भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 223

223.001

:ए इत्य् आग्नेये महापुराणे राजधर्मो नाम
द्वाविंशत्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {223}
:श् अथ त्रयोविंशत्यधिकद्विशततमो ऽध्यायः
राजधर्माः
पुष्कर उवाच
वक्ष्ये ऽन्तःपुरचिन्तां च धर्माद्याः पुरुषार्थकाः ।अप्_223.001अब्।
अन्योन्यरक्षया तेषां सेवा कार्या स्त्रिया नृपैः

223.002

:न्
1 मासेनैकेनेति छ.. , ज.. च
:प् 312
धर्ममूलो ऽर्थविटपस् तथा कर्मफलो महान् ।अप्_223.002अब्।
त्रिवर्गपादपस्तत्र रक्षया फलभागं भवेत्

223.003

कामाधीनाः(1) स्त्रियो राम तदर्थं रत्नसङ्ग्रहः ।अप्_223.003अब्।
सेव्यास्ता नातिसेव्याश् च भूभुजा विषयैषिणा

223.004

आहारो मैथुनन्निद्रा सेव्या नाति हि रुग् भवेत् ।अप्_223.004अब्।
मञ्चाधिकारे(2) कर्तव्याः स्त्रियः सेव्याः स्वरामिकाः(3)

223.005

दुष्टान्याचरते(4) या तु नाबिनन्दति तत्कथां ।अप्_223.005अब्।
ऐक्यं द्विषद्भिर्व्रजति गर्वं वहति चोद्धता

223.006

चुम्बिता मार्ष्टि वदनं दत्तन्न बहु मन्यते ।अप्_223.006अब्।
स्वपित्यादौ प्रसुप्तापि तथा पश्चाद्विबुध्यते

223.007

स्पृष्टा धुनोति गात्राणि गात्रञ्च विरुणद्धि या ।अप्_223.007अब्।
ईषच्छृणोति वाक्यानि प्रियाण्यपि पराङ्मुखी

223.008

न पश्यत्यग्रदत्तन्तु जघनञ्च निगूहति ।अप्_223.008अब्।
दृष्टे विवर्णवदना मित्रेष्वथ पराङ्मुखी(5)

223.009

तत्कामितासु च स्त्रीसु मध्यस्थेव च लक्ष्यते ।अप्_223.009अब्।
ज्ञातमण्डनकालापि न करोति च मण्डनं

223.010

या सा विरक्ता तान्त्यक्त्वा सानुरागां स्त्रियम्भजेत्(6) ।अप्_223.010अब्।
दृष्ट्वैव हृष्टा भवति वीक्षिते च पराङ्मुखी

223.011

:न्
1 कामाधरा इति घ.. , ञ.. च
2 लज्जाधिकारे इति ख.. , छ.. च
3 सुवासिका इति क..
4 द्विष्टान्याचक्षते इति ञ..
5 न पश्यत्यग्रदत्तन्त्वित्यादिः, मित्रेष्वथ पराङ्मुखीत्यन्तः
पाठः ज.. पुस्तके नास्ति
6 स्त्रियं व्रजेदिति घ.. , ञ.. च
:प् 313
दृश्यमना तथान्यत्र दृष्टिं क्षिपति चञ्चलां ।अप्_223.011अब्।
तथाप्युपावर्तयितुं नैव शक्नोत्यशेषतः

223.012

विवृणीति तथाङ्गानि स्वस्या गुह्यानि भार्गव ।अप्_223.012अब्।
गर्हितञ्च तथैवाङ्गं प्रयत्नेन निगूहति

223.013

तद्दर्शने च कुरुते बालालिङ्गनचुम्बनं ।अप्_223.013अब्।
आभाष्यमाणा भवति सत्यवाक्या तथैव च

223.014

स्पृष्टा पुलकितैर् अङ्गैः स्वेदेनैव च भुज्यते ।अप्_223.014अब्।
करोति च तथा राम सुलभद्रव्ययाचनं

223.015

ततः स्वल्पमपि प्राप्य करोति परमां मुदं ।अप्_223.015अब्।
नामसङ्कीर्तनादेव मुदिता बहु मन्यते

223.016

करजाङ्काङ्कितान्यस्य फलानि प्रेषयत्यपि ।अप्_223.016अब्।
तत्प्रेषितञ्च हृदये विन्यसत्यपि चादरात्

223.017

आलिङ्गनैश् च गात्राणि लिम्पतीवामृतेन या ।अप्_223.017अब्।
सुप्ते स्वपित्यथादौ च तथा तस्य विबुध्यते

223.018

उरू स्पृशति चात्यर्थं सुप्तञ्चैनं विबुध्यते ।अप्_223.018अब्।
कपित्थचूर्णयोगेन तथा दघ्नः स्रजा तथा

223.019

घृतं सुगन्धि भवति दुग्धैः क्षिप्तैस् तथा यवैः ।अप्_223.019अब्।
भोज्यस्य कल्पनैवं स्याद्गन्धमुक्तिः प्रदर्श्यते

223.020

शौचमाचमनं राम तथैव च विरेचनं ।अप्_223.020अब्।
भावना चैव पाकश् च बोधनं धूपनन्तथा

223.021

वासनञ्चैव निर्दिष्टं कर्माष्टकमिदं स्मृतं ।अप्_223.021अब्।
कपित्थबिल्वजम्वाम्रकरवीरकपल्लवैः

223.022

कृत्वोदकन्तु यद्द्रव्यं शौचितं शौचनन्तु तत् ।अप्_223.022अब्।
:प् 314
तेषामभावे शौचन्तु मृगदर्पाम्भसा भवेत्

223.023

नखं कुष्ठं घनं मांसी स्पृक्कशैलेयजं जलं ।अप्_223.023अब्।
तथैव कुङ्कुमं लाक्षा चन्दनागुरुनीरदं(1)

223.024

सरलं देवकाष्ठञ्च(2) कर्पूरं कान्तया सह ।अप्_223.024अब्।
बालः कुन्दुरुकश् चैव गुग्गुलुः श्रीनिवासकः

223.025

सह सर्जरसेनैवं धूपद्रव्यैकविंशतिः ।अप्_223.025अब्।
धूपद्रव्यगणादस्मादेकविंशाद्यथेच्छया

223.026

द्वे द्वे द्रव्ये समादाय सर्जभागैर् नियोजयेत् ।अप्_223.026अब्।
नखपिण्याकमलयैः संयोज्य मधुना तथा

223.027

धूपयोगा भवन्तीह यथावत् स्वेच्छया कृताः ।अप्_223.027अब्।
त्वचन्नाडीं फलन्तैलं कुङ्कुमं ग्रन्थि प्रवर्तकं(3)

223.028

शैलेयन्तगरं क्रान्तां चोलङ्कर्पूरमेव च(4) ।अप्_223.028अब्।
मांसीं सुराञ्च कुष्ठञ्च स्नानद्रव्याणि निर्दिशेत्

223.029

एतेभ्यस्तु समादाय द्रव्यत्रयमथेच्छया ।अप्_223.029अब्।
मृगदर्पयुतं स्नानं कार्यं कन्दर्पवर्धनं

223.030

त्वङ्मुरानलदैस्तुल्यैर् वालकार्धसमायुतैः ।अप्_223.030अब्।
स्नानमुत्पलगन्धि स्यात् सतैलं कुङ्कुमायते

223.031

जातीपुषसुगन्धि स्यात् तगरार्धेन योजितं ।अप्_223.031अब्।
सद्ध्यामकं स्याद्वकुलैस्तुल्यगन्धि मनोहरं

223.032

:न्
1 चन्दनागुरुशैलजमिति ख.. , छ.. च
2 देवदारुश्चेति घ.. , ञ.. च
3 ग्रन्थिपर्णकमिति ग.. , घ.. , ञ.. च
4 सह सर्जरसेनेत्यादिः चोलं कर्पूरमेव चेत्यन्तः पाठः ट..
पुस्तके नास्ति
:प् 315
मञ्जिष्ठातगरं चोलं त्वचं व्यघ्रनखं नक्खं ।अप्_223.032अब्।
गन्धपत्रञ्च विन्यस्य गन्धतैलं भवेच्छुभं

223.033

तैलं निपीडितं राम तिलैः पुष्पाधिवासितैः ।अप्_223.033अब्।
वासनात् पुष्पसदृशं गन्धेन तु भवेद् ध्रुवं

223.034

एलालवङ्गकक्कोलजातीफलनिशाकराः ।अप्_223.034अब्।
जातीपत्रिकया सार्धं स्वतन्त्रा मुखवासकाः

223.035

कर्पूरं कुङ्कुमं कान्ता मृगदर्पं हरेणुकं ।अप्_223.035अब्।
कक्कोलैलालवङ्गञ्च जातौ कोशकमेव च

223.036

त्वक्पत्रं त्रुटिमुस्तौ च लतां कस्तूरिकं तथा ।अप्_223.036अब्।
कण्टकानि लवङ्गस्य फलपत्रे च जातितः

223.037

कटुकञ्च(1) फलं राम कार्षिकाण्युपकल्पयेत् ।अप्_223.037अब्।
तच्चूर्णे खदिरं सारं दद्यात्तुर्यं तु वासितं(2)

223.038

सहकाररसेनास्मात् कर्तव्या गुटिकाः शुभाः(3) ।अप्_223.038अब्।
मुख न्यस्ताः सुगन्धास्ता मुखरोगविनाशनाः

223.039

पूगं प्रक्षालितं सम्यक् पञ्चपल्लववारिणा ।अप्_223.039अब्।
शक्त्या तु गुटिकाद्रव्यैर् वासितं मुखवासकं

223.040

कटुकं दन्तकाष्ठञ्च गोमूत्रे वासितं त्र्यहं ।अप्_223.040अब्।
कृतञ्च पूगवद्राम मुखसौगन्धिकारकं

223.041

त्वक्पथ्ययोः समावंशौ शशिभागार्धसंयुतौ ।अप्_223.041अब्।
नागवल्लीसमो भाति मुखवासो मनोहरः

223.042

:न्
1 कन्दुकञ्चेति ख.. , छ.. च
2 दद्यात्तुर्थं तुलोन्मितमिति ट.. , छ.. च
3 कक्कोलैलेत्यादिः गुटिकाः शुभा इत्य् अन्तः पाठः घ.. , ज..
पुस्तकद्वये नास्ति
:प् 316
एवं कुर्यात् सदा स्त्रीणां रक्षणं पृथिवीपतिः ।अप्_223.042अब्।
न चासां विश्वसेज्जातु पुत्रमातुर्विशेषतः

223.043

न स्वपेत् स्त्रीगृहे रात्रौ विश्वासः कृत्रिमो भवेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc