भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 238

238.001

:ए इत्य् आग्नेये महापुराणे रामोक्तनीतिर्नाम
सप्तत्रिंशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {238}
:श् अथाष्टत्रिंशदधिकशततमो ऽध्यायः
राजधर्माः
राम उवाच
स्वाम्यमात्यञ्च राष्ट्रञ्च दुर्गं कोषो बलं सुहृत् ।अप्_238.001अब्।
परस्परोपकारीदं सप्ताङ्गं राज्यमुच्यते

238.002

:न्
1 स्वसमृद्धिष्वित्यादिः, मीनव्रतचरिष्णुतेत्यन्तः ज.. पुस्तके
नास्ति
:प् 361
राज्याङ्गानां वरं राष्ट्रं साधनं पालयेत् सदा(1) ।अप्_238.002अब्।
कुलं शीलं वयः सत्त्वं दाक्षिण्यं क्षिप्रकारिता

238.003

अविसंवादिता सत्यं वृद्धसेवा कृतज्ञता ।अप्_238.003अब्।
दैवसम्पन्नता बुद्धिरक्षुद्रपरिवारता

238.004

शक्यसामन्तता चैव तथा च दृढभक्तिता(2) ।अप्_238.004अब्।
दीर्घदर्शित्वमुत्साहः शुचिता स्थूललक्षिता

238.005

विनीतत्वं धार्मिकता साधोश् च नृपतेर्गुणाः ।अप्_238.005अब्।
प्रख्यातवंशमक्रूरं लोकसङ्ग्राहिणं शुचिं

238.006

कुर्वीतात्सहिताङ्क्षी परिचारं महीपतिः ।अप्_238.006अब्।
वाग्मी प्रगल्भः स्मृतिमानुदग्रो बलवान् वशी

238.007

नेता दण्डस्य निपुणः कृतशिल्पपरिग्रहः(3) ।अप्_238.007अब्।
पराभियोगप्रसहः सर्वदुष्टप्रतिक्रिया(4)

238.008

प्रवृत्तान्ववेक्षी च(5) सन्धिविग्रहतत्त्ववित् ।अप्_238.008अब्।
गूढमन्त्रप्रचारज्ञो देशकालविभागवित्

238.009

आदाता सम्यगर्थानां विनियोक्ता च पात्रवित् ।अप्_238.009अब्।
क्रोधलोभभयद्रोहदम्भचापलवर्जितः

238.010

परोपतापपैशून्यमात्सर्येर्षानृतातिगः ।अप्_238.010अब्।
वृद्धोपदेशसम्पन्नः शक्तो मधुरदर्शनः

238.011

गुणानुरागस्थितिमानात्मसम्पद्गुणाः स्मृताः ।अप्_238.011अब्।
कुलीनाः शुचयः शूराः श्रुतवन्तो ऽनुरागिणः(6)

238.012

:न्
1 स्वाम्यमात्येत्यादिः, पालयेत् सदेत्यन्तः पाठः ग.. पुस्तके
नास्ति
2 तद्वच्च दृढभक्तितेति ग..
3 कृतशिल्पः स्ववग्रह इति घ.. , ञ.. च
4 सर्वदुष्टप्रतिग्रह इति ख.. , घ.. , छ.. च
5 परच्छिद्रान्ववेक्षी चेति घ.. , ञ.. च
6 गुणवन्तो ऽनुगामिन इति ग..
:प् 362
दण्डनीतेः प्रयोक्तारः सचिवाः स्युर्महीपतेः ।अप्_238.012अब्।
सुविग्रहो जानपदः कुलशीककलान्वितः

238.013

वाग्मी प्रगल्भश् चक्षुष्मानुत्साही प्रतिपत्तिमान् ।अप्_238.013अब्।
स्तम्भचापलहीनश् च मैत्रः क्लेशसहः शुचिः

238.014

सत्यसत्त्वधृतिस्थैर्यप्रभावारोग्यसंयुतः ।अप्_238.014अब्।
कृतशिल्पश् च(1) दक्षश् च प्रज्ञावान् धारणान्वितः

238.015

दृढभक्तिरकर्ता च वैराणां सचिवो भवेत् ।अप्_238.015अब्।
स्मृतिस्तत्परतार्थेषु चित्तज्ञो ज्ञाननिश् चयः(2)

238.016

दृढता मन्त्रगुप्तिश् च मन्त्रिसम्पत् प्रकीर्तिता ।अप्_238.016अब्।
त्रय्यां च दण्डनीत्यां च कुशलः स्यात् पुरोहितः

238.017

अथर्वदेवविहितं कुर्याच्छान्तिकपौष्टिकं ।अप्_238.017अब्।
साधुतैषाममात्यानां तद्विद्यैः सह बुद्धिमान्

238.018

चक्षुष्मत्तां च शिल्पञ्च परीक्षेत गुणद्वयं(3) ।अप्_238.018अब्।
स्वजनेभ्यो विजानीयात् कुलं स्थानमवग्रहं

238.019

परिकर्मसु दक्षञ्च विज्ञानं धारयिष्णुतां ।अप्_238.019अब्।
गुणत्रयं परीक्षेत प्रागलभ्यं प्रीतितां तथा(4)

238.020

कथायोगेषु बुद्ध्येत वाग्मित्वं सत्यवादितां ।अप्_238.020अब्।
उतसाहं च प्रभावं च तथा क्लेशसहिष्णुतां(5)

238.021

धृतिं चैवानुरागं च स्थैर्यञ्चापदि लक्षयेत् ।अप्_238.021अब्।
भक्तिं मैत्रीं च शौचं च जानीयाद्व्यवहारतः

238.022

:न्
1 कृतशीलश्चेति ज..
2 चिन्तको ज्ञाननिश् चय इति ग..
3 परीक्षेत गुणत्रयमिति ज..
4 प्रतिभां तथेति ज..
5 स्वजनेभ्य इत्य् आदिः, क्लेशसहिष्णुतामित्यन्तः पाठः छ..
पुस्तके नास्ति
:प् 363
संवासिभ्यो बलं सत्त्वमारोग्यं शीलमेव च(1) ।अप्_238.022अब्।
अस्तब्धतामचापल्यं वैराणां चाप्यकीर्तनं

238.023

प्रत्यक्षतो विजानीयाद् भद्रतां क्षुद्रतामपि ।अप्_238.023अब्।
फलानुमेयाः सर्वत्र परोक्षगुणवृत्तयः

238.024

शस्याकरवती पुण्या खनिद्रव्यसमन्विता ।अप्_238.024अब्।
गोहिता भूरिसलिला पुण्यैर् जनपदैर् युता

238.025

रम्या सकुञ्जरबला वारिस्थलपथान्विता ।अप्_238.025अब्।
अदेवमातृका चेति शस्यते भूरिभूतये

238.026

शूद्रकारुवणिक्प्रायो महारम्भः कृषी बलः ।अप्_238.026अब्।
सानुरागो रिपुद्वेषी पीडासहकरः पृथुः

238.027

नानादेश्यैः समाकीर्णो धार्मिकः पशुमान् बली ।अप्_238.027अब्।
ईदृक्जनपदः शस्तो ऽमूर्खव्यसनिनायकः(2)

238.028

पृथुसीमं महाखातमुच्चप्राकारतोरणं(3) ।अप्_238.028अब्।
पुरं समावसेच्छैलसरिन्मरुवनाश्रयं

238.029

जलवद्धान्यधनवद्दुर्गं कालसहं महत् ।अप्_238.029अब्।
औदकं पार्वतं वार्क्षमैरिणं धन्विनं च षट्

238.030

ईप्सितद्रव्यसम्पूर्णः पितृपैतामहोचितः ।अप्_238.030अब्।
धर्मार्जितो व्ययसहः कोषो धर्मादिवृद्धये

238.031

पितृपैतामहो वश्यः संहतो दत्तवेतनः ।अप्_238.031अब्।
विख्यातपौरुषो जन्यः कुशुलः शकुनैर् वृतः

238.032

नानाप्रहणोपेतो नानायुद्धविशारदः ।अप्_238.032अब्।
:न्
1 सत्त्वमारोग्यं कुलमेव चेति ज..
2 मख्यव्यसननायक इति ग..
3 उच्चप्रकारगोपुरमिति घ.. , ञ.. च
:प् 364
नानायोधसमाकीर्णौ नीराजितहयद्विपः

238.033

प्रवासायासदुःखेषु युद्धेषु च कृतश्रमः ।अप्_238.033अब्।
अद्वैधक्षत्रियप्रायो दण्डो दण्डवतां मतः

238.034

योगविज्ञानसत्त्वारूढ्यं महापक्षं प्रियम्वदं ।अप्_238.034अब्।
आयातिक्षममद्वैधं मित्रं कुर्वीत सत्कुलं(1)

238.035

दूरादेवाभिगमनं स्पष्टार्थहृदयानुगा ।अप्_238.035अब्।
वाक् सत्कृत्य प्रदानञ्च त्रिविधो मित्रसङ्ग्रहः

238.036

धर्मकामार्थसंयोगो मित्रात्तु त्रिविधं फलं ।अप्_238.036अब्।
औरसं तत्र सन्नद्धं(2) तथा वंशक्रमागतं

238.037

रक्षितं व्यसनेभ्यश् च मित्रं ज्ञेयं चतुर्विधं ।अप्_238.037अब्।
मित्रे गुणाः सत्यताद्याः समानसुखदुखता

238.038

वक्ष्ये ऽनुजीविनां वृत्ते सेवी सेवेत भूपतिं ।अप्_238.038अब्।
दक्षता भद्रता दार्ढ्यं क्षान्तिः क्लेशसहिष्णुता

238.039

सन्तोषः शीलमुत्साहो मण्डयत्यनुजीविनं ।अप्_238.039अब्।
यथाकालमुपासीत राजानं सेवको नयात्

238.040

परस्थानगमं क्रौर्यमौद्धत्यं मत्सरन्त्यजेत् ।अप्_238.040अब्।
विगृह्य कथनं भृत्यो न कुर्याज् ज्यायसा सह

238.041

गुह्यं मर्म च मन्त्रञ्च न च भर्तुः प्रकाशयेत् ।अप्_238.041अब्।
रक्ताद् वृत्तिं समीहेत विरक्तं सन्त्यजेन्नृपं

238.042

अकार्ये प्रतिषेधश् च कार्ये चापि प्रवर्तनं ।अप्_238.042अब्।
सङ्क्षेपादिति सद्वृत्तं बन्धुमित्रानुजीविनां

238.043

:न्
1 मित्रं कुर्वीत सत्क्रियमिति ज..
2 तत्र सम्बद्धमिति ग..
:प् 365
आजीव्यः सर्वसत्त्वानां राजा पर्जन्यवद्भवेत् ।अप्_238.043अब्।
आयद्वारेषु चाप्त्यर्थं धनं चाददतीति च

238.044

कुर्यादुद्योगसम्पन्नानध्यक्षान् सर्वकर्मसु ।अप्_238.044अब्।
कृषिर्वणिक्पथो दुर्गं सेतुः कुञ्जरबन्धनं

238.045

खन्याकरबलादानं शून्यानां च निवेशनं ।अप्_238.045अब्।
अष्टवर्गमिमं राजा साधुवृत्तो ऽनुपालयेत्

238.046

आमुक्तिकेभ्यश् चौरेभ्यः पौरेभ्यो राजवल्लभात् ।अप्_238.046अब्।
पृथिवीपतिलोभाच्च प्रजानां पञ्चधा भयं

238.047

अवेक्ष्यैतद्भयं काले आददीत करं नृपः ।अप्_238.047अब्।
अभ्यन्तरं शरीरं स्वं वाह्यं राष्ट्रञ्च(1) रक्षयेत्(2)

238.048

दण्डांस्त दण्डयेद्राजा स्वं रक्षेच्च विषादितः ।अप्_238.048अब्।
स्त्रियः पुत्रांश् च शत्रुभ्यो विश्वसेन्न कदाचन

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc