अग्नि पुराण · अध्याय 22
:ए इत्य् आदिमहापुराणे आग्नेये वासुदेवादिपूजाकथनं नाम
एकविंशतितमो ऽध्यायः
% छप्तेर् {22}
:श् अथ द्वाविंशो ऽध्यायः
स्नानविधिकथनं
नारद उवाच
वक्ष्ये स्नानं क्रियाद्यर्थं नृसिंहेन तु मृत्तिकां ।अप्_22.001अब्।
गृहीत्वा तां द्विधा कृत्वा मनःस्नानमथैकया
निमज्याचम्य विन्यस्य सिंहेन कृतरक्षकः(2) ।अप्_22.002अब्।
:न्
1 ह्रीं त्वरितायै, ह्रीं ऐं क्लीं सौ त्रिपुरा इति ख,
चिह्नितपुस्तकपाठः
2 कृतरक्षण इति घ, चिह्नितपुस्तकपाठः
:प् 55
विधिस्नानं ततः कुर्यात् प्राणायामपुरःसरं
हृदि ध्यायन् हरिज्ञानं(1) मन्त्रेणाष्टाक्षरेण हि ।अप्_22.003अब्।
त्रिधा पाणितले मृत्स्नां दिग्बन्धं सिंहजप्ततः
वासदेवप्रजप्तेन तीर्थं सङ्कल्प्य चालभेत् ।अप्_22.004अब्।
गात्रं वेदादिना मन्त्रैः सम्मार्ज्याराध्य मूर्तिना
कृत्वाघमर्षणं वस्त्रं परिधाय समाचरेत् ।अप्_22.005अब्।
विन्यस्य मन्त्रैर् द्विर्मार्ज्य पाणिस्थं जलमेव च
नारायणेन संयम्य वायुमाघ्राय चोत्सृजेत् ।अप्_22.006अब्।
जलं ध्यायन् हरिं पश्चाद्दत्वार्घ्यं द्वादशाक्षरं
जप्त्वान्याञ्छतशस्तस्य योगपीठादितः क्रमात् ।अप्_22.007अब्।
मन्त्रान् दिक्पालपर्यन्तानृषीन् पितृगणानपि
मनुष्यान् सर्वभूतानि स्थावरान्तान्यथावसेत् ।अप्_22.008अब्।
न्यस्य चाङ्गानि संहृत्य मन्त्रान्यागगृहं व्रजेत्
एवमन्यासु पूजासु मूलाद्यैः स्नानमाचरेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0