अग्नि पुराण · अध्याय 236
रणादीक्षा मयोक्ता ते जयाय नृपतेर्ध्रुवा ।अप्_235.066अब्।
:ए इत्य् आग्नेये महापुराणे रणदीक्षा नाम
पञ्चत्रिंअशधिकद्विशततमो ऽध्यायः ॥
:न्
1 धर्मनिष्ठो जयो नित्य इति ख.. , छ.. च
2 देवान् विप्रान् गुरून् यजेदिति घ.. , ज.. , ञ.. च
:प् 356
% छप्तेर् {236}
:श् अथ षट्त्रिंशदधिकद्विशततमो ऽध्यायः
श्रीस्तोत्रं
पुष्कर उवाच
राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः ।अप्_236.001अब्।
स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत्
इन्द्र उवाच
नमस्ये सर्वलोकानां(1) जननीमब्धिसम्भवां(2) ।अप्_236.002अब्।
श्रियमुन्निन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थितां
त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनि ।अप्_236.003अब्।
सन्धया रात्रिः प्रभा भूतिर्मेधा श्रद्धा सरस्वती
यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।अप्_236.004अब्।
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च ।अप्_236.005अब्।
सौम्या सौम्यैर् जगद्रूपैस्त्वयैतद्देवि पूरितं
का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः ।अप्_236.006अब्।
अध्यास्ते देव देवस्य योगिचिन्त्यं गदाभृतः
त्वया देवि परित्यक्तं सकलं भुवनत्रयं ।अप्_236.007अब्।
विनष्टप्रायमभवत् त्वयेदानीं समेधितं
दाराः पुत्रास् तथागारं सुहृद्धान्यधनादिकं ।अप्_236.008अब्।
भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान् नृणां
:न्
1 सर्वभूतानामिति घ.. , ज.. , ञ.. च
2 जवनीमम्बुसम्भवामिति ज..
:प् 357
शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखं(1) ।अप्_236.009अब्।
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्लभं
त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता ।अप्_236.010अब्।
त्वयैतद्वोइष्णुना चाम्ब जगद्व्याप्तं चराचरं
मानं कोषं तथा कोष्ठं मा गृहं मा परिच्छदं ।अप्_236.011अब्।
मा शरीरं कलत्रञ्च त्यजेथाः सर्वपावनि
मा पुत्रान्मासुहृद्वर्गान्मा पशून्मा विभूषणं ।अप्_236.012अब्।
त्यजेथा मम देवस्य(2) विष्णोर्वक्षःस्थलालये(3)
सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।अप्_236.013अब्।
त्यजन्ते ते नरा सद्यः सन्त्यक्ता ये त्वयामले
त्वयावलोकिताः सद्यः शीलाद्यैर् अखिलैर् गुणैः ।अप्_236.014अब्।
कुलैश्वर्यैश् च युज्यन्ते पुरुषा निर्गुणा अपि
स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।अप्_236.015अब्।
स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः
सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।अप्_236.016अब्।
पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे
न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः ।अप्_236.017अब्।
प्रसीद देवि पद्माक्षि नास्मांस्त्याक्षीः कदाचन
पुष्कर उवाच
एवं स्तुता ददौ श्रीश् च वरमिन्द्राय चेप्सितं ।अप्_236.018अब्।
सुस्थिरत्वं च राज्यस्य सङ्ग्रामविजयादिकं
:न्
1 क्षयः स्वयमिति ख.. , ग.. , घ.. , झ.. च । क्षयः शुभमिति
छ..
2 देवदेवस्येति ट..
3 वक्षःस्थलाश्रये इति ख.. , ग.. , घ.. , ञ.. च
:प् 358
स्वस्तोत्रपाठश्रवणकर्तॄणां भुक्तिमुक्तिदं ।अप्_236.019अब्।
श्रीस्तोत्रं सततं तस्मात् पठेच्च शृणुयान्नरः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0