भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 241

241.001

:ए इत्य् आग्नेये महापुराणे सामादिर्नाम
चत्वारिंशदध्कद्विशततमो ऽध्यायः ॥
% छप्तेर् {241}
:श् अथ एकचत्वारिंशदधिकद्विशततमो ऽध्यायः
राजनीतिः
राम उवाच
षड्विधन्तु बलं व्यूह्य देवान् प्रार्च्य रिपुं व्रजेत् ।अप्_241.001अब्।
मौलं भूतं श्रोणिसुहृद्द्विषदाटविकं बलं

241.002

पूर्वं पूर्वं गरीयस्तु बलानां व्यसनं तथा ।अप्_241.002अब्।
षडङ्गं मन्त्रकोषाभ्यां पदात्यश्वरथद्विपैः

241.003

नद्यद्रवनदुर्गेषु यत्र यत्र भयं भवेत् ।अप्_241.003अब्।
:प् 376
सेनापतिस्तत्र तत्र गच्छेद्व्यूहीकृतैर् बलैः

241.004

नायकः पुरतो यायात् प्रवीरपुरुषावृतः ।अप्_241.004अब्।
मध्ये कलत्रं स्वामी च कोषः फल्गु च यद्बलं

241.005

पार्श्वयोरुभयोरश्वा वाजिनां पार्श्वयो रथाः ।अप्_241.005अब्।
रथानां पार्श्वयोर्नागा नागानां चाटवीबलं

241.006

पश्चात् सेनापतिः सर्वं पुरस्कृत्य कृती स्वयं ।अप्_241.006अब्।
यायात्सन्नद्धसैन्यौघः खिन्नानाश्वासयञ्च्छनैः

241.007

यायाद्व्यूहेन महता मकरेण पुरोभये ।अप्_241.007अब्।
श्येनेनोद्धृतपक्षेण सूच्या वा वीरवक्त्रया

241.008

पश्चाद्भये तु शकटं पार्श्वयोर्वज्रसञ्ज्ञितं(1) ।अप्_241.008अब्।
सर्वतः सर्वतोभद्रं भये व्यूहं प्रकल्पयेत्

241.009

कन्दरे शैलगहने निम्नगावनसङ्कटे ।अप्_241.009अब्।
दीर्घाध्वनि परिश्रान्तं क्षुत्पिपासाहितक्लमं

241.010

व्याधिदुर्भिक्षमरकपीडितं दस्युविद्रुतं ।अप्_241.010अब्।
पङ्कांशुजलस्कन्धं व्यस्तं पुञ्जीकृतं पथि

241.011

प्रसुप्तं भोजनव्यग्रमभूमिष्ठमसुस्थितं ।अप्_241.011अब्।
चौराग्निभयवित्रस्तं वृष्टिवातसमाहतं

241.012

इत्यादौ स्वचमूं रक्षेत् प्रसैन्यं च घतयेत् ।अप्_241.012अब्।
विशिष्टो देशकालाभ्यां भिन्नविप्रकृतिर्बली

241.013

कुर्यात् प्रकाशयुद्धं हि कूटयुद्धं विपर्यये ।अप्_241.013अब्।
तेष्ववस्कन्दकालेषु परं हन्यात्समाकुलं

241.014

:न्
1 वज्रसङ्कटमिति ख.. , छ.. च
:प् 377
अभूमिष्ठं स्वभूमिष्ठं स्वभूमौ चोपजायतः ।अप्_241.014अब्।
प्रकृतिप्रग्रहाकृष्टं पाशैर् वनचरादिभिः

241.015

हन्यात् प्रवीरपुरुषैर् भङ्गदानापकर्षणैः ।अप्_241.015अब्।
पुरस्ताद्दर्शनं दत्वा तल्लक्षकृतनिश् चयात्

241.016

हन्यात्पश्चात् प्रवीरेण बलेनोपेत्य वेगिना ।अप्_241.016अब्।
पश्चाद्वा सङ्कुलीकृत्य हन्याच्छूरेण पूर्वतः

241.017

आभ्यां पार्श्वाभिघातौ तु व्याख्यातौ कूटयोधने ।अप्_241.017अब्।
पुरस्ताद्विषमे देशे पश्चाद्धन्यात्तु वेगवान्

241.018

पुरः पश्चात्तु विषमे एवमेव तु पार्श्वयोः ।अप्_241.018अब्।
प्रथमं योधयित्वा तु दूष्यामित्राटवीबलौ

241.019

श्रान्तं मन्दन्निराक्रन्दं हन्यादश्रान्तवाहनं ।अप्_241.019अब्।
दूष्यामित्रबलैर् वापि भङ्गन्दत्वा प्रयत्नवान्

241.020

जितमित्येव विश्वस्तं हन्यान्मन्त्रव्यपाश्रयः ।अप्_241.020अब्।
स्कन्धावारपुरग्रामशस्यस्वामिप्रजादिषु

241.021

विश्रभ्यन्तं परानीकमप्रमत्तो विनाशयेत् ।अप्_241.021अब्।
अथवा गोग्रहाकृष्टं तल्लक्ष्यं मार्गबन्धनात्

241.022

अवस्कन्दभयाद्रात्रिपूजागरकृतश्रमः ।अप्_241.022अब्।
दिवासुप्तं समाहन्यान्निद्राव्याकुलसैनिकं

241.023

निशि विश्रब्धसंसुप्तं नागैर् वा खड्गपाणिभिः ।अप्_241.023अब्।
प्रयाने पूर्वयायित्वं वनदुर्गप्रवेशनं

241.024

अभिन्नानामनीकानां भेदनं भिन्नसङ्ग्रहः ।अप्_241.024अब्।
विभीषकाद्वारघातं कोषरक्षेभकर्म च

241.025

अभिन्नभेदनं मित्रसन्धानं रथकर्म च ।अप्_241.025अब्।
:प् 378
वनदिङ्मार्गविचये वीवधासारलक्षणं

241.026

अनुयानापसरणे शीघ्रकार्योपपादनं ।अप्_241.026अब्।
दीनानुसरणं घातः कोटीनां जघनस्य च

241.027

अश्वकर्माथ पत्तेश् च सर्वदा शस्त्रधारणं ।अप्_241.027अब्।
शिविरस्य च मार्गादेः शोधनं वस्तिकर्म च

241.028

संस्थूलस्थाणुवल्मीकवृक्षगुल्मापकण्टकं ।अप्_241.028अब्।
सापसारा पदातीनां भूर्नातिविषमा मता

241.029

स्वल्पवृक्षोपला क्षिप्रलङ्घनीयनगा स्थिरा ।अप्_241.029अब्।
निःशर्करा विपङ्का च सापसारा च वाजिभूः

241.030

निस्थाणुवृक्षकेदारा रथभूमिरकर्दमा ।अप्_241.030अब्।
मर्दनीयतरुच्छेद्यव्रततीपङ्कवर्जिता

241.031

निर्झरागम्यशैला(1) च विषमा गजमेदिनी ।अप्_241.031अब्।
उरस्यादीनि भिन्नानि प्रतिगृह्णन् बलानि हि

241.032

प्रतिग्रह इति ख्यातो राजकार्यान्तरक्षमः ।अप्_241.032अब्।
तेन शून्यस्तु यो व्यूहः स भिन्न इव लक्ष्यते

241.033

जयार्थी न च युद्ध्येत मतिमानप्रतिग्रहः ।अप्_241.033अब्।
यत्र राजा तत्र कोषः कोषाधीना हि राजता

241.034

योधेभ्यस्तु ततो दद्यात् किञ्चिद्दातुं(2) न युज्यते ।अप्_241.034अब्।
द्रव्यलक्षं राजघाते तदर्धं तत्सुतार्दने

241.035

सेनापतिबधे तद्वद्दद्याद्धस्त्यादिमर्दने ।अप्_241.035अब्।
अथवा खलु युध्येरन् प्रत्यश्वरथदन्तिनः

241.036

:न्
1 निःशर्करा गम्यशैलेति ज..
2 किं हि दातुमिति घ.. , ञ.. च
:प् 379
यथा भवेदसंबाधो व्यायामविनिवर्तने ।अप्_241.036अब्।
असङ्करेण युद्धेरन् सङ्करः सङ्कुलावहः

241.037

महासङ्कुलयुद्धेषु संश्रयेरन्मतङ्गजं ।अप्_241.037अब्।
अश्वस्य प्रतियोद्धारो भवेयुः पुरुषास्त्रयः

241.038

इति कल्प्यास्त्रयश्चाश्वा विधेयाः कुञ्जरस्य तु ।अप्_241.038अब्।
पादगोपा भवेयुश् च पुरुषा दश पञ्च च

241.039

विधानमिति नागस्य विहितं स्यन्दनस्य च ।अप्_241.039अब्।
अनीकमिति विज्ञेयमिति कल्प्या नव द्विपाः

241.040

तथानीकस्य रन्ध्रन्तु पञ्चधा च प्रचक्षते ।अप्_241.040अब्।
इत्यनीकविभगेन स्थापयेद् व्यूहसम्पदः

241.041

उरस्यकक्षपक्षांस्तु कल्प्यानेतान् प्रचक्षते ।अप्_241.041अब्।
उरःकक्षौ च पक्षौ च मध्यं पृष्ठं प्रतिग्रहः

241.042

कोटी च व्यूहशास्त्रज्ञैः सप्ताङ्गो व्यूह उच्यते ।अप्_241.042अब्।
उरस्यकक्षपक्षास्तु व्यूहो ऽयं सप्रतिग्रहः

241.043

गुरोरेष च शुक्रस्य कक्षाभ्यां परिवर्जितः ।अप्_241.043अब्।
तिष्ठेयुः सेनापतयः प्रवीरैः पुरुषैर् वृताः

241.044

अभेदेन च युध्येरन् रक्षेयुश् च परस्परं ।अप्_241.044अब्।
मध्यव्यूहे फल्गु सैन्यं युद्धवस्तु जघन्यतः

241.045

युद्धं हि नायकप्राणं हन्यते तदनायकं ।अप्_241.045अब्।
उरसि स्थापयेन्नागान् प्रचण्डान् कक्षयो रथान्

241.046

हयांश् च पक्षयोर्व्यूहो मध्यभेदी प्रकीर्तितः ।अप्_241.046अब्।
मध्यदेशे हयानीकं रथानीकञ्च कक्षयोः

241.047

पक्षयोश् च गजानीकं व्यूहोन्तर्भेद्ययं स्मृतः ।अप्_241.047अब्।
:प् 380
रथस्थाने हयान् दद्यात् पदातींश् च हयश्राये

241.048

रथाभावे तु द्विरदान् व्यूहे सर्वत्र दापयेत् ।अप्_241.048अब्।
यदि स्याद्दण्डबाहुल्यमाबाधः सम्प्रकीर्तितः

241.049

मण्डलांसंहतो भोगो दण्डास्ते बहुधा शृणु ।अप्_241.049अब्।
तिर्यग्वृत्तिस्तु दण्डः स्याद् भोगो ऽन्यावृत्तिरेव च

241.050

मण्डलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः ।अप्_241.050अब्।
प्रदरो दृढको ऽसह्यः चापो वै कुक्षिरेव च

241.051

प्रतिष्ठः सुप्रतिष्ठश् च श्येनो विजयसञ्जयौ ।अप्_241.051अब्।
विशालो विजयः शूची स्थूणाकर्णचमूमुखौ

241.052

सर्पास्यो वलयश् चैव दण्ड दण्डभेदाश् च दुर्जयाः ।अप्_241.052अब्।
अतिक्रान्तः प्रतिक्रान्तः कक्षाभ्याञ्चैकक्षपक्षतः

241.053

अतिक्रान्तस्तु पक्षाभ्यां त्रयो ऽन्ये तद्विपर्यये ।अप्_241.053अब्।
पक्षोरस्यैर् अतिक्रान्तः प्रतिष्ठो ऽन्यो विपर्ययः

241.054

स्थूणापक्षो धनुःपक्षो द्विस्थूणो दण्ड ऊर्ध्वगः ।अप्_241.054अब्।
द्विगुणोन्तस्त्वतिक्रान्तपक्षो ऽन्यस्य विपर्ययः

241.055

द्विचतुर्दण्ड इत्य् एते ज्ञेया लक्षणतः क्रमात् ।अप्_241.055अब्।
गोमूत्रिकाहिसञ्चारीशकटो मकरस् तथा

241.056

भोगभेदाः समाख्यातास् तथा परिप्लवङ्गकः ।अप्_241.056अब्।
दण्डपक्षौ युगारस्यः शकटस्तद्विपर्यये

241.057

मकरो व्यतिकीर्णश् च शेषः कुञ्जरराजिभिः ।अप्_241.057अब्।
मण्डलव्यूहभेदौ तु सर्वतोभद्रदुर्जयौ

241.058

अष्टानीको द्वितीयस्तु प्रथमः सर्वतोमुखः ।अप्_241.058अब्।
अर्धचन्द्रक ऊर्ध्वाङ्गो वज्रभेदास्तु संहतेः

241.059

:प् 381
तथा कर्कटशृङ्गी च काकपादौ च गोधिका ।अप्_241.059अब्।
त्रिचतुःसैन्यानां ज्ञेया आकारभेदतः

241.060

दण्डस्य स्युः सप्तदश व्यूहा द्वौ मण्डलस्य च ।अप्_241.060अब्।
असङ्घातस्य षट् पञ्च भोगस्यैव तु सङ्गरे

241.061

पक्षादीनामथैकेन हत्वा शेषैः परिक्षिपेत् ।अप्_241.061अब्।
उरसा वा समाहत्य कोटिभ्यां परिवेष्टयेत्(1)

241.062

परे कोटी समाक्रम्य पक्षाभ्यामप्रतिग्रहात् ।अप्_241.062अब्।
कोटिभ्याञ्जघनं हन्यादुरसा च प्रपीडयेत्

241.063

यतः फल्गु यतो भिन्नं यतश्चान्यैर् अधिष्ठितं ।अप्_241.063अब्।
ततश्चारिबलं हन्यादात्मनश्चोपवृंहयेत्

241.064

सारं द्विगुणसारेण फल्गुसारेण पीडयेत् ।अप्_241.064अब्।
संहतञ्च गजानीकैः प्रचण्डैर् दारयेद्बलं

241.065

स्यात् कक्षपक्षोरस्यश् च वर्तमानस्तु दण्डकः ।अप्_241.065अब्।
तत्र प्रयोगो डण्डस्य स्थानन्तुर्येण दर्शयेत्

241.066

स्याद्दण्डसमपक्षाभ्यामतिक्रान्तो दृढः स्मृतः ।अप्_241.066अब्।
भवेत्स पक्षकक्षाभ्यामतिक्रान्तः प्रदारकः

241.067

कक्षाभ्याञ्च प्रतिक्रान्तव्यूहो ऽसह्यः स्मृतो यथा ।अप्_241.067अब्।
कक्षपक्षावधः स्थप्योरस्यैः कान्तश् च खातकः

241.068

द्वौ दण्डौ बलयः प्रोक्तो कान्तश् च खातकः ।अप्_241.068अब्।
दुर्जयश् चतुर्वलयः शत्रोर्बलविमर्दनः

241.069

कक्षपक्षौरस्यैर् भोगो विषयं परिवर्तयन् ।अप्_241.069अब्।
:न्
1 कोटिभ्यां परिकल्पयेदिति घ.. , ञ.. च
:प् 382
सर्पचारी गोमूत्रिका शर्कटः शकटाकृतिः

241.070

विपर्ययो ऽमरः प्रोक्तः सर्वशत्रुविमर्दकः ।अप्_241.070अब्।
स्यात् कक्षपक्षोरस्यानामेकीभावस्तु मण्डलः

241.071

चक्रपद्मादयो भेदा मण्डलस्य प्रभेदकाः ।अप्_241.071अब्।
एवञ्च सर्वतोभद्रो वज्राक्षवरकाकवत्

241.072

अर्धचन्द्रश् च शृङ्गाटो ह्य् अचलो नामरूपतः(1) ।अप्_241.072अब्।
व्यूहा यथासुखं कर्याः शत्रूणां बलवारणाः

241.073

अग्निर् उवाचरामस्तु रावणं हत्वा अयोध्यां प्राप्तवान् द्विज ।अप्_241.073अब्।
रामोक्तनीत्येन्द्रजितं हतवांल्लक्ष्मणः पुरा

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc