भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 230

230.001

:ए इत्य् आग्नेये महापुराणे माङ्गल्याध्यायो नाम
एकोनत्रिंशदधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {230}
:श् अथ त्रिंशदधिकद्विशततमो ऽध्यायः
शकुनानि
पुष्कर उवाच
तिष्ठतो गमने प्रश्ने पुरुषस्य शुभाशुभं ।अप्_230.001अब्।
निवेदयन्ति शकुना देशस्य नगरस्य च

230.002

सर्वः पापफलो दीप्तो निर्दिष्टो दैवचिन्तिकैः ।अप्_230.002अब्।
शान्तः शुभफलश् चैव दैवज्ञैः समुदाहृतः

230.003

षट्प्रकारा विनिर्दिष्टा शकुनानाञ्च दीप्तयः ।अप्_230.003अब्।
वेलादिग्देशकरणरुतजातिविभेदतः

230.004

पूर्वा पूर्वा च विज्ञेया सा तेषां बलवत्तरा ।अप्_230.004अब्।
दिवाचरो रात्रिचरस् तथा रात्रौ दिवाचरः

230.005

क्रूरेषु दीप्ता विज्ञेया ऋक्षलग्नग्रहादिषु ।अप्_230.005अब्।
धूमिता सा तु विज्ञेया याङ्गमिष्यति भास्करः

230.006

यस्यां स्थितः सा ज्वलिता मुक्ता चाङ्गारिणी मता ।अप्_230.006अब्।
एतास्तिस्रः स्मृता दीप्ताः पञ्च शान्तास् तथापराः

230.007

:प् 335
दीप्तायान्दिशि दिग्दीप्तं शकुनं परिकीर्तितं ।अप्_230.007अब्।
ग्रामो ऽरण्या वने ग्राम्यास् तथा निन्दितपादपः

230.008

देशे चैवाशुभे ज्ञेयो देशदीप्तो द्विजोत्तमः ।अप्_230.008अब्।
क्रियादीप्तो विनिर्दिष्टः स्वजात्यनुचितक्रियः

230.009

रुतदीप्तश् च कथितो भिन्नभैरवनिस्वनः ।अप्_230.009अब्।
जातिदीप्तस् तथा ज्ञेयः केवलं मांसभोजनः

230.010

दीप्ताच्छान्तो विनिर्दिष्टः सर्वैर् भेदैः प्रयत्नतः ।अप्_230.010अब्।
मिश्रैर् मिश्रो विनिर्दिष्टस्तस्य वाच्यं फलाफलं

230.011

गोश्वोष्ट्रगर्दभश्वानः सारिका गृहगोधिका ।अप्_230.011अब्।
चटका भासकूर्माद्याः कथिता ग्रामवासिनः

230.012

अजाविशुकनागेन्द्राः कोलो महिषवायसौ ।अप्_230.012अब्।
ग्राम्यारण्या विनिर्दिष्टाः सर्वे ऽन्ये वनगोचराः(1)

230.013

मार्जारकुक्कुटौ ग्राम्यौ तौ चैव वनगोचरौ ।अप्_230.013अब्।
तयोर्भवति विज्ञानं नित्यं वै रूपभेदतः

230.014

गोकर्णशिखिचक्राह्वखरहारीतवायसाः ।अप्_230.014अब्।
कुलाहकुक्कुभश्येनफेरुखञ्जनवानराः

230.015

शतघ्नचटकश्यामचासश्येनकलिञ्जलाः ।अप्_230.015अब्।
तित्तिरः शतपत्रञ्च कपोतश् च तथा त्रयः

230.016

खञ्जरीटकदात्यूहशुकराजीवकुक्कुटाः ।अप्_230.016अब्।
भारद्वाजश् च सारङ्ग इति ज्ञेया दिवाचराः

230.017

वागुर्युलूकशरभक्रौञ्चाः शशककच्छपाः ।अप्_230.017अब्।
लोमासिकाः पिङ्गलिकाः कथिता रात्रिगोचराः

230.018

:न्
1 सर्वे ऽन्ये च वनेचरा इति झ..
:प् 336
हंषाश् च मृगमार्जारनकुलर्क्षभुजङ्गमाः ।अप्_230.018अब्।
वृकारिसिंहव्याघ्रोष्ट्रग्रामशूकरमानुषाः

230.019

श्वाविद्वृषभगोमायुवृककोकिलसारसाः ।अप्_230.019अब्।
तुरङ्गकौपीननरा गोधा ह्य् उभयचारिणः

230.020

बलप्रस्थानयोः सर्वे पुरस्तात्सङ्घचारिणः ।अप्_230.020अब्।
जयावहा विनिर्दिष्टाः पश्चान्निधनकारिणः

230.021

गृहाद्गम्य यदा चासो व्याहरेत् पुरुतः स्थितः ।अप्_230.021अब्।
नृपावमानं वदति वामः कलहभोजने

230.022

याने तद्दर्शनं शस्तं सव्यमङ्गस्य वाप्यथ ।अप्_230.022अब्।
चौरैर् मोषमथाख्याति मयूरो भिन्ननिस्वनः

230.023

प्रयातस्याग्रतो राम मृगः प्राणहरो भवेत् ।अप्_230.023अब्।
ऋक्षाखुजम्बुकव्याघ्रसिंहमार्जारगर्दभाः

230.024

प्रतिलोमास् तथा राम खरश् च विकृत्रस्वनः ।अप्_230.024अब्।
वामः कपिञ्जलः श्रेष्ठस् तथा दक्षिणसंस्थितः

230.025

पृष्ठतो निन्दितफलस्तित्तिरिस्तु न शस्यते ।अप्_230.025अब्।
एणा वराहाः पृषता वामा भूत्वा तु दक्षिणाः

230.026

भवन्त्यर्थकरा नित्यं विपरीता विगर्हिताः ।अप्_230.026अब्।
वृषाश्वजम्बुकव्याघ्राः सिंहमार्जारगर्दभाः(1)

230.027

वाञ्छितार्थकरा ज्ञेया दक्षिणाद्वामतो गताः ।अप्_230.027अब्।
शिवा श्यामाननाच्छूच्छूः पिङ्गला गृहगोधिका

230.028

शूकरी परपुष्टा च पुन्नामानश् च वामतः ।अप्_230.028अब्।
:न्
1 प्रतिलोमास्तथेत्यादिः, सिंहमार्जारगर्दभा इत्य् अन्तः पाठः
ज.. भ.. पुस्तकद्वये नास्ति
:प् 337
स्त्रीसञ्ज्ञा भासकारूषकपिश्रीकर्णश्छित्कराः

230.029

कपिश्रीकर्णपिप्यीका(1) रुरुश्येनाश् च दक्षिणाः ।अप्_230.029अब्।
जातीक्षाहिशशक्रोडगोधानां कीर्तनं शुभं

230.030

ततः सन्दर्शनं नेष्टं प्रतीपं वानरर्क्षयोः ।अप्_230.030अब्।
कार्यकृद्बली शकुनः प्रस्थितस्य हि यो ऽन्वहं

230.031

भवेत्तस्य फलं वाच्यं तदेव दिवसं बुधैः ।अप्_230.031अब्।
मता भक्ष्यार्थिनो बाला वैरसक्तास्तथैव च

230.032

सीमान्तमभ्यन्तरिता विज्ञेया निष्फला द्विज ।अप्_230.032अब्।
एकद्वित्रिचतुर्भिस्तु शिवा धन्या रुतैर् भवेत्

230.033

पञ्चभिश् च तथा षड्भिरधन्या परिकीर्तिता ।अप्_230.033अब्।
सप्तभिश् च तथा धन्या निष्फला परतो भवेत्

230.034

नृणां रोमाञ्चजननी वाहनानां भयप्रदा ।अप्_230.034अब्।
ज्वालानला सूर्यमुखी विज्ञेया भयवर्धनी

230.035

प्रथमं सारङ्गे दृष्टे शुभे देशे शुभं वदेत् ।अप्_230.035अब्।
संवत्सरं मनुष्यस्य अशुभे च शुभं तथा

230.036

तथाविधन्नरः पश्येत्सारङ्गं प्रथमे ऽहनि ।अप्_230.036अब्।
आत्मनश् च तथात्वेन ज्ञातव्यं वत्सरं फलं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc