अग्नि पुराण · अध्याय 232
:ए इत्य् आग्नेये महापुराणे शकुनानि नाम
एकत्रिंशदधिकद्विशततमो ऽध्यायः ॥
:न्
1 वामं दक्षिणेत्यादिः, सम्मुखमारुतादित्यन्तः पाठः
झ.. पुस्तके नास्ति
:प् 342
% छप्तेर् {232}
:श् अथ द्वात्रिंशदधिकद्विशततमो ऽध्यायः
यात्रामण्डलचिन्तादिः
पुष्कर उवाच
सर्वयात्रां प्रवक्ष्यामि राजधर्मसमाश्रयात् ।अप्_232.001अब्।
अस्तङ्गते नीचगते विकले रिपुराशिगे
प्रतिलोमे च विध्वस्ते शुक्रे यात्रां विसर्जयेत्(1) ।अप्_232.002अब्।
प्रतिलोमे बुधे यात्रां दिक्पतौ च तथा च ग्रहे
वैधृतौ च व्यतीपाते नागे च शकुनौ तथा ।अप्_232.003अब्।
चतुष्पादे च किन्तुघ्ने तथा यात्रां विवर्जयेत्
विपत्तारे नैधने च प्रत्यरौ चाथ जन्मनि ।अप्_232.004अब्।
गण्डे विवर्जयेद्यात्रां रिक्तायाञ्च तिथावपि
उदीची च तथा प्राची(2) तयोरैक्यं प्रकीर्तितं ।अप्_232.005अब्।
पश्चिमा दक्षिणा या दिक् तयोरैक्यं तथैव च
वाय्वग्निदिक्समुद्भूतं परिघन्न तु लङ्घयेत् ।अप्_232.006अब्।
आदित्यचन्द्रशौरास्तु दिवसाश् च न शोभनाः
कृत्तिकाद्यानि पूर्वेण मघाद्यानि च याम्यतः ।अप्_232.007अब्।
मैत्राद्यान्यपरे चाथ वासवाद्यानि वाप्युदक्
सर्वद्वाराणि शस्तानि छायामानं वदामि ते ।अप्_232.008अब्।
आदित्ये विंशतिर्ज्ञेयाश् चन्द्रे षोडश कीर्तिताः
भौमे पञ्चदशैवोक्ताश् चतुर्दश तथा बुधे ।अप्_232.009अब्।
:न्
1 विवर्जयेत् इति ख.. , ग.. , घ.. , ञ.. च
2 दिक् पूर्वा या तथोदीचीति ज..
:प् 343
त्रयोदश तथा जीये शुक्रे द्वादश कीर्तिताः
एकादश तथा सौरे सर्वकर्मसु कीर्तिताः ।अप्_232.010अब्।
जन्मलग्ने शक्रचापे सम्मुखे न व्रजेन्नरः
शकुनादौ शुभे यायाज्जयाय हरिमास्मरन् ।अप्_232.011अब्।
वक्ष्ये मण्डलचिन्तान्ते कर्तव्यं राजरक्षणं
स्वाम्यमात्यं तथा दुर्गं कोषो दण्डस्तथैव च ।अप्_232.012अब्।
मित्रञ्जनपदश् चैव राज्यं सप्ताङ्गमुच्यते
सप्ताङ्गस्य तु राज्यस्य विघ्नकर्तॄन् विनाशयेत् ।अप्_232.013अब्।
मण्डलेषु च सर्वेषु वृद्धिः कार्या महीक्षिता
आत्ममण्डलमेवात्र प्रथमं मण्डलं भवेत् ।अप्_232.014अब्।
सामन्तास्तस्य विज्ञेया रिपवो मण्डलस्य तु
उपेतस्तु सुहृज् ज्ञेयः शत्रुमित्रमतः परं ।अप्_232.015अब्।
मित्रमित्रं ततो ज्ञेयं मित्रमित्ररिपुस्ततः
एतत्पुरस्तात् कथितं पश्चादपि निबोध मे ।अप्_232.016अब्।
पार्ष्णिग्राहस्ततः पश्चात्ततस्त्वाक्रन्द उच्यते(1)
आसारस्तु ततो ऽन्यः स्यादाक्रन्दासार उच्यते ।अप्_232.017अब्।
जिगीषोः शत्रुयुक्तस्य विमुक्तस्य तथा द्विज
नात्रापि निश् चयः शक्यो वक्तुं मनुजपुङ्गव ।अप्_232.018अब्।
निग्रहानुग्रहे शक्तो मध्यस्थः परिकीर्तितः
निग्रहानुग्रहे शक्तः सर्वेषामपि यो भवेत् ।अप्_232.019अब्।
उदासीनः स कथितो बलवान् पृथिवीपतिः
:न्
1 मण्डलेषु च सर्वेषु सुरेश्वरसमा हि ते इत्य् अर्धश्लोक
आसारस्त्वित्यस्य पूर्वं ट.. पुस्तके वर्तते, परन्त्वसंलग्नः
:प् 344
न कस्यचिद्रिपुर्मित्रङ्कारणाच्छत्रुमित्रके ।अप्_232.020अब्।
मण्डलं तव सम्प्रोक्तमेतद् द्वादशराजकं
त्रिविधा रिपवो ज्ञेयाः कुल्यानन्तरकृत्रिमाः ।अप्_232.021अब्।
पूर्वपूर्वो गुरुस्तेषां दुश्चिकित्स्यतमो मतः
अनन्तरो ऽपि यः शत्रुः सो ऽपि मे कृत्रिमो मतः ।अप्_232.022अब्।
पार्ष्णिग्राहो भवेच्छत्रोर्मित्राणि रिपवस् तथा
पार्ष्णिग्राहमुपायैश् च शमयेच्च तथा स्वकं ।अप्_232.023अब्।
मित्रेण शत्रोरुच्छेदं प्रशंसन्ति पुरातनाः
मित्रञ्च शत्रुतामेति सामन्तत्वादनन्तरं ।अप्_232.024अब्।
शत्रुं जिगोषुरुच्छिन्द्यात्(1) स्वयं शक्नोति चेद्यदि
प्रतापवृद्धौ तेनापि नामित्राज्जायते भयं ।अप्_232.025अब्।
यथास्य नोद्विजेल्लोको विश्वासश् च यथा भवेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0