भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 226

226.001

:ए इत्य् आग्नेये महापुराणे सामाद्युपायो नाम
पञ्चविंशत्यधिकद्विशततमो ऽध्यायः ॥
:प् 322
% छप्तेर् {226}
:श् अथ षड्विंशत्यधिकद्विशततमो ऽध्यायः
राजधर्माः
पुष्कर उवाच
दण्डप्रणयनं वक्ष्ये येन राज्ञः परा गतिः ।अप्_226.001अब्।
त्रियवं कृष्णलं विद्धि पापस्तत्पञ्चकं भवेत्

226.002

कृष्णलानां तथा षष्ट्या(1) कर्षार्धं रामकीर्तितं ।अप्_226.002अब्।
सुवर्णश् च विनिर्दिष्टो राम षोडशमापकः

226.003

निष्कः सुवर्णाश् चत्वारो धरणं दशभिस्तु तैः ।अप्_226.003अब्।
ताम्ररूप्यसुवर्णानां मनमेतत् प्रकीर्तितं

226.004

ताम्रकैः कार्षिको राम प्रोक्तः कार्षापणो बुधैः ।अप्_226.004अब्।
पणानां द्वे शते सार्धं प्रथमः साहसः स्मृतः(2)

226.005

मध्यमः पञ्च विज्ञेयः सहस्रमपि चोत्तमः ।अप्_226.005अब्।
चौरैर् अमूषितो यस्तु मूषितो ऽस्मीति भाषते

226.006

तत्प्रदातरि भापाले स दण्ड्यस्तावदेव तु ।अप्_226.006अब्।
यो यावद्विपरीतार्थं मिथ्या वा यो वदेत्तु तं

226.007

तौ नृपेण ह्य् अधर्मज्ञौ दाप्यौ तद्द्विगुणं दमं(3) ।अप्_226.007अब्।
कूटसाक्ष्यन्तु कुर्वाणांस्त्रीन् वर्णांश् च प्रदापयेत्

226.008

विवासयेद्ब्राह्मणन्तु भोज्यो विधिर् न हीरतः ।अप्_226.008अब्।
निक्षेपस्य समं मूल्यं दण्ड्यो निक्षेपभुक् तथा

226.009

:न्
1 तथाचाष्टौ इति छ.. , ज.. च
2 ताम्रिकैः कार्षिक इत्य् आदिः, साहसः स्मृत इत्य् अन्तः
पाठः झ.. पुस्तके नास्ति
3 यो यावदित्यादिः, तद्द्विगुणं दममित्यन्तः पाठः झ..
पुस्तके नास्ति
:प् 323
वस्त्रादिकस्य धर्मज्ञ तथा धर्मो न हीयते ।अप्_226.009अब्।
यो निक्षेपं घातयति यश्चानिक्षिप्य याचते

226.010

तावुभौ चौरवच्छास्यौ दण्ड्यौ वा द्विगुणं दम ।अप्_226.010अब्।
अज्ञानाद्यः पुमान् कुर्यात् परद्रव्यस्य विक्रयं

226.011

निर्दोषो ज्ञानपूर्वकन्तु चौरवद्दण्डमर्हति(1) ।अप्_226.011अब्।
मूल्यमादाय यः शिल्पं न दद्याद् दण्ड्य एव सः

226.012

प्रतिश्रुत्याप्रदातारं सुवर्णं दण्डयेन्नृपः ।अप्_226.012अब्।
भृतिं गृह्य न कुर्याद्यः कर्माष्टौ कृष्णला दमः

226.013

अकाले तु त्यजन् भृत्यं दण्ड्यः स्यात्तावदेव तु ।अप्_226.013अब्।
क्रीत्वा विक्रीय वा किञ्चिद्यस्येहानुशयो भवेत्

226.014

सो ऽन्तर्दशाहात्तत्स्वामी दद्याच्चैवाददीत च ।अप्_226.014अब्।
परेण तु दशाहस्य नादद्यान्नैव दापयेत्

226.015

आददद्धि ददच्चैव राज्ञा दण्ड्यः शतानि षट् ।अप्_226.015अब्।
वरे दोषानविख्याप्य यः कन्यां वरयेदिह(2)

226.016

दत्ताप्यदत्ता सा तस्य राज्ञा दण्ड्यः शतद्वयं ।अप्_226.016अब्।
प्रदाय कन्यां यो ऽन्यस्मै पुनस्तां सम्प्रयच्छति

226.017

दण्डः कार्यो नरेन्द्रेण तस्याप्युत्तमसाहसः ।अप्_226.017अब्।
सत्यङ्कारेण वाचा च युक्तं पुण्यमसंशयं

226.018

लुब्धो ऽन्यत्र च विक्रेता षट्शतं दण्डमर्हति ।अप्_226.018अब्।
दद्याद्धेनुं न यः पालो गृहीत्वा भक्तवेतनं

226.019

स तु दण्ड्यः शतं राज्ञा सुवर्णं वाप्यरक्षिता ।अप्_226.019अब्।
:न्
1 चौरवद्वधमर्हतोति घ.. , ञ.. च
2 वरयेद्यदि इति घ.. , ञ.. च
:प् 324
धनुःशतं परीणाहो ग्रामस्य तु समन्ततः

226.020

द्विगुणं त्रिगुणं वापि नगरस्य च कल्पयेत् ।अप्_226.020अब्।
वृतिं तत्र प्रकुर्वीत यामुष्ट्रो नावलोकयेत्

226.021

तत्रापरिवृते धान्ये हिंसिते नैव दण्डनं ।अप्_226.021अब्।
गृहन्तडागमारामं क्षेत्रं वा भीषया हरन्

226.022

शतानि पञ्च दण्ड्याः स्यादज्ञानाद् द्विशतो दमः ।अप्_226.022अब्।
मर्यादाभेदकाः सर्वे दण्ड्याः प्रथमसाहसं

226.023

शतं ब्राह्मणमाक्रुश्य क्षत्रियो दण्डमर्हति ।अप्_226.023अब्।
वैश्यश् च द्विशतं राम शूद्रश् च बधमर्हति

226.024

पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने ।अप्_226.024अब्।
वैश्ये वाप्यर्धपञ्चाशच्छूद्रे द्वादशको दमः

226.025

क्षत्रियस्याप्नुयाद्वैश्यः साहसं पूर्वमेव तु ।अप्_226.025अब्।
शूद्रः क्षत्रियमाक्रुश्य जिह्वाच्छेदनमाप्नुयात्

226.026

धर्मोपदेशं विप्राणां शूद्रः कुर्वंश् च दण्डभाक् ।अप्_226.026अब्।
श्रुतदेशादिवितथी दाप्यो द्विगुणसाहसं

226.027

उत्तमः साहसस्तस्य यः पापैर् उत्तमान् क्षिपेत् ।अप्_226.027अब्।
प्रमादाद्यैर् मया प्रोक्तं प्रीत्या दण्डार्धमर्हति

226.028

मातरं पितरं ज्येष्ठं भ्रातरं श्वशुरं गुरुं ।अप्_226.028अब्।
आक्षारयञ्च्छतं दण्ड्यः पन्थानं चाददद्गुरोः

226.029

अन्त्यजातिर्द्विजातिन्तु येनाङ्गेनापराध्नुयात् ।अप्_226.029अब्।
तदेव च्छेदयेत्तस्य क्षिप्रमेवाविचारयन्

226.030

अवनिष्ठीवतो दर्पाद् द्वावोष्ठौ छेदयेन्नृपः ।अप्_226.030अब्।
अपमूत्रयतो मेढ्रमपशब्दयतो गुदं

226.031

:प् 325
उत्कृष्टासनसंस्थस्य नीचस्याधोनिकृन्तनं ।अप्_226.031अब्।
यो यदङ्गं च रुजयेत्तदङ्गन्तस्य कर्तयेत्

226.032

अर्धपादकराः कार्या गोगजाश्वोष्ट्रघातकाः ।अप्_226.032अब्।
वृक्षन्तु विफलं कृत्त्वा सुवर्णं दण्डमर्हति

226.033

द्विगुणं दापयेच्छिन्ने पथि सीम्नि जलाशये ।अप्_226.033अब्।
द्रव्याणि यो हरेद्यस्य ज्ञानतो ऽज्ञानतो ऽपिवा

226.034

स तस्योत्पाद्य तुष्टिन्तु राज्ञे दद्यात्ततो दमं ।अप्_226.034अब्।
यस्तु रज्जुं घटं कूपाद्धरेच्छिन्द्याच्च तां प्रपां

226.035

स दण्डं प्राप्नुयान् मासं दण्ड्यः स्यात् प्राणिता.रने ।अप्_226.035अब्।
धान्यं दशभ्यः कुम्भेभ्यो हरतो ऽभ्यधिकं बधः

226.036

शेषे ऽप्येकादशगुणं तस्य दण्डं प्रकल्पयेत् ।अप्_226.036अब्।
सुवर्णरजतादीनां नृस्त्रीणां हरणे बधः

226.037

येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते ।अप्_226.037अब्।
तत्तदेव हरेदस्य् प्रत्यादेशाय पार्थिवः

226.038

ब्राह्मणः शाकधान्यादि अल्पं गृह्णन्न दोषभाक् ।अप्_226.038अब्।
गोदेवार्थं हरंश्चापि हन्याद्दुष्टं बधीद्यतं

226.039

गृहक्षेत्रापहर्तारं तथा पत्न्यभिगामिनं ।अप्_226.039अब्।
अग्निदं गरदं हन्यात्तथा चाभ्युद्यतायुधं

226.040

राजा गवाभिचाराद्यं हन्याच्चैवाततायिनः ।अप्_226.040अब्।
परस्त्रियं न भाषेत प्रतिषिद्धो विशेन्न हि

226.041

अदण्ड्या स्त्री भवेद्राज्ञा वरयन्तो पतिं स्वयं ।अप्_226.041अब्।
उत्तमां सेवमानः स्त्री जघन्यो बधमर्हति

226.042

भर्तारं लङ्घयेद्या तां श्वभिः सङ्घातयेत् स्त्रियं ।अप्_226.042अब्।
:प् 326
सवर्णदूषितां कुर्यात् पिण्डमात्रोपजीविनीं

226.043

ज्यायसा दूषिता नारी मुण्डनं समवाप्नुयात् ।अप्_226.043अब्।
वैश्यागमे तु विप्रस्य क्षत्रियस्यान्त्यजागमे

226.044

क्षत्रियः प्रथमं वैश्यो दण्ड्यः शूद्रागमे भवेत् ।अप्_226.044अब्।
गृहीत्वा वेतनं वेश्या लोभादन्यत्र गच्छति

226.045

वेतनन्द्विगुणं दद्याद्दण्दञ्च द्विगुणं तथा ।अप्_226.045अब्।
भार्या पुत्राश् च दासाश् च शिष्यो भ्राता च सोदरः

226.046

कृटापराधास्ताड्याः सूरज्वा वेणुदलेन वा ।अप्_226.046अब्।
पृष्ठे न मस्तके हन्याच्चौरस्याप्नोति किल्विषं

226.047

रक्षास्वधिकृतैयस्तु प्रजात्यर्थं विलुप्यते ।अप्_226.047अब्।
तेषां सर्वस्वमादाय राजा कुर्यात् प्रवासनं

226.048

ये नियुक्ताः स्वकार्येषु हन्युः कार्याणि कर्मिणां ।अप्_226.048अब्।
निर्घृणाः क्रूरमनसस्तान्निःस्वान् कारयेन्नृपः

226.049

अमात्यः प्राड्विवाको वा यः कुर्यात् कार्यमन्यथा ।अप्_226.049अब्।
तस्य सर्वस्वमादाय तं राजा विप्रवासयेत्

226.050

गुरुतल्पे भयः कार्यः सुरापाणे सुराध्वजः ।अप्_226.050अब्।
स्तेयेषु श्वपदं विद्याद् ब्रह्महत्याशिरः पुमान्

226.051

शूद्रादीन् घातयेद्राजा पापान् विप्रान् प्रवासयेत् ।अप्_226.051अब्।
महापातकिनां वित्तं वरुणायोपपादयेत्

226.052

ग्रामेष्वपि च ये केचिच्चौराणां भक्तदायकाः ।अप्_226.052अब्।
भाण्डारकोषदाश् चैव सर्वांस्तानपि घातयेत्

226.053

राष्ट्रेषु राष्ट्राधिकृतान् सामन्तान् पापिनो हरेत् ।अप्_226.053अब्।
सन्धिं कृत्वा तु ये चौर्यं रात्रौ कुर्वन्ति तस्कराः

226.054

:प् 327
तेषां च्छित्वा नृपो हस्तौ तीक्ष्णे शूले निवेशयेत् ।अप्_226.054अब्।
तडागदेवतागारभेदकान् घातयेन्नृपः

226.055

समुत्सृजेद्राजमार्गे यस्त्वमेध्यमनापदि ।अप्_226.055अब्।
स हि कार्षापणन्दण्ड्यस्तममेध्यञ्च शोधयेत्

226.056

प्रतिमासङ्क्रमभिदो दद्युः पञ्चशतानि ते ।अप्_226.056अब्।
समैश् च विषमं यो वा चरते मूल्यतो ऽपि वा

226.057

समाप्नुयान्नरः पूर्वं दमं मध्यममेव वा ।अप्_226.057अब्।
द्रव्यमादाय वणिजामनर्घेणावरुन्धतां

226.058

राजा पृथक् पृथक् कुर्याद्दण्डमुत्तमसाहसं ।अप्_226.058अब्।
द्रव्याणां दूषको यश् च प्रतिच्छन्दकविक्रयी

226.059

मध्यमं प्राप्नुयाद्दण्डं कूटकर्ता तथोत्तमं ।अप्_226.059अब्।
कलहापकृतं देयं दण्डश् च द्विगुणस्ततः

226.060

अभक्ष्यभक्ष्ये विप्रे वा शूद्रे वा कृष्णलो दमः ।अप्_226.060अब्।
तुलाशासनकर्ता च कूटकृन्नाशकस्य च

226.061

एभिश् च व्यवहर्ता यः स दाप्यो दममुत्तमं ।अप्_226.061अब्।
विषाग्निदां पतिगुरुविप्रापत्यप्रमापिणीं

226.062

विकर्णकरनासौष्ठी कृत्वा गोभिः प्रवासयेत् ।अप्_226.062अब्।
क्षेत्रवेश्मग्रामवनविदारकास् तथा नराः

226.063

राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना ।अप्_226.063अब्।
ऊनं वाप्यधिकं वापि लिखेद्यो राजशासनं

226.064

पारजायिकचौरौ च मुञ्चतो दण्ड उत्तमः ।अप्_226.064अब्।
राजयानासनारोढुर्दण्ड उत्तमसाहसः

226.065

यो मन्येताजितो ऽस्मीति न्यायेनापि पराजितः ।अप्_226.065अब्।
:प् 328
तमायान्तं पराजित्य(1) दण्डयेद् द्विगुणं दमं

226.066

आह्वानकारी बध्यः स्यादनाहूतमथाह्वयन् ।अप्_226.066अब्।
दाण्डिकस्य च यो हस्तादभिमुक्तः पलायते

226.067

हीनः पुरुषकारेण तद् दद्याद्दाण्डिको धनं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc