भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 231

231.001

:ए इत्य् आग्नेये महापुराणे शकुनानि नाम त्रिंशदधिकद्विशततमो
ऽध्यायः ॥
:न्
1 पुन्नामास्तथेत्यादिः, पिप्पीका इत्य् अन्तः पाठो ऽस्मल्लब्धेषु
नवपुस्तकेषु प्रायः समान एव । तेषामेकतमस्यापि साहाय्येन
शोधितुं न स शक्यते । अभिधानादिष्वपि तत्रत्यशब्दो नोपलभ्यन्ते ।
अतस्तत्र विरतिः
:प् 338
% छप्तेर् {231}
:श् अथैकत्रिंशदधिकद्विशततमो ऽध्यायः
शकुनानि
पुष्कर उवाच
विशन्ति येन मार्गेण वायसा बहवः पुरं ।अप्_231.001अब्।
तेन मार्गेण रुद्धस्य पुरस्य ग्रहणं भवेत्

231.002

सेनायां यदि वासार्थे निविष्टो वायसो रुवन् ।अप्_231.002अब्।
वामो भयातुरस्त्रस्तो भयं वदति दुस्तरं(1)

231.003

छायाङ्गवाहनोपानच्छत्रवस्त्रादिकुट्टने ।अप्_231.003अब्।
मृत्युस्तत्पूजने पूजा तदिष्टकरणे शुभं

231.004

प्रोषितागमकृत्काकः कुर्वन् द्वारि गतागतं ।अप्_231.004अब्।
रक्तं दग्धं गृहे द्रव्यं क्षिपन्वह्निवेदकः

231.005

न्यसेद्रक्तं पुरस्ताच्च निवेदयति बन्धनं ।अप्_231.005अब्।
पीतं द्रव्यं तथा रुक्म रूप्यमेव तु भार्गव

231.006

यच्चैवोपनयेद् द्रव्यं तस्य लब्धिं विनिर्दिशेत् ।अप्_231.006अब्।
द्रव्यं वापनयेद्यत्तु तस्य हानिं विनिर्दिशेत्

231.007

पुरतो धनलब्धिः स्यादाममांसस्य छर्दने ।अप्_231.007अब्।
भूलब्धिः स्यान् मृदः क्षेपे राज्यं रत्नार्पणे महत्

231.008

यातुः काको ऽनुकूलस्तु क्षेमः कर्मक्षमो भवेत् ।अप्_231.008अब्।
न त्वर्थसाधको ज्ञेयः प्रतिकूलो भयावहः

231.009

सम्मुखे ऽभ्येति विरुवन् यात्राघातकरो भवेत् ।अप्_231.009अब्।
वामः काकः स्मृतो धन्यो दक्षिणो ऽर्थविनाशकृत्(2)

231.010

:न्
1 दुष्करमिति ख.. , छ च
2 दक्षिणो ऽन्नविनाशकृदिति ग.. , घ.. , ञ.. च
:प् 339
वामो ऽनुलोमगः श्रेष्ठो मध्यमो दक्षिणः स्मृतः ।अप्_231.010अब्।
प्रतिलोमगतिर्वामो गमनप्रतिषेधकृत्

231.011

निवेदयति यात्रार्थमभिप्रेतं गृहे गतः(1) ।अप्_231.011अब्।
एकाक्षरचरणस्त्वर्कं वीक्षमाणो भयावहः

231.012

कोटरे वासमानश् च महानर्थकरो भवेत् ।अप्_231.012अब्।
न शुभस्तूषरे काकः पङ्काङ्कः स तु शस्यते

231.013

अमेध्यपूर्णवदनः काकः सर्वार्थसाधकः(2) ।अप्_231.013अब्।
ज्ञेयाः पतत्रिणो ऽन्ये ऽपि काकवद् भृगुनन्दन

231.014

स्कन्धावारापसव्यस्थाः श्वानो विप्रविनाशकाः ।अप्_231.014अब्।
इन्द्रस्थाने नरेन्द्रस्य पुरेशस्य तु गोपुरे

231.015

अन्तर्गृहे गृहेशस्य मरणाय भवेद्भषन् ।अप्_231.015अब्।
यस्य जिघ्रति वामाङ्गं तस्य स्यादर्थसिद्धये

231.016

भयाय दक्षिणं चाङ्गं तथा भुजमदक्षिणं ।अप्_231.016अब्।
यात्राघातकरो यातुर्भवेत् प्रतिमुखागतः

231.017

मार्गावरोधको मार्गे चौरान् वदति भार्गव ।अप्_231.017अब्।
अलाभो ऽस्थिमुखः पापो रज्जुचीरमुखस् तथा

231.018

सोपानत्कमुखो धन्यो मांसपूर्णमुखो ऽपि च ।अप्_231.018अब्।
अमङ्गल्यमुखद्रव्यं केशञ्चैवाशुभं तथा

231.019

अवमूत्र्याग्रतो याति यस्य तस्य भयं भवेत् ।अप्_231.019अब्।
यस्यावमूत्र्य व्रजति शुभं देशन्तथा द्रुमं

231.020

:न्
1 नन्वर्थसाधक इत्य् आदिः, गृहे गत इत्य् अन्तःः पाठः ट..
पुस्तके नास्ति
2 कोटरे इत्य् आदिः सर्वार्थसाधक इत्य् अन्तः पाठः ट..पुस्तके
नास्ति
:प् 340
मङ्गलञ्च तथा द्रव्यं तस्य स्यादर्थसिद्धये ।अप्_231.020अब्।
श्ववच्च राम विज्ञेयास् तथा वै जम्बुकादयः

231.021

भयाय स्वामिनि ज्ञेयमनिमित्तं रुतङ्गवां ।अप्_231.021अब्।
निशि चौरभयाय स्याद्विकृतं मृत्यवे तथा

231.022

शिवाय स्वामिनो रात्रौ बलीवर्दो नदन् भवेत् ।अप्_231.022अब्।
उत्सृष्टवृषभो राज्ञो विजयं सम्प्रयच्छति

231.023

अभयं भक्षयन्त्यश् च गावो दत्तास् तथा स्वकाः ।अप्_231.023अब्।
त्यक्तस्नेहाः स्ववत्सेषु गर्भक्षयकरा मताः

231.024

भूमिं पादैर् विनिघ्नन्त्यो दीना भीता भयावहाः ।अप्_231.024अब्।
आर्द्राङ्ग्यो हृष्टरोमाश् च शृगलग्नमृदः शुभाः

231.025

महिष्यादिषु चाप्येतत् सर्वं वाच्यं विजानता ।अप्_231.025अब्।
आरोहणं तथान्येन सपर्याणस्य(1) वाजिनः

231.026

जलोपवेशनं नेष्टं भूमौ च परिवर्तनं ।अप्_231.026अब्।
विपत्करन्तुरङ्गस्य सुप्तं वाप्यनिमित्ततः

231.027

यवमोदकयोर्द्वेषस्त्वकस्माच्च न शस्यते ।अप्_231.027अब्।
वदनाद्रुधिरोत्पत्तिर्वेपनं न च शस्यते

231.028

क्रीडन् वैकः कपोतैश् च सारिकाभिर्मृतिं वदेत् ।अप्_231.028अब्।
साश्रुनेत्रो जिह्वया च पादलेही विनष्टये(2)

231.029

वामपादेन च तथा विलिखंश् च वसुन्धरां ।अप्_231.029अब्।
स्वपेद्वा वामपार्श्वेन दिवा वा न शुभप्रदः

231.030

भयाय स्यात् सकृन्मूत्री तथा निद्राविलाननः ।अप्_231.030अब्।
:न्
1 सपर्यार्हस्येति साधुः
2 विनाशकृदिति ज.. , ट.. च
:प् 341
आरोहणं न चेद्दद्यात् प्रतीपं वा गृहं व्रजेत्

231.031

यात्राविघातमाचष्टे वामपार्श्वं तथा स्पृशन् ।अप्_231.031अब्।
हेषमाणः शत्रुयोधं पादस्पर्शी जयावहः

231.032

ग्रामे व्रजति नागश्चेन् मैथुनं देशहा भवेत् ।अप्_231.032अब्।
प्रसूता नागवनिता मत्ता चान्ताय भूपतेः

231.033

आरोहणं न चेद्दद्यात् प्रतीपं वा गृहं व्रजेत् ।अप्_231.033अब्।
मदं वा वारणो जह्याद्राजघातकरो भवेत्

231.034

वामं दक्षिणपादेन पादमाक्रमते शुभः ।अप्_231.034अब्।
दक्षिणञ्च तथा दन्तं परिमार्ष्टि करेण च

231.035

वृषो ऽश्वः कुञ्जरो वापि रिपुसैन्यगतो ऽशुभः ।अप्_231.035अब्।
खण्डमेघातिवृष्ट्या तु सेना नाशमवाप्नुयात्

231.036

प्रतिकूलग्रहर्क्षात्तु तथा सम्मुखमारुतात्(1) ।अप्_231.036अब्।
यात्राकाले रणे वापि छत्रादिपतनं भयं

231.037

हृष्टा नराश्चानुलोमा ग्रहा वै जयलक्षणं ।अप्_231.037अब्।
काकैर् योधाभिभवनं क्रव्याद्भिर्मण्डलक्षयः

231.038

प्राचीपश्चिमकैशानी शौम्या प्रेष्ठा शुभा च दिक्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc