भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 240

240.001

:ए इत्य् आग्नेये महापुराणे षाड्गुण्यं नाम
एकोनचत्वार्तिंशदधिकद्विशततमो ऽध्यायः ॥
:न्
1 उभयोरित्यादिः, स्वयं व्रजेदित्यन्तः पाठः ज.. पुस्तके
नास्ति
2 बलोत्करमिति ग.. , घ.. , ज.. , ञ.. च
:प् 369
% छप्तेर् {240}
:श् अथ चत्वारिंशदधिकद्विशततमो ऽध्यायः
समादिः
राम उवाच
प्रभवोत्साहशक्तिभ्यां मन्त्रशक्तिः प्रशस्यते ।अप्_240.001अब्।
प्रभावोत्साहवान् काव्यो जितो देवपुरोधसा

240.002

मन्त्रयेतेह कार्याणि नानाप्तैर् नाविपश्चिता ।अप्_240.002अब्।
अशक्यारम्भवृत्तीनां कुतः क्लेशादृते फलं

240.003

अविज्ञातस्य विज्ञानं विज्ञातस्य च निश् चयः ।अप्_240.003अब्।
अर्थद्वैधस्य सन्देहच्छेदनं शेषदर्शनं

240.004

सहायाः साधनोपाया विभागो देशकालयोः ।अप्_240.004अब्।
विपत्तेश् च प्रतीकारः पञ्चाङ्गो मन्त्र इष्यते(1)

240.005

मनःप्रसादः श्रद्धा च तथा करणपाटवं ।अप्_240.005अब्।
सहायोत्थानसम्पच्च कर्मणां सिद्धिलक्षणं

240.006

मदः प्रमादः कामश् च सुप्तप्रलपितानि च ।अप्_240.006अब्।
भिन्दन्ति मन्त्रं प्रच्छन्नाः कामिन्यो रमतान्तथा

240.007

प्रगल्भः स्मृतिमान्वाग्मीशस्त्रे शास्त्रे च निष्ठितः ।अप्_240.007अब्।
अभ्यस्तकर्मा नृपतेर्दूतो भवितुर्मर्हति

240.008

निसृष्टार्थो मितार्थश् च तथा शासनहारकः(2) ।अप्_240.008अब्।
सामर्थ्यात् पादतो हीनो दूतस्तु त्रिविधः स्मृतः

240.009

नाविज्ञातं पुरं शत्रोः प्रविशेच्च न शंसदं ।अप्_240.009अब्।
:न्
1 नय इष्यते इति ख.. , घ.. च
2 शासनशासक इति ख.. , छ.. च
:प् 370
कालमीक्षेत कार्यार्थमनुज्ञातश् च निष्पतेत्

240.010

छिद्रञ्च शत्रोर्जानीयात् कोषमित्रबलानि च ।अप्_240.010अब्।
रागापरागौ जानीयाद् दृष्टिगात्रविचेष्टितैः(1)

240.011

कुर्याच्चतुर्विधं स्तोर्त्रं पक्षयोरुभयोरपि ।अप्_240.011अब्।
तपस्विव्यञ्जनोपेतैः सुचरैः(2) सह संवसेत्

240.012

चरः प्रकाशो दूतः स्यादप्रकाशश् चरो द्विधा ।अप्_240.012अब्।
बणिक् कृषीबलो लिङ्गी भिक्षुकाद्यात्मकाश् चराः

240.013

यायादरिं व्यसनिनं निष्फले(3) दूतचेष्टिते ।अप्_240.013अब्।
प्रकृतव्यसनं यत्स्यात्तत् समीक्ष्य समुत्पतेत्

240.014

अनयाद्व्यस्यति श्रेयस्तस्मात्तद्व्यसनं स्मृतं ।अप्_240.014अब्।
हुताशनो जलं व्याधिर्दुर्भिक्षं मरकं तथा

240.015

इति पञ्चविधं दैवं व्यसनं मानुषं परं ।अप्_240.015अब्।
दैवं पुरुषकारेण शान्त्या च प्रशमन्नयेत्

240.016

उत्थापितेन नीत्या च मानुषं व्यसनं हरेत् ।अप्_240.016अब्।
मन्त्रो मन्त्रफलावाप्तिः कार्यानुष्ठानमायतिः

240.017

आयव्ययौ दण्डनीतिरमित्रप्रतिषेधनं ।अप्_240.017अब्।
व्यसनस्य प्रतीकारो राज्यराजाभिरक्षणं

240.018

इत्यमात्यस्य कर्मेदं हन्ति सव्यसनान्वितः ।अप्_240.018अब्।
हिरण्यधान्यवस्त्राणि वाहनं प्रजया भवेत्

240.019

तथान्ये द्रव्यनिचया दन्ति सव्यसना प्रजा ।अप्_240.019अब्।
प्रजानामापदिस्थानां रक्षणं कोषदण्डयोः

240.020

:न्
1 दृष्टिवक्त्रविचेष्टितैर् इति ग.. , घ.. , छ.. , झ.. , ञ.. च
2 स्वचरैर् इति ज..
3 विफले इति घ.. , झ.. , ञ.. च
:प् 371
पौराद्याश्चोपकुर्वन्ति संश्रयादिह दुर्दिनं ।अप्_240.020अब्।
तूष्णीं युद्धं जनत्राणं मित्रामित्रपरिग्रहः

240.021

सामन्तादि कृते दोषे नश्येत्तद्व्यसनाच्च तत् ।अप्_240.021अब्।
भृत्यानां भरणं दानं प्रजामित्रपरिग्रहः

240.022

धर्मकामादिभेदश् च दुर्गसंस्कारभूषणं ।अप्_240.022अब्।
कोषात्तद्व्यसनाद्धन्ति कोषमूलो हि भूपतिः

240.023

मित्रामित्रावनीहेमसाधनं रिपुमर्दनं ।अप्_240.023अब्।
दूरकार्याशुकारित्वं दण्डात्तद्व्यसनाद्धरेत्

240.024

सस्तम्भयति मित्राणि अमित्रं नाशयत्यपि ।अप्_240.024अब्।
धनाद्यैर् उपकारित्वं मित्रात्तद्व्यसनाद्धरेत्(1)

240.025

राजा सव्यसनी हन्याद्राजकार्याणि यानि च ।अप्_240.025अब्।
वाग्दण्डयोश् च पारुष्यमर्थदूषणमेव च

240.026

पानं स्त्री मृगया द्यूतं व्यसनानि महीपतेः ।अप्_240.026अब्।
आलस्यं स्तब्धता दर्पः प्रमादो द्वैधकारिता

240.027

इति पूर्वोपदिष्टञ्च सचिवव्यसनं स्मृतं ।अप्_240.027अब्।
अनावृष्टिश् च पीडादौ राष्ट्रव्यसनमुच्यते

240.028

विशीर्णयन्त्रप्राकारपरिखात्वमशस्त्रता ।अप्_240.028अब्।
क्षीणया सेनया नद्धं दुर्गव्यसनमुच्यते

240.029

व्ययीकृतः परिक्षिप्तो ऽप्रजितो ऽसञ्चितस् तथा ।अप्_240.029अब्।
दषितो दरसंस्थश् च कोषव्यसनमुच्यते

240.030

उपरुद्धं परिक्षिप्तममानितविमानितं ।अप्_240.030अब्।
:न्
1 संस्तम्भयतीत्यादिः, मित्रात्तद्व्यसनाद्धरेदित्यन्तः
पाठः छ.पुअतके नास्ति
:प् 372
अभूतं व्याधितं श्रान्तं दूरायातन्नवागतं

240.031

परिक्षीणं प्रतिहतं प्रहताग्रतरन्तथा ।अप्_240.031अब्।
आशानिर्वेदभूयिष्ठमनृतप्राप्तमेव च

240.032

कलत्रगर्भन्निक्षिप्तमन्तःशल्पं तथैव च ।अप्_240.032अब्।
विच्छिन्नवीवधासारं शून्यमूलं तथैव च

240.033

अस्वाम्यसंहतं वापि भिन्नकूटं तथैव च ।अप्_240.033अब्।
दुष्पार्ष्णिग्राहमर्थञ्च बलव्यसनमुच्यते

240.034

दैवोपपीडितं मित्रं ग्रस्तं शत्रुबलेन च ।अप्_240.034अब्।
कामक्रोधादिसंयुक्तमुत्साहादरिभिर्भवेत्

240.035

अर्थस्य दूषणं क्रोधात् पारुष्यं वाक्यदण्डयोः ।अप्_240.035अब्।
कामजं मृगया द्यूतं व्यसनं पानकं स्त्रियः

240.036

वाक्पारुष्यं परं लोके उद्वेजनमनर्थकं ।अप्_240.036अब्।
असिद्धसाधनं दण्डस्तं युक्त्यानयेन्नृपः

240.037

उद्वेजयति भूतानि दण्डपारुष्यवान् नृपः ।अप्_240.037अब्।
भूतान्युद्वेज्यमानानि द्विषतां यान्ति संश्रयं

240.038

विवृद्धाः शत्रवश् चैव विनाशाय भवन्ति ते ।अप्_240.038अब्।
दूष्यस्य दूषणार्थञ्च परित्यागो महीयसः

240.039

अर्थस्य नीतितत्त्वज्ञैर् अर्थदूषणमुच्यते ।अप्_240.039अब्।
पानात् कार्यादिनो ज्ञानं मृगयातो ऽरितः क्षयः

240.040

जितश्रमार्थं मृगयां विचरेद्रक्षिते वने ।अप्_240.040अब्।
धर्मार्थप्राणमाशादि द्यूते स्यात् कलहादिकं

240.041

कालातिपातो धर्मार्थपी.रा स्त्रीव्यसनाद्भवेत् ।अप्_240.041अब्।
पानदोषात् प्राणनाशः कार्याकार्याविनिश् चयः

240.042

:प् 373
स्कन्धावारनिवेशज्ञो निमित्तज्ञो रिपुं जयेत् ।अप्_240.042अब्।
स्कन्धावारस्य मध्ये तु सकोषं नृपतेर्गृहं

240.043

मौलीभूतं श्रेणिसुहृद्द्विषदाटविकं बलं ।अप्_240.043अब्।
राजहर्म्यं समावृत्य क्रमेण विनिवेशयेत्(1)

240.044

सैन्यैकदेशः सन्नद्धः सेनापतिपुरःसरः ।अप्_240.044अब्।
परिभ्रमेच्चत्वरांश् च मण्डलेन वहिर् निशि

240.045

वार्ताः स्वका विजानीयाद्दरसीमान्तचारिणः ।अप्_240.045अब्।
निर्गच्छेत् प्रविशेच्चैव सर्व एवोपलक्षितः

240.046

सामदानं च भेदश् च दण्डोपेक्षेन्द्रजालकं ।अप्_240.046अब्।
मायोपायाः सप्त परे निक्षिपेत्साधनाय तान्

240.047

चतुर्विधं स्मृतं साम उपकारानुकीर्तनात् ।अप्_240.047अब्।
मिथःसम्बन्ह्दकथनं मृदुपूर्वं च भाषणं

240.048

आयाते दर्शनं वाचा तवाहमिति चार्पणं ।अप्_240.048अब्।
यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः

240.049

प्रतिदानं तदा तस्य गृहीतस्यानुमोदनं ।अप्_240.049अब्।
द्रव्यदानमपूर्वं च स्वयङ्ग्राहप्रवर्तनं(2)

240.050

देयश् च प्रतिमोक्षश् च दानं पञ्चविधं स्मृतं ।अप्_240.050अब्।
स्नेहरागापनयनसंहर्षोत्पादनं तथा

240.051

मिथो भेदश् च भेदज्ञैर् भेदश् च त्रिविधः स्मृतः ।अप्_240.051अब्।
बधो ऽर्थहरणं चैव परिक्लेशस्त्रिधा दमः

240.052

प्रकाशश्चाप्रकाशश् च लोकद्विष्टान् प्रकाशतः ।अप्_240.052अब्।
उद्विजेत हतैर् लोकस्तेषु पिण्डः प्रशस्यते

240.053

:न्
1 परिवेशयेदिति ख..
2 तथैव सुप्रवर्तनमिति ज.. , ट.. च
:प् 374
विशेषेणोपनिषिद्योगैर् हन्याच्छस्त्रादिना द्विषः ।अप्_240.053अब्।
जातिमात्रं द्विजं नैव हन्यात् सामोत्तरं वशे

240.054

प्रलिम्पन्निव चेतांसि दृष्ट्वासाधु पिबन्निव ।अप्_240.054अब्।
ग्रसन्निवामृतं साम प्रयुञ्जीत प्रियं वचः

240.055

मिथ्याभिशस्तः श्रीकाम आहूयाप्रतिमानितः ।अप्_240.055अब्।
राजद्वेषी चातिकर आत्मसम्भावितस् तथा

240.056

विच्छिन्नधर्मकामार्थः क्रुद्धो मानी विमानितः ।अप्_240.056अब्।
अकारणात् परित्यक्तः कृतवैरो ऽपि सान्त्वितः

240.057

हृतद्रव्यकलत्रश् च पूजार्हो ऽप्रतिपूजितः ।अप्_240.057अब्।
एतांस्तु भेदयेच्छत्रौ स्थितान्नित्यान् सुशङ्कितान्

240.058

आगतान् पूजयेत् कामैर् निजांश् च प्रशमन्नयेत् ।अप्_240.058अब्।
सामदृष्टानुसन्धानमत्युग्रभयदर्शनं

240.059

प्रधानदानमानं च भेदोपायाः प्रकीर्तिताः ।अप्_240.059अब्।
मित्रं हतं काष्ठमिव घुणजग्धं विशीर्यते

240.060

त्रिशक्तिर्देशकालज्ञो दण्डेनास्तं नयेदरीन् ।अप्_240.060अब्।
मैत्रीप्रधानं कल्याणबुद्धिं सान्त्वेन साधयेत्

240.061

लुब्धं क्षीणञ्च दानेन मित्रानन्योन्यशङ्कया ।अप्_240.061अब्।
दण्डस्य दर्शनाद्दुष्टान् पुत्रभ्रातादि सामतः

240.062

दानभेदैश् चमूमुख्यान् योधान्(1) जनपददिकान् ।अप्_240.062अब्।
सामान्ताटविकान् भेददण्डाभ्यामपराद्धकान्

240.063

देवताप्रतिमानन्तु पूजयान्तर्गतैर् नरैः ।अप्_240.063अब्।
पुमान् स्त्रीवस्त्रसंवीतो निशि चाद्भुतदर्शनः

240.064

:न्
1 दानभेदैश् चैव मुख्यान् पौरानिति ज..
:प् 375
वेतालोल्कापिशाचानां शिवानां च स्वरूपकी ।अप्_240.064अब्।
कामतो रूपधारित्वं शस्त्राग्न्यश्माम्बुवर्षणं

240.065

तमो ऽनिलो ऽनलो मेघ इति माया ह्य् अमानुषी ।अप्_240.065अब्।
जघान कीचकं भीम आस्थितः स्त्रीरूपतां

240.066

अन्याये व्यसने युद्धे प्रवृत्तस्यानिवारणं ।अप्_240.066अब्।
उपेक्षेयं स्मृता भ्रातोपेक्षितश् च हिडिम्बया

240.067

मेघान्धकारवृष्ट्यग्निपर्वताद्भुतदर्शनं ।अप्_240.067अब्।
दरस्थानं च सैन्यानां दर्शनं ध्वजशालिनां

240.068

छिन्नपाटितभिन्नानां संसृतानां च दर्शनं ।अप्_240.068अब्।
इतीन्द्रजालं द्विषताम्भोत्यर्थमुपकल्पयेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc