भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 239

239.001

:ए इत्य् आग्नेये महापुराणे राजधर्मो नाम
अष्टत्रिंशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {239}
:श् अथोनचत्वारिंशदधिकद्विशततमो ऽध्यायः
षाड्गुण्यं
राम उवाच
मण्डलं चिन्तयेत् मुख्यं राजा द्वादशराजकं ।अप्_239.001अब्।
अरिर्मित्रमरेर्मित्रं मित्रमित्रमतः परं

239.002

:न्
1 राज्यं राष्ट्रञ्चेति ख.. , छ.. , ञ.. च
2 लक्षयेदिति ञ..
:प् 366
तथारिमित्रमित्रञ्च विजिगीषोः पुरः स्मृताः(1) ।अप्_239.002अब्।
पार्ष्णिग्राहः स्मृतः पश्चादाक्रन्दस्तदनन्तरं

239.003

आसारावनयोश् चैवं विजगीषाश् च मण्डलं ।अप्_239.003अब्।
अरेश् च विजिगीषोश् च मध्यमो भूम्यनन्तरः

239.004

अनुग्रहे संहतयोर् निग्रहे व्यस्तयोः प्रभुः ।अप्_239.004अब्।
मण्डलाद्वहिरेतेषामुदासीनो बलाधिकः

239.005

अनुग्रहे संहतानां व्यस्तानां च बुधे प्रभुः ।अप्_239.005अब्।
सन्धिञ्च विग्रहं यानमासानदि वदामि ते

239.006

बलवद्विग्रहीतेन सन्धिं कुर्याच्छिवाय च ।अप्_239.006अब्।
कपाल उपहारश् च सन्तानः सङ्गतस् तथा

239.007

उपन्यासः प्रतीकारः संयोगः पुरुषान्तरः ।अप्_239.007अब्।
अदृष्टनर आदिष्ट आत्मापि स उपग्रहः

239.008

परिक्रमस् तथा छिन्नस् तथा च परदूषणं ।अप्_239.008अब्।
स्कन्धोपयेयः सन्धिश् च सन्धयः षोडशेरिताः

239.009

परस्परोपकारश् च मैत्रः सम्बन्धकस् तथा(2) ।अप्_239.009अब्।
उपहाराश् च चत्वारस्तेषु मुख्याश् च सन्धयः

239.010

बालो वृद्धो दीर्घरोगस् तथा बन्धुवहिष्कृतः ।अप्_239.010अब्।
मौरुको भीरुकजनो लुब्धो लुब्धजनस् तथा

239.011

विरक्तप्रकृतिश् चैव विषयेष्वतिशक्तिमान् ।अप्_239.011अब्।
अनेकचित्तमन्त्रश् च देवब्राह्मणनिन्दकः

239.012

दैवोपहतकश् चैव दैवनिन्दक एव च ।अप्_239.012अब्।
दुर्भिक्षव्यसनोपेतो बलव्यसनसङ्कुलः

239.013

:न्
1 पुरःस्थिता इति ख.. , छ.. च
2 मैत्रः सुखकरस्तथेति ग..
:प् 367
स्वदेशस्थो बहुरिपुर्मुक्तः कालेन यश् च ह ।अप्_239.013अब्।
सत्यधर्मव्यपेतश् च विंशतिः पुरुषा अमी

239.014

एर्तैः सन्धिं न कुर्वीत विगृह्णीयात्तु केबलं ।अप्_239.014अब्।
परस्परापकारेण पुंसां भवति विग्रहः

239.015

आत्मनो ऽभ्युदयाकाङ्क्षी पीड्यमानः परेण वा ।अप्_239.015अब्।
देशकालबलोपेतः प्रारभेतेह विग्रहं(1)

239.016

राज्यस्त्रीस्थानदेशानां ज्ञानस्य च बलस्य च ।अप्_239.016अब्।
अपहारी(2) मदो मानः पीडा वैषयिकी तथा

239.017

ज्ञानात्मशक्तिधर्माणां(3) विघातो दैवमेव च ।अप्_239.017अब्।
मित्रार्थञ्चापमानश् च तथा बन्धुविनाशनं

239.018

भूतानुग्रहविच्छेदस् तथा मण्डलदूषणं ।अप्_239.018अब्।
एकार्थाभिनिवेशत्वमिति विग्रहयोनयः

239.019

सापत्न्यं वास्तुजं स्त्रीजं वाग्जातमपराधजं ।अप्_239.019अब्।
वैरं पञ्चविधं प्रोक्तं साधनैः प्रशमन्नयेत्

239.020

किञ्चित्फलं निष्फलं वा सन्दिग्धफलमेव च ।अप्_239.020अब्।
तदात्वे दोषजननमायत्याञ्चैव निष्फलं

239.021

आयत्याञ्च तदात्वे च दोषसञ्जननं तथा ।अप्_239.021अब्।
अपरिज्ञातवीर्येण परेण स्तोभितो ऽपि वा

239.022

परार्थं स्त्रीनिमित्तञ्च दीर्घकालं द्विजैः सह ।अप्_239.022अब्।
अकालदैवयुक्तेन बलोद्धतसखेन च

239.023

:न्
1 आत्मन इत्य् अदिः, विग्रहमित्यन्तः पाठः ग..पुस्तके नास्ति
2 अवहार इति घ..
3 ज्ञानार्थशक्तिधर्माणामिति ञ..
:प् 368
तदात्वे फलसंयुक्तमायत्यां फलवर्जितं ।अप्_239.023अब्।
आयत्यां फलसंयुक्तं तदात्वे निष्फलं तथा

239.024

इतीमं षोडशविधन्नकुर्यादेव विग्रहं ।अप्_239.024अब्।
तदात्वायतिसंशुद्धं कर्म राजा सदाचरेत्

239.025

हृष्टं पुष्टं बलं मत्वा गृह्णीयाद्विपरीतकं ।अप्_239.025अब्।
मित्रमाक्रन्द आसारो यदा स्युर्दृढभक्तयः

239.026

परस्य विपरीतञ्च तदा विग्रहमाचरेत् ।अप्_239.026अब्।
विगृह्य सन्धाय तथा सम्भूयाथ प्रसङ्गतः

239.027

उपेक्षया च निपुणैर् यानं पञ्चविधं स्मृतं ।अप्_239.027अब्।
परस्परस्य सामर्थ्यविघातादासनं स्मृतं

239.028

अरेश् च विजगीषोश् च यानवत् पञ्चधा स्मृतम् ।अप्_239.028अब्।
बलिनीर्द्विषतोर्मध्ये वाचात्मानं समर्पयन्

239.029

द्वैधीभावेन तिष्ठेत काकाक्षिवदलक्षितः ।अप्_239.029अब्।
उभयोरपि सम्पाते सेवेत बलवत्तरं

239.030

यदा द्वावपि नेच्छेतां संश्लेषं जातसंविदौ ।अप्_239.030अब्।
तदोपसर्पेत्तच्छत्रुमधिकं वा स्वयं व्रजेत्(1)

239.031

उच्छिद्यमानो बलिना निरुपायप्रतिक्रियः ।अप्_239.031अब्।
कुलोद्धतं सत्यमार्यमासेवेत बलोत्कटं(2)

239.032

तद्दर्शनोपास्तिकता नित्यन्तद्भावभाविता ।अप्_239.032अब्।
तत्कारितप्रश्रियता वृत्तं संश्रयिणः श्रुतं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc