भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 227

227.001

:ए इत्य् आग्नेये महापुराणे दण्डप्रणयनं नाम
षड्विंशत्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {227}
:श् अथ सप्तविंशत्यधिकद्विशततमो ऽध्यायः
युद्धयात्रा
पुष्कर उवाच
यदा मन्येत नृपतिराक्रन्देन बलीयसा ।अप्_227.001अब्।
पार्ष्णिग्राहो ऽभिभूतो मे तदा यात्रां प्रयोजयेत्

227.002

पुष्ता योधा भृटा भृत्याः प्रभूतञ्च बलं मम ।अप्_227.002अब्।
मूलरक्षासमर्थो ऽस्मि तैर् गत्वा(2) शिविरे व्रजेत्

227.003

शत्रोर्वा व्यसने यायात् दैवाद्यैः पीडितं परं ।अप्_227.003अब्।
भूकम्पो यान्दिशं याति याञ्च केतुर्व्यदूषयत्

227.004

विद्विष्टनाशकं सैन्यं सम्भूतान्तःप्रकोपनं(3) ।अप्_227.004अब्।
शरीरस्फुरणे धन्ये तथा सुस्वप्रदर्शने

227.005

निमित्ते शकुने धन्ये जाते शत्रुपुरं व्रजेत् ।अप्_227.005अब्।
:न्
1 पुनर्जित्वेति ग.. , घ.. , ज.. च
2 तैर् वृत्वा इति साधुः
3 सम्भूतान्तःकोपदमिति ख.. , छ.. च
:प् 329
पदातिनागबहुलां सेनां प्रावृषि योजयेत्

227.006

हेमन्ते शिशिरे चैव रथवाजिसमाकुलां ।अप्_227.006अब्।
चतुरङ्गबलोपेतां वसन्ते वा शरन्म्मुखे(1)

227.007

सेना पदातिबहुला शत्रून् जयति सर्वदा ।अप्_227.007अब्।
अङ्गसक्षिणभागे तु शस्तं प्रस्फुरणं भवेत्

227.008

न शस्तन्तु तथा वामे पृष्ठस्य हृदयस्य च ।अप्_227.008अब्।
लाञ्छनं पिटकञ्चैव विज्ञेयं स्फुरणं तथा

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc