अग्नि पुराण · अध्याय 234
:ए इत्य् आग्नेये महापुराणे उपायषड्गुणादिर्नाम
त्रयस्त्रिंशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {234}
:श् अथ चतुस्त्रिंशदधिकद्विशततमो ऽध्यायः
प्रात्यहिकराजकर्म
पुष्कर उवाच
अजस्रं कर्म वक्ष्यामि दिनं प्रति यदाचरेत् ।अप्_234.001अब्।
द्विमुहूर्तावशेषायां रात्रौ निद्रान्त्यजेन्नृपः
वाद्यवन्दिस्वनैर् गीतैः पश्येद् गूढांस्ततो नरान् ।अप्_234.002अब्।
विज्ञायते न ये लोकास्तदीया इति केनचित्
आयव्ययस्य श्रवणं ततः कार्यं यथाविधि ।अप्_234.003अब्।
वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत्
स्नानं कुर्यान्नृपः पश्चाद्दन्तधावनपूर्वकं ।अप्_234.004अब्।
कृत्वा सन्ध्यान्ततो जप्यं वासुदेवं प्रपूजयेत्
वह्नौ पवित्रान् जुहुयात् तर्पयेदुदकैः पितॄन् ।अप्_234.005अब्।
:न्
1 बहुक्षयव्ययायामिति ख.. , छ.. , ट.. च
2 आसीनः कर्मविच्छेदमित्यादिः, राजा समाश्रयेदित्यन्तः
पाठः ज.. पुस्तके नास्ति
:प् 348
दद्यात्सकाञ्चीं धेनुं द्विजाशीर्वादसंयुतः
अनुलिप्तो ऽलङ्कृतश् च मुखं पश्येच्च दर्पणे ।अप्_234.006अब्।
ससुवर्णे धृते राजा शृणुयाद्दिवसादिकं
औषधं भिषजोक्तं च मङ्गलालम्भनञ्चरेत् ।अप्_234.007अब्।
पश्चेद् गुरुं तेन दत्ताशीर्वदो ऽथ व्रजेत्सभां
तत्रस्थो ब्राह्मणान् पश्येदमात्यान्मन्त्रिणस् तथा ।अप्_234.008अब्।
प्रकृतीश् च महाभाग प्रतीहारनिवेदिताः
श्रुत्वेतिहासं कार्याणि कार्याणां कार्यनिर्णयम् ।अप्_234.009अब्।
व्यवहारन्ततः पश्येन्मन्त्रं कुर्यात्तु मन्त्रिभिः
नैकेन सहितः कुर्यान्न कुर्याद्बहुभिः सह ।अप्_234.010अब्।
न च मूर्खैर् नचानाप्तैर् गुप्तं न प्रकटं चरेत्(1)
मन्त्रं स्वधिष्ठितं कुर्याद्येन राष्ट्रं न बाधते ।अप्_234.011अब्।
आकारग्रहणे राज्ञो मन्त्ररक्षा परा मता(2)
आकारैर् इङ्गितैः प्रज्ञा मन्त्रं गृह्णन्ति पण्डिताः ।अप्_234.012अब्।
सांवत्सराणां वैद्यानां मन्त्रिणां वचने रतः
राजा विभूतिमाप्नोति(3) धारयन्ति नृपं हि ते ।अप्_234.013अब्।
मन्त्रं कृत्वाथ व्यायामञ्चक्रे याने च शस्त्रके
निःसत्त्वादौ नृपः स्नातः पश्येद्विष्णुं सुपूजितं ।अप्_234.014अब्।
हुतञ्च पावकं पश्येद्विप्रान् पश्येत्सुपूजितान्
:न्
1 गुप्तं चाप्रकटं चरेदिति ग.. , ज.. , ट.. च
2 आकार ग्रहणे राज्ञो मन्त्ररक्षा परा मता इत्य् अस्य स्थाने
आकारेङ्गिततत्त्वज्ञः कार्याकार्यविचक्षण इति ट..
पुस्तकपाठः
3 राजाधिभूतिमाप्नोतीति ज..
:प् 349
भूषितो भोजनङ्कुर्याद् दानाद्यैः सुपरीक्षितं ।अप्_234.015अब्।
भुक्त्वा गृहीतताम्बूलो वामपार्श्वेन संस्थितः(1)
शास्त्राणि चिन्तयेद् दृष्ट्वा योधान् कोष्ठायुधं गृहं ।अप्_234.016अब्।
अन्वास्य पश्चिमां सन्ध्यां कार्याणि च विचिन्त्य तु
चरान् सम्प्रेष्य भुक्तान्नमन्तःपुरचरो भवेत् ।अप्_234.017अब्।
वाद्यगीतैर् अक्षितो ऽन्यैर् एवन्नित्यञ्चरेन्नृपः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0