अग्नि पुराण · अध्याय 23
:ए इत्य् आदिमहापुराणे आग्नेये स्नानविधिकथनं नाम
द्वाविंशोध्यायः
% छप्तेर् {23}
:श् अथ त्रयोविंशोध्यायः
पूजाविधिकथनं
नारद उवाच
वक्ष्ये पूजाविधिं विप्रा यत् कृत्वा सर्वमाप्नुयात् ।अप्_23.001अब्।
प्रक्षालिताङ्घ्रिराचम्य वाग्यतः कृतरक्षकः
:न्
1 ध्यायं हरिं देवमिति घ.चिह्नितपुस्तकपाठः
:प् 56
प्राङ्मुखः स्वस्तिकं बद्ध्वा पद्माद्यपरमेव च ।अप्_23.002अब्।
यं वीजं नाभिमध्यस्थं धूम्रं चण्डानिलात्मकं
विशेषयेदशेषन्तु(1) ध्यायेत् कायात्तु कल्मषं ।अप्_23.003अब्।
क्षौं हृत्पङ्कजमध्यस्थं वीजं तेजोनिधिं स्मरन्
अधोर्ध्वतिर्यग्गाभिस्तु ज्वालाभिः कल्मषं दहेत् ।अप्_23.004अब्।
शशाङ्काकृतिवद्ध्यायेदम्बरस्थं सुधाम्बुभिः
हृत्पद्मव्यापिभिर्देहं स्वकमाप्लावयेत्सुधीः(2) ।अप्_23.005अब्।
सुसुम्नायोनिमार्गेण सर्वनाडीविसर्पिभिः
शोधयित्वा न्यसेत्तत्त्वं करशुद्धिरथास्त्रकं ।अप्_23.006अब्।
व्यापकं हस्तयोरादौ दक्षिणाङ्गुष्ठतोङ्गकं
मूलं देहे द्वादशाङ्गं न्यसेन्मन्त्रैर् द्विषट्ककैः ।अप्_23.007अब्।
हृदयं च शिरश् चैव शिखा वर्मास्त्रलोचने
उदरं च तथा पृष्ठं बाहुरुजानुपादकं ।अप्_23.008अब्।
मुद्रां दत्त्वा स्मरेत् विष्णुं जप्त्वाष्टशतमर्चयेत्
वामे तु वर्धनीं न्यस्य पूजाद्रव्यं तु दक्षिणे ।अप्_23.009अब्।
प्रक्षाल्यास्त्रेण चार्घ्येण गन्धपुष्पान्विते न्यसेत्
चैतन्यं सर्वगं ज्योतिरष्टजप्तेन वारिणा ।अप्_23.010अब्।
फडन्तेन तु संसिच्य हस्ते ध्यात्वा हरिं परे(3)
धर्मं ज्ञानं च वैराग्यमैश्वर्यं वह्निदिङ्मुखाः ।अप्_23.011अब्।
अधर्मादीनि गात्राणि पूर्वादौ योगपीठके
कूर्मं पीठे ह्य् अनन्तञ्च यमं(4) सूर्यादिमण्डलं ।अप्_23.012अब्।
:न्
1 विशोषयेदशेषन्तु इति ङ, चिह्नितपुस्तकपाठः
2 स्वकामान् दाहयेत् सुधीः इति ख, चिह्नितपुस्तकपाठः
स्वकमाह्लादयेत् सुधीरिति ङ, चिह्नितपुस्तकपाठः
3 स्थलं तेन तु संसिच्य हस्ते ध्यात्वा हरिं पठेदिति ङ,
चिह्नितपुस्तकपाठः
4 पद्ममिति ख, ग, ङ, चिह्नितपुस्तकत्रयपाठः
:प् 57
विमलाद्याः केशरस्थानुग्रहा कर्णिका स्थिता
पूर्वं स्वहृदये ध्यात्वा आवाह्यार्चैश् च मण्डले ।अप्_23.013अब्।
अर्घ्यं पाद्यं तथाचामं मधुपर्कं पुनश् च तत्
स्नानं वस्त्रोपवीतञ्च भूषणं गन्धपुष्पकं ।अप्_23.014अब्।
धूपदीपनैर् वेद्यानि पुण्डरीकाक्षविद्यया
यजेदङ्गानि पूर्वादौ द्वारि पूर्वे परेण्डजं ।अप्_23.015अब्।
दक्षे चक्रं गदां सौम्ये कोणे शङ्खं धनुर्न्यसेत्
देवस्य वामतो दक्षे चेषुधी खड्गमेव च ।अप्_23.016अब्।
वामे चर्म श्रियं(1) दक्षे पुष्टिं वामेग्रतो न्यसेत्
वनमालाञ्च श्रीवत्सकौस्तुभौ दिक्पतीन्वहिः ।अप्_23.017अब्।
स्वमन्त्रैः पूजयेत् सर्वान् विष्णुरर्घोवसानतः(2)
व्यस्तेन च समस्तेन अङ्गैर् वीजेन वै यजेत् ।अप्_23.018अब्।
जप्त्वा प्रदक्षिणीकृत्य स्तुत्त्वार्ध्यञ्च समर्प्य च
हृदये विन्यसेद्ध्यात्वा अहं ब्रह्म हरिस्त्विति ।अप्_23.019अब्।
आगच्छावाहने योज्यं क्षमस्वेति विसर्जने
एवमष्टाक्षराद्यैश् च पूजां कृत्वा विमुक्तिभाक् ।अप्_23.020अब्।
एकमूर्त्यर्चनं प्रोक्तं नवव्यूहार्चनं शृणु
अङ्गुष्ठकद्वये न्यस्य वासुदेवं बलादिकान् ।अप्_23.021अब्।
तर्जन्यादौ शरीरेथ शिरोललाटवक्त्रके
हृन्नाभिगुह्यजान्वङ्घ्रौ मध्ये पूर्वादिकं यजेत्(3) ।अप्_23.022अब्।
एकपीठं नवव्यूहं नवपीठञ्च पूर्ववत्
:न्
1 वामे वर्म श्रियमिति ख, चिह्नितपुस्तकपाठः
2 अस्मल्लब्धपुस्तकेषु विष्णुरर्घोवसानत इति विष्णावर्घौ च
मानतः इति च पाठो वर्तते । अयन्स्वसमीचीन इव प्रतिभाति
विष्णुमर्घ्यासनादिभिरिति तु युक्तः पाठः
3 मध्यगुल्फादितः पिस्फच इति ङ, चिह्नितपुस्तकपाठः
:प् 58
नवाब्जे नवमूर्त्या च नवव्यूहञ्च पूर्ववत् ।अप्_23.023अब्।
इष्टं मध्ये ततः स्थाने वासुदेवञ्च पूजयेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0