भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 237

237.001

:ए इत्य् अग्नेये महापुराणे श्रीस्तोत्रं नाम
षट्त्रिंशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {237}
:श् अथ सप्तत्रिंशदधिकद्विशततमो ऽध्यायः
रामोक्तनीतिः
अग्निर् उवाच
नीतिस्ते पुष्करोक्ता तु रामोक्ता लक्ष्मणाय या ।अप्_237.001अब्।
जयाय तां प्रवक्ष्यामि शृणु धर्मादिवर्धनीं

237.002

राम उवाच
न्यानेनार्जनमर्थस्य वर्धनं रक्षणं चरेत् ।अप्_237.002अब्।
सत्पात्रप्रतिपत्तिश् च राजवृत्तं चतुर्विधं

237.003

नयस्य विनयो मूलं विनयः शास्त्रनिश् चयात् ।अप्_237.003अब्।
विनयो हीन्द्रियजयस्तैर् युक्तः पालयेन्महीं

237.004

शास्त्रं प्रज्ञा धृतिर्दाक्ष्यं प्रागल्भ्यं धारयिष्णुता ।अप्_237.004अब्।
उत्साहो वाग्मितौदार्यमापत्कालसहिष्णुता(1)

237.005

प्रभावः शुचिता मैत्री त्यागः सत्यं कृतज्ञता ।अप्_237.005अब्।
कुलं शीलं समश्चेति गुणाः सम्पत्तिहेतवः

237.006

प्रकीर्णविषयारण्ये धावन्तं विप्रमाथिनं ।अप्_237.006अब्।
:न्
1 वागिमता दार्ढ्यमापत्कालसहिष्णुतेति ख.. , घ.. , ज.. , झ.. च
:प् 359
ज्ञानाङ्कुशेन कुर्वीत वश्यमिन्द्रियदन्तिनं

237.007

कामः क्रोधस् तथा लोभो हर्षो मानो मदस् तथा ।अप्_237.007अब्।
षड्वर्गमुत्सृजेदेनमस्मिंस्त्यक्ते सुखी नृपः

237.008

आन्वीक्षिकीं त्रयीं वार्तां दण्डनीतिं च पार्थिवः ।अप्_237.008अब्।
तद्वैद्यैस्तत्क्रियोपैतैश्चिन्ततयेद्विनयान्वितः

237.009

आन्वीक्षिक्यार्थविज्ञानं धर्माधर्मौ त्रयीस्थितौ ।अप्_237.009अब्।
अर्थानर्थौ तु वार्तायां दण्डनीत्यां नयानयौ

237.010

अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा ।अप्_237.010अब्।
वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते

237.011

प्रजाः समनुगृह्णीयात् कुर्यादाचारसंस्थितिं ।अप्_237.011अब्।
वाक् सूनृता दया दानं हीनोपगतरक्षणं(1)

237.012

इति वृत्तं सतां साधुहितं सत्पुरुषव्रतं ।अप्_237.012अब्।
आधिव्याधिपरीताय अद्य श्वो वा विनाशिने

237.013

को हि राजा शरीराय धर्मापेतं समाचरेत् ।अप्_237.013अब्।
न हि स्वमुखमन्विच्छन्(2) पीडयेत् कृपणं जनं

237.014

कृपणः पीड्यमानो हि मन्युना हन्ति पार्थिवं ।अप्_237.014अब्।
क्रियते ऽभ्यर्हणीयाय स्वजनाय यथाञ्जलिः

237.015

ततः साधुतरः कार्यो दुर्जनाय शिवर्थिना ।अप्_237.015अब्।
प्रियमेवाभिधातव्यं सत्सु नित्यं द्विषत्सु च

237.016

देवास्ते प्रियवक्तारः पशवः क्रूरवादिनः ।अप्_237.016अब्।
शुचिरास्तिक्यपूतात्मा पूजयेद्देवताः सदा

237.017

:न्
1 दीनोपगतरक्षणमिति ख.. , घ.. , छ.. , ज.. , ञ.. , ट.. च
2 स्वमुखमन्विच्छुरिति ख.. , छ.. च
:प् 360
देवतावत् गुरुजनमात्मवच्च सुहृज्जनं ।अप्_237.017अब्।
प्रणिपातेन हि गुरुं सतो ऽमृषानुचेष्टितैः

237.018

कुर्वीताभिमुखान् भृत्यैर् देवान् सुकृतकर्मणा ।अप्_237.018अब्।
सद्भावेन हरेन्मित्रं सम्भ्रमेण च बान्धवान्

237.019

स्त्रीभृत्यान् प्रेमदानाभ्यां दाक्षिण्येतरं जनं ।अप्_237.019अब्।
अनिन्दा परकृत्येषु स्वधर्मपरिपालनं

237.020

कृपणेषु दयालुत्वं सर्वत्र मधुरा गिरः ।अप्_237.020अब्।
प्राणैर् अप्युपकारित्वं मित्रायाव्यभिचारिणे

237.021

गृहागते परिष्वङ्गः शक्त्या दानं सहिष्णुता ।अप्_237.021अब्।
स्वसमृद्धिष्वनुत्सेकः परवृद्धिष्वमत्सरः

237.022

अपरोपतापि वचनं मौनव्रतचरिष्णुता(1) ।अप्_237.022अब्।
बन्धभिर्बद्धसंयोगः स्वजने चतुरश्रता

237.023

उचितानुविधायित्वमिति वृत्तं महात्मनां ॥23

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc