रदन्तो द्विशुक्लकः ।अप्_242.008अब्।
गम्भीरस्त्रिश्रवो नाभिः सत्त्वञ्चैकं त्रिकं स्मृतं

242.009

अनसूया दया क्षान्तिर्मङ्गलाचारयुक्तता ।अप्_242.009अब्।
शौचं स्पृहा त्वकार्पण्यमनायासश् च शौर्यता

242.010

:प् 384
चित्रिकस्त्रिप्रलम्बः स्याद्वृषणे भुजयोर्नरः ।अप्_242.010अब्।
दिग्देशजातिवर्गांश् च तेजसा यशसा श्रिया

242.011

व्याप्नोति यस्त्रिकव्यापी त्रिबलीमान्नरस्त्वसौ ।अप्_242.011अब्।
उदरे बलयस्तिस्रो नरन्त्रिविनतं शृणु

242.012

देवतानां द्विजानाञ्च गुरूणां प्रणतस्तु यः ।अप्_242.012अब्।
धर्मार्थकामकालज्ञस्त्रिकालज्ञो ऽभिधीयते

242.013

उरो ललाटं वक्त्रञ्च त्रिविस्तीर्णो विलेखवान् ।अप्_242.013अब्।
द्वौ पाणी द्वौ तथा पादौ ध्वजच्छत्रादिभिर्युतौ

242.014

अङ्गुल्यो हृदयं पृष्ठं कटिः शस्तं चतुःसमं ।अप्_242.014अब्।
षण्णवत्यङ्गुलोत्सेधश् चतुष्किष्कुप्रमाणतः

242.015

द्रंष्ट्राश् चतस्रश् चन्द्राभाश् चतुःकृष्णं वदामि ते ।अप्_242.015अब्।
नेत्रतारौ भ्रुवौ श्मश्रुः कृष्णाः केशास्तथैव च

242.016

नासायां वदने स्वेदे कक्षयोर्विडगन्धकः ।अप्_242.016अब्।
ह्रस्वं लिङ्गं तथा ग्रीवा जङ्घे स्याद्वेदह्रस्वकं

242.017

सूक्ष्माण्यङ्गुलिपर्वाणि नखकेशद्विजत्वचः ।अप्_242.017अब्।
हनू नेत्रे ललाटे च नासा दीर्घा स्तनान्तरं

242.018

वक्षः कक्षौ नखा नासोन्नतं वक्त्रं कृकाटिका ।अप्_242.018अब्।
स्निग्धास्त्वक्केशदन्ताश् च लोम दृष्टिर्नखाश् च वाक्

242.019

जान्वोरुर्वोश् च पृष्ठस्थ वंशौ द्वौ करनासयोः ।अप्_242.019अब्।
नेत्रे नासापुटौ कर्णौ मेढ्रं पायुमुखे ऽमलं

242.020

जिह्वोष्ठे तालुनेत्रे तु हस्तपादौ नखास् तथा ।अप्_242.020अब्।
शिश्नाग्रवक्त्रं शस्यन्ते पद्माभा दश देहिनां

242.021

पाणिपादं मुखं ग्रीवा श्रवणे हृदयं शिरः ।अप्_242.021अब्।
:प् 385
ललाटमुदरं पृष्ठं वृहन्तः पूजिता दश

242.022

प्रसारितभुजस्येह मध्यमाग्रद्वयान्तरं ।अप्_242.022अब्।
उच्छ्रायेण समं यस्य न्यग्रोधपरिमण्डलः

242.023

पादौ गुल्फौ स्फिचौ पार्श्वौ वङ्क्षणौ वृषणौ कुचौ ।अप्_242.023अब्।
कर्णौष्ठे सक्थिनी जङ्घे हस्तौ बाहू तथाक्षिणी

242.024

चतुर्दशसमद्वन्द्व एतत्सामान्यतो नरः ।अप्_242.024अब्।
विद्याश् चतुर्दश द्व्यक्षैः पश्येद्यः षोडशाक्षकः

242.025

रूक्षं शिराततं गात्रमशुभं मांसवर्जितं ।अप्_242.025अब्।
दुर्गन्धिविपरीतं यच्छस्तन्दृष्ट्या प्रसन्नया

242.026

धन्यस्य मधुरा वाणी गतिर्मत्तेभसन्निभा ।अप्_242.026अब्।
एककूपभवं रोम भये रक्षा सकृत् सकृत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc