भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 224

224.001

:ए इत्य् आग्नेये महाओपुराणे स्त्रीरक्षादिकामशास्त्रं नाम
त्रयोविंशत्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {224}
:श् अथ चतुर्विंशत्यधिकद्विशततमो ऽध्यायः
राजधर्माः
पुष्कर उवाच
राजपुत्रस्य रक्षा च कर्तव्या पृथिवीक्षिता ।अप्_224.001अब्।
धर्मार्थकामशास्त्राणि धनुर्वेदञ्च शिक्षयेत्

224.002

शिल्पानि शिक्षयेच्चैवमाप्तैर् मिथ्याप्रियंवदैः ।अप्_224.002अब्।
शरीररक्षाव्याजेन रक्षिणो ऽस्य नियोजयेत्

224.003

न चास्य सङ्गो दातव्यः क्रुद्धलुब्धविमानितैः ।अप्_224.003अब्।
अशक्यन्तु गुणाधानं कर्तुं तं बन्धयेत् मुखैः

224.004

अधिकारेषु सर्वेषु विनीतं विनियोजयेत् ।अप्_224.004अब्।
मृगयां पानमक्षांश् च राज्यनाशंस्त्यजेन्नृपः

224.005

दिवास्वप्नं वृथाट्याञ्च वाक्पारुष्यं विवर्जयेत् ।अप्_224.005अब्।
निन्दाञ्च दण्डपारुष्यमर्थदूषणमुत्सृजेत्

224.006

आकाराणां समुछेदो दुर्गादीनामसत्क्रिया ।अप्_224.006अब्।
:प् 317
अर्थानां दूषणं प्रोक्तं विप्रकीर्णत्वमेव च

224.007

अदेशकाले यद्दानमपात्रे दानमेव च ।अप्_224.007अब्।
अर्थेषु दूषणं प्रोक्तमसत्कर्मप्रवर्तनं

224.008

कामं क्रोधं मदं मानं लोभं दर्पञ्च वर्जयेत् ।अप्_224.008अब्।
ततो भृत्यजयङ्कृत्वा पौरजानपदं जयेत्

224.009

जयेद्वाह्यानरीन् पश्चाद्वाह्याश् च त्रिविधारयः ।अप्_224.009अब्।
गुरवस्ते यथा पूर्वं कुल्यानन्तरकृत्रिमाः

224.010

पितृपैतामहं मित्रं सामन्तञ्च तथा रिपोः ।अप्_224.010अब्।
कृत्रिमञ्च महाभाग मित्रन्त्रिविधमुच्यते

224.011

स्वाम्यमात्यञ्जनपदा दुर्गं दण्दस्तथैव च ।अप्_224.011अब्।
कोषो मित्रञ्च धर्मज्ञ सप्ताङ्गं राज्यमुच्यते

224.012

मूलं स्वामी स वै रक्ष्यस्तस्माद्राज्यं(1) विशेषतः ।अप्_224.012अब्।
राज्याङ्गद्रोहिणं हन्यात्काले तीक्ष्णो मृदुर्भवेत्

224.013

एवं लोकद्वयं राज्ञो भृत्यैर् हासं विवर्जयेत् ।अप्_224.013अब्।
भृत्याः परिभवन्तीह नृपं हर्षणसत्कथं

224.014

लोकसङ्ग्रहणार्थाय कृतकव्यसनो भवेत् ।अप्_224.014अब्।
स्मितपूर्वाभिभाषी स्यात् लोकानां रञ्जनं चरेत्

224.015

दीर्घसूत्रस्य नृपतेः कर्महानिर्ध्रुवं भवेत् ।अप्_224.015अब्।
रागे दर्पे च माने च द्रोहे पापे च कर्मणि

224.016

अप्रिये चैव वक्तव्ये दीर्घसूत्रः प्रशस्यते ।अप्_224.016अब्।
सुप्तमन्त्रो भवेद्राजा नापदो गुप्तमन्त्रतः

224.017

:न्
1 तस्माद्राष्ट्रमिति ख.. , ग.. , घ.. , छ.. , ज.. , ञ.. , ट.. च
:प् 318
ज्ञायते हि कृतं कर्म नारब्धं तस्य राज्यकं(1) ।अप्_224.017अब्।
आकारैर् इङ्गितैर् गत्या चेष्टया भाषितेन च

224.018

नेत्रवक्तविकाराभ्यां गृह्यते ऽन्तर्गतं पुनः ।अप्_224.018अब्।
नैकस्तु मन्त्रयेन् मन्त्रं न राजा बहुभिः सह

224.019

बहुभिर्मन्त्रयेत् कामं राजा मन्त्रान् पृथक् पृथक् ।अप्_224.019अब्।
मन्त्रिणामपि नो कुर्यान् मन्त्री मन्त्रप्रकाशनं

224.020

क्वापि कस्यापि(2) विश्वासो भवतीह सदा नृणां ।अप्_224.020अब्।
निश् चयश् च तथा मन्त्रे कार्य एकेन सूरिणा

224.021

नश्येदविनयाद्राजा राज्यञ्च विनयाल्लभेत् ।अप्_224.021अब्।
त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिञ्च शाश्वतीं

224.022

आन्वीक्षिकीञ्चार्थविद्यां वार्तारम्भांश् च लोकतः ।अप्_224.022अब्।
जितेन्द्रियो हि शक्नोति वशे स्थापयितुं प्रजाः

224.023

पूज्या देवा द्विजाः सर्वे दद्याद्दानानि तेषु च ।अप्_224.023अब्।
द्विजे दानञ्चाक्षयो ऽयं निधिः कैश्चिन्न नाश्यते

224.024

सङ्ग्रामेष्वनिवर्तित्वं प्रजानां परिपालनं ।अप्_224.024अब्।
दानानि ब्राह्मणानाञ्च राज्ञो निःश्रेयसम्परं

224.025

कृपणानाथवृद्धानां विधवानाञ्च योषितां ।अप्_224.025अब्।
योगक्षेमञ्च वृत्तिञ्च तथैव परिकल्पयेत्

224.026

वर्णाश्रमव्यवस्थानं कार्यन्तापसपूजनं ।अप्_224.026अब्।
न विश्वसेच्च सर्वत्र तापसेषु च विश्वसेत्

224.027

विश्वासयेच्चापि परन्तत्त्वभूतेन हेतुना ।अप्_224.027अब्।
:न्
1 तस्य कर्मकमिति ख..
2 क्वचित् कस्यापि इति ख.. , ग.. , घ.. , ज.. , ट.. च
:प् 319
वकविच्चिन्तयेदर्थं सिंहवच्च पराक्रमेत्

224.028

वृकवच्चावलुम्पेत शशवच्च विनिष्पतेत् ।अप्_224.028अब्।
दृढप्रहरी च भवेत् तथा शूकरवन्नृपः

224.029

चित्रकारश् च शिखिवद् दृढभक्तिस् तथाश्ववत् ।अप्_224.029अब्।
भवेच्च मधुराभाषी तथा कोकिलवन्नृपः

224.030

काकशङ्की भवेन्नित्यमज्ञातां वसतिं वसेत् ।अप्_224.030अब्।
नापरीक्षितपूर्वञ्च भोजनं शयनं स्पृशेत्

224.031

नाविज्ञातां स्त्रियं गच्छेन्नाज्ञातां नावमारुद्वेत् ।अप्_224.031अब्।
राष्ट्रकर्षी भ्रस्यते च राज्यार्थाच्चैव जीवितात्

224.032

भृतो वत्सो जातबलः कर्मयोग्यो यथा भवेत् ।अप्_224.032अब्।
तथा राष्ट्रं महाभाग भृतं कर्मसहं भवेत्

224.033

सर्वं कर्मेदमायत्तं विधाने दैवपौरुषे ।अप्_224.033अब्।
तयोर्दैवमचिन्त्यं हि पौरुषे विद्यते क्रिया

224.034

जनानुरागप्रभवा राज्ञो राज्यमहीश्रियः ॥34

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc