भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 225

225.001

:ए इत्य् आग्नेये महापुराणे राजधर्मो नाम
चतुर्विंशत्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {225}
:श् अथ पञ्चविंशत्यधिकद्विशततमो ऽध्यायः
राजधर्माः
पुष्कर उवाच
स्वयमेव कर्म दैवाख्यं विद्धि देहान्तरार्जितं ।अप्_225.001अब्।
तस्मात् पौरुषमेवेह श्रेष्ठमाहुर्मनीषिणः

225.002

:प् 320
प्रतिकूलं तथा दैवं पौरुषेण विहन्यते ।अप्_225.002अब्।
सात्त्विकात् कर्मणः पूर्वात् सिद्धिः स्यात्पौरुषं विना

225.003

पौरुषं दैवसम्पत्त्या काले फलति भार्गव ।अप्_225.003अब्।
दैवं पुरुषकारश् च द्वयं पुंसः फलावहं

225.004

कृषेर्वृष्टिसमायोगात् काले स्युः फलसिद्धयः ।अप्_225.004अब्।
सधर्मं पौरुषं कुर्यान्नालसो न च दैववान्

225.005

सामादिभिरुपायैस्तु सर्वे सिद्ध्यन्त्युपक्रमाः ।अप्_225.005अब्।
साम चोपप्रदानञ्च भेददण्डौ तथापरौ

225.006

मायोपेक्षेन्द्रजालञ्च उपायाः सप्त ताञ्छृणु ।अप्_225.006अब्।
द्विविधं कथितं साम तथ्यञ्चातथ्यमेव च

225.007

तत्राप्यतथ्यं साधूनामाक्रोशायैव जायते ।अप्_225.007अब्।
महाकुलीना ह्य् ऋजवो धर्मनित्या जितेन्द्रियाः

225.008

सामसाध्या अतथ्यैश् च गृह्यन्ते राक्षसा अपि ।अप्_225.008अब्।
तथा तदुप्रकाराणां कृतानाञ्चैव वर्णनं

225.009

परस्परन्तु ये द्विष्टाः क्रुद्धभीतावमानिताः ।अप्_225.009अब्।
तेषान्भेदं प्रयुञ्जीत परमं दर्शयेद्भयं(1)

225.010

आत्मीयान् दर्शयेदाशां येन दोषेण बिभ्यति ।अप्_225.010अब्।
परास्तेनैव ते भेद्या रक्ष्यो वै ज्ञातिभेदकः

225.011

सामन्तकोषो वाह्यस्तु मन्त्रामात्यात्मजादिकः(2) ।अप्_225.011अब्।
अन्तःकोषञ्चोपशाम्य कुर्वन् शत्रोश् च तं जयेत्

225.012

उपायश्रेष्ठं दानं स्याद्दानादुभयलोकभाक् ।अप्_225.012अब्।
न सो ऽस्ति नाम दानेन वशगो यो न जायते

225.013

:न्
1 परस्मादर्शयेद्भयमिति ञ..
2 मन्त्रामात्यानुजादिक इति ञ..
:प् 321
दानवानेव शक्नोति संहतान् भेदितुं परान् ।अप्_225.013अब्।
त्रयासाध्यं साधयेत्तं दण्डेन च कृतेन च

225.014

दण्डे सर्वं स्थितं दण्डो नाशयेद्दुष्प्रणीकृतः ।अप्_225.014अब्।
अदण्ड्यान् दण्डयन्नश्येद्दण्ड्यान्राजाप्यदण्डयन्

225.015

दैवदैत्योरगनराः सिद्धा भूताः पतत्रिणः ।अप्_225.015अब्।
उत्क्रमेयुः स्वमर्यादां यदि दण्डान् न पालयेत्

225.016

यस्माददान्तान् दमयत्यदण्ड्यान्दण्डयत्यपि ।अप्_225.016अब्।
दमनाद्दण्डनाच्चैव तस्माद्दण्ड विदुर्बुधाः

225.017

तेजसा दुर् निरीक्ष्यो हि राजा भास्करवत्ततः ।अप्_225.017अब्।
लोकप्रसादं गच्छेत दर्शनाच्चन्द्रवत्ततः

225.018

जगद्व्याप्नोति वै चारैर् अतो राजा समीरणः ।अप्_225.018अब्।
दोषनिग्रहकारित्वाद्राजा वैवस्वतः प्रभुः

225.019

यदा दहति दुर्बुद्धिं तदा भवति पावकः ।अप्_225.019अब्।
यदा दानं द्विजातिभ्यो दद्यात् तस्माद्धनेश्वरः

225.020

धनधाराप्रवर्षित्वाद्देवादौ वरुणः स्मृतः ।अप्_225.020अब्।
क्षमया धारयंल्लेकान् पार्थिवः पार्थिवो भवेत्

225.021

उत्साहमन्त्रशक्त्याद्यै रक्षेद्यस्माद्धरिस्ततः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc