भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 235

235.001

:ए इत्य् आग्नेये महापुराणे आजस्रिकं नाम
चतुस्त्रिंशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {235}
:श् अथ पञ्चत्रिंशदधिकद्विशततमो ऽध्यायः
रणदीक्षा
पुष्कर उवाच
यात्राविधानपूर्वन्तु वक्ष्ये साङ्ग्रामिकं विधिं ।अप्_235.001अब्।
सप्ताहेन यदा यात्रा भविष्यति महीपतेः

235.002

पूजनीयो हरिः शम्भुर्मोदकाद्यैर् विनायकः ।अप्_235.002अब्।
द्वितीये ऽहनि दिक्पालान् सम्पूज्य शयनञ्चरेत्

235.003

शय्यायां वा तदग्रे ऽथ देवान् प्रार्च्य मनुं स्मरेत् ।अप्_235.003अब्।
नमः शम्भोः त्रिनेत्राय रुद्राय वरदाय च

235.004

वामनाय विरूपाय स्वप्नाधिपतये नमः ।अप्_235.004अब्।
:न्
1 संविशेदिति ज..
:प् 350
भगवन्देवदेवेश शूलभृद्वृषवाहन

235.005

इष्टानिष्टे ममाचक्ष्व स्वप्ने सुप्तस्य शाश्वत ।अप्_235.005अब्।
यज्जाग्रतो दूरमिति पुरोधा मन्त्रमुच्चरेत्

235.006

तृतीये ऽहनि दिक्पालान् रुद्रांस्तान् दिक्पतीन्यजेत् ।अप्_235.006अब्।
ग्रहान् यजेच्चतुर्थे ऽह्नि पञ्चमे चाश्विनौ यजेत्

235.007

मार्गे या देवतास्तासान्नद्यादीनाञ्च पूजनं ।अप्_235.007अब्।
दिव्यान्तरीक्षभौमस्थदेवानाञ्च तथा बलिः

235.008

रात्रौ भूतगणानाञ्च वासुदेवादिपूजनं ।अप्_235.008अब्।
भद्रकाल्याः श्रियः कुर्यात् प्रार्थयेत् सर्वदेवताः

235.009

वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः ।अप्_235.009अब्।
नारायणो ऽब्जजो विष्णुर् नारसिंहो वराहकः

235.010

शिव ईशस्तत्पुरुषो(1) ह्य् अघोरो राम सत्यजः(2) ।अप्_235.010अब्।
सूर्यः सोमः कुजश्चान्द्रिजीवशुक्रशनैश् चराः

235.011

राहुः केतुर्गणपतिः सेनानी चण्डिका ह्य् उमा ।अप्_235.011अब्।
लक्ष्मीः सरस्वती दुर्गा ब्रह्माणीप्रमुखा गणाः

235.012

रुद्रा इन्द्रादयो वह्निर् नागास्तार्क्ष्यो ऽपरे सुराः ।अप्_235.012अब्।
दिव्यान्तरीक्षभूमिष्ठा विजयाय भवन्तु मे

235.013

मर्दयन्तु रणे शत्रून्(3) सम्प्रगृह्योपहारकं ।अप्_235.013अब्।
सपुत्रमातृभृत्यो ऽहं(4) देवा वः शरणङ्गतः

235.014

:न्
1 तत्पुरत इति ख..
2 रात्रावित्यादिः, सत्यज इत्य् अन्तः पाठः ग.. पुस्तके नास्ति
3 मर्दयन्तु च मे शत्रूनिति घ.. , ञ.. च
4 अवन्तु मां स्वभृत्यो ऽहमिति ज.. , ट.. च
:प् 351
चामूनां पृष्ठतो गत्वा रिपुनाशा नमो ऽस्तु वः(1) ।अप्_235.014अब्।
विनिवृत्तः प्रदास्यामि(2) दत्तादभ्यधिकं बलिं

235.015

षष्ठे ऽह्नि विजयस्नानं कर्तव्यं चाभिषेकवत् ।अप्_235.015अब्।
यात्रादिने सप्तमे च पूजयेच्च त्रिविक्रमं

235.016

नीराजनोक्तमन्त्रैश् च आयुधं वाहनं यजेत् ।अप्_235.016अब्।
पुण्याहजयशब्देन मन्त्रमेतन्निशामयेत्

235.017

दिव्यान्तरीक्षभूमिष्ठाः सन्त्वायुर्दाः सुराश् च ते ।अप्_235.017अब्।
देवसिद्धिं प्राप्नुहि त्वं देवयात्रास्तु(3) सा तव

235.018

रक्षन्तु देवताः सर्वा इति श्रुत्वा नृपो व्रजेत् ।अप्_235.018अब्।
गृहीत्वा सशरञ्चापं धनुर्नागेति मन्त्रत

235.019

तद्विष्णोरिति जप्त्वाथ दद्याद्रिपुमुखे पदं ।अप्_235.019अब्।
दक्षिणं पदं द्वात्रिंशद्दिक्षु प्राच्यादिषु क्रमात्

235.020

नागं रथं हयञ्चैव धुर्यांश् चैवारुहेत् क्रमात् ।अप्_235.020अब्।
आरुह्य वाद्यैर् गच्छेत् पृष्थतो नावलोकयेत्

235.021

क्रोशमात्रं गतस्तिष्ठेत् पूजयेद्देवता द्विजान् ।अप्_235.021अब्।
परदेशं व्रजेत् पश्चादात्मसैन्यं हि पालयन्

235.022

राजा प्राप्य देवेशन्तु(4) देशपालन्तु पालयेत्(5) ।अप्_235.022अब्।
देवानां पूजनं कुर्यान्न छिन्द्यादायमत्र तु

235.023

नावमानयेत्तद्देश्यानागत्य स्वपुरं पुनः ।अप्_235.023अब्।
:न्
1 चमूनां पृष्ठश् चैव रिपुनाशो भवेद्यथेति ट..
2 जित्वा शत्रुं प्रदास्यामीति ट..
3 जैत्रा यात्रास्त्विति ट..
4 प्राप्तविदेशस्तु इति ग.. , घ.. , ञ.. च
5 देशाचारन्तु पालयेदिति ख.. । देशाचारणेण पालयेदिति ग.. , घ.. ,
छ.. , ज.. , ञ.. च
:प् 352
जयं प्राप्यार्चयेद्देवान् दद्याद्दानानि पार्थिवः

235.024

द्वितीये अहनि सङ्ग्रामो भविष्यति यदा तदा ।अप्_235.024अब्।
स्नपयेद्गजमश्वादि यजेद्देवं नृपसिंहकं

235.025

छत्रादिराजलिङ्गानि शस्त्राणि निशि वै गणान् ।अप्_235.025अब्।
प्रातर्नृसिंहकं पूज्य वाहनाद्यमशेषतः

235.026

पुरोधसा हुतं पश्येद्वह्निं हुत्वा द्विजान्यजेत् ।अप्_235.026अब्।
गृहीत्वा सशरञ्चापं गजाद्यारुह्य वै व्रजेत्

235.027

देशे त्वदृश्यः शत्रूणां कुर्यात् प्रकृतिकल्पनां ।अप्_235.027अब्।
संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून्

235.028

सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ।अप्_235.028अब्।
व्यूहाः प्राण्यङ्गरूपाश् च द्रव्यरूपाश् च कीर्तिताः

235.029

गरुडो मकरव्यूहश् चक्रः श्येनस्तथैव च ।अप्_235.029अब्।
अर्धचन्द्रश् च वज्रश् च शकटव्यूह एव च

235.030

मण्डलः सर्वतोभद्रः सूचीव्यूहश् च ते नराः ।अप्_235.030अब्।
व्यूहानामथ सर्वेषां पञ्चधा सैन्यकल्पना

235.031

द्वौ पक्षावनुपक्षौ द्वावश्यं पञ्चमं भवेत् ।अप्_235.031अब्।
एकेन यदि वा द्वाभ्यां भागाभ्यां युद्धमाचरेत्

235.032

भागत्रयं स्थापयेत्तु तेषां रक्षार्थमेव च ।अप्_235.032अब्।
न व्यूहकल्पना कार्या राज्ञो भवति कर्हिचित्

235.033

मूलच्छेदे विनाशः स्यान्न युध्येच्च स्वयन्नृपः ।अप्_235.033अब्।
सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः

235.034

भग्नसन्धारणं तत्र योधानां परिकीर्तितं ।अप्_235.034अब्।
प्रधानभङ्गे सैन्यस्य नाशस्थानं विधीयते

235.035

:प् 353
न संहतान्न विरलान्योधान् व्यूहे प्रकल्पयेत् ।अप्_235.035अब्।
आयुधानान्तु सम्मर्दो यथा न स्यात् परस्परं

235.036

भेत्तुकामः परानीकं संहतैर् एव भेदयेत् ।अप्_235.036अब्।
भेदरक्ष्याः परेणापि कर्तव्याः संहतास् तथा

235.037

व्यूहं भेदावहं कुर्यात् परव्यूहेषु चेच्छया ।अप्_235.037अब्।
गजस्य पादरक्षार्थाश् चत्वारस्तु तथा द्विज

235.038

रथस्य चाश्वाश् चत्वारः समास्तस्य च चर्मिणः ।अप्_235.038अब्।
धन्विनश् चर्मिभिस्तुल्याः पुरस्ताच्चर्मिणो रणे

235.039

पृष्ठतो धन्विनः प्रश्चाद्धन्विनान्तुरगा रथाः ।अप्_235.039अब्।
रथानां कुञ्जराः पश्चाद्दातव्याः पृथिवीक्षिता

235.040

पदातिकुञ्जराश्वानां धर्मकार्यं प्रयत्नतः ।अप्_235.040अब्।
शूराः प्रमुखतो देयाः स्कन्धमात्रप्रदर्शनं

235.041

कर्तव्यं भीरुसङ्घेन शत्रुविद्रावकारकं(1) ।अप्_235.041अब्।
दारयन्ति पुरस्तात्तु न देया भीरवः पुरः

235.042

प्रोत्साहन्त्येव रणे भीरून् शूराः पुरस्थिताः ।अप्_235.042अब्।
प्रांशवः शकुनाशाश् च ये चाजिह्मेक्षणा(2) नराः

235.043

संहतभ्रूयुगाश् चैव क्रोधना कलहप्रियाः ।अप्_235.043अब्।
नित्यहृष्टाः प्रहृष्टाश् च शूरा ज्ञेयाश् चकामिनः

235.044

संहतानां हतानां च रणापनयनक्रिया(3) ।अप्_235.044अब्।
प्रतियुद्धं गजानाञ्च तोयदानादिकञ्च यत्

235.045

:न्
1 शत्रुद्रावकारणमिति ख.. , ग.. , घ.. , ञ.. च
2 ये च जिह्मेक्षणा इति ख.. , ग.. , घ.. , ञ.. च
3 वलापनयनक्रियेति ज..
:प् 354
आयुधानयनं चैव पत्तिकर्म विधीयते ।अप्_235.045अब्।
रिपूणां भेत्तुकामानां स्वसैन्यस्य तु रक्षणं

235.046

भेदनं संहतानाञ्च चर्मिणां कर्म कीर्तितं ।अप्_235.046अब्।
विमुखीकरणं युद्धे धन्विनां च तथोच्यते

235.047

दूरापसरणं यानं सुहतस्य तथोच्यते ।अप्_235.047अब्।
त्रासनं रिपुसैन्यानां रथकर्म तथोच्यते

235.048

भेदनं संहतानाञ्च भेदानामपि संहतिः ।अप्_235.048अब्।
प्राकारतोरणाट्टालद्रुमभङ्गश् च सङ्गते

235.049

पत्तिभूर्विषमा ज्ञेया रथाश्वस्य तथा समा ।अप्_235.049अब्।
सकर्दमा च नागानां युद्धभूमिरुदाहृता

235.050

एवं विरचितव्यूहः कृतपृष्ठदिवाकरः ।अप्_235.050अब्।
तथानुलोमशुक्रार्किदिक्पालमृदुमारुताः

235.051

योधानुत्तेजयेत्सर्वान्नामगोत्रावदानतः ।अप्_235.051अब्।
भोगप्राप्त्या च विजये स्वर्गप्राप्त्या मृतस्य च

235.052

जित्वारीन् भोगसम्प्राप्तिः मृतस्य च परा गतिः ।अप्_235.052अब्।
निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः

235.053

शूराणां रक्तमायाति तेन पापन्त्यजन्ति ते ।अप्_235.053अब्।
धातादिदुःखसहनं रणे तत् परमन्तपः

235.054

वराप्सरःसहस्राणि यान्ति शूरं रणे मृतं ।अप्_235.054अब्।
स्वामी सुकृतमादत्ते भग्नानां विनिवर्तिनां

235.055

ब्रह्महत्याफलं तेषां तथा प्रोक्तं पदे पदे ।अप्_235.055अब्।
त्यक्त्वा सहायान् यो गच्छेद्देवास्तस्य विनष्टये

235.056

अश्वमेधफलं प्रोक्तं शूराणामनिर्वर्तिनां ।अप्_235.056अब्।
:प् 355
धर्मनिष्ठे जयो राज्ञि(1) योद्धव्याश् च समाः समैः

235.057

गजाद्यैश् च गजाद्याश् च न हन्तव्याः पलायिनः ।अप्_235.057अब्।
न प्रेक्षकाः प्रविष्टाश् च अशस्त्राः प्रतितादयः

235.058

शान्ते निद्राभिभूते च अर्धोत्तीर्णे नदीवने ।अप्_235.058अब्।
दुर्दिने कूटयुद्धानि शत्रुनाशार्थमाचरेत्

235.059

बाहू प्रगृह्य विक्रोशेद्भग्ना भग्नाः परे इति ।अप्_235.059अब्।
प्राप्तं मित्रं बलं भूरि नायको ऽत्र निपातितः

235.060

सेनानीर्निहताश्चायं भूपतिश्चापि विप्लुतः ।अप्_235.060अब्।
विद्रुतानान्तु योधानां मुखं घातो विधीयते

235.061

धूपाश् च देया धर्मज्ञ तथा च परमोहनाः ।अप्_235.061अब्।
पताकाश् चैव सम्भारो वादित्राणाम् भयावहः

235.062

सम्प्राप्य विजयं युद्धे देवान्विप्रांश् च संयजेत्(2) ।अप्_235.062अब्।
रत्नानि राजगामीनि अमात्येन कृते रणे

235.063

तस्य स्त्रियो न कस्यापि रक्ष्यास्ताश् च परस्य च ।अप्_235.063अब्।
शत्रुं प्राप्य रणे मुक्तं पुत्रवत् परिपालयेत्

235.064

पुनस्तेन न योद्धव्यं देशाचारादि पालयेत् ।अप्_235.064अब्।
ततश् च स्वपुरं प्राप्य ध्रुवे भे प्रविशेद् गृहं

235.065

देवादिपूजनं कुर्याद्रक्षेद्योधकुटुम्बकं ।अप्_235.065अब्।
संविभागं प्रावाप्तैः कुर्याद् भृत्यजनस्य च

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc