अग्नि पुराण · अध्याय 222
:ए इत्य् आग्नेये महापुराणे सहायसम्पत्तिर्नाम
विंशत्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {221आ}
:श् अथ एकविंशाधिकद्विशततमो ऽध्यायः
पुष्कर उवाच
भृत्यः कुर्यात्तु राजाज्ञां शिष्यवत्सच्छ्रियः पतेः ।अप्_221आ.001अब्।
न क्षिपेद्वचनं राज्ञो अनुकूलं प्रियं वदेत् ॥अप्_221आ.001च्द्।
रहोगतस्य वक्तव्यमप्रियं यद्धितं भवेत् ।अप्_221आ.002अब्।
न नियुक्तो हरेद्वित्तं नोपेक्षेत्तस्य मानकं ॥अप्_221आ.002च्द्।
राज्ञश् च न तथाकार्यं वेशभाषाविचेष्टितं ।अप्_221आ.003अब्।
अन्तःपुरचराध्यक्षो वैरभूतैर् निराकृतैः ॥अप्_221आ.003च्द्।
:प् 304
संसर्गं न व्रजेद्भृत्यो राज्ञो गुह्यञ्च गोपयेत् ।अप्_221आ.004अब्।
प्रदर्श्य कौशलं किञ्चिद्राजानन्तु विशेषयेत् ॥अप्_221आ.004च्द्।
राज्ञा यच्छ्रावितं गुह्यं न तल्लोके प्रकाशयेत् ।अप्_221आ.005अब्।
आज्ञाप्यमाने वान्यस्मिन् किङ्करोमीति वा वदेत् ॥अप्_221आ.005च्द्।
वस्त्रं रत्नमलङ्कारं राज्ञा दत्तं च धारयेत्(1) ।अप्_221आ.006अब्।
नानिर्दिष्टो(2) द्वारि विशेन्नायोग्ये भुवि राजदृक् ॥अप्_221आ.006च्द्।
जृम्भान्निष्ठीवनङ्कासं कोपं पर्यन्तिकाश्रयं ।अप्_221आ.007अब्।
भृकुटीं वातमुद्गारं तत्समीपे विसर्जयेत्(3) ॥अप्_221आ.007च्द्।
स्वगुणाख्यापने युक्त्या परानेव प्रयोजयेत्(4) ।अप्_221आ.008अब्।
शाठ्यं लौल्यं सपैशून्यं नास्तिक्यं क्षुद्रता तथा ॥अप्_221आ.008च्द्।
चापल्यञ्च परित्याज्यं नित्यं राजानुजीविना ।अप्_221आ.009अब्।
श्रुतेन विद्याशिल्पैश् च संयोज्यात्मानमात्मना ॥अप्_221आ.009च्द्।
राजसेवान्ततः कुर्याद्भूतये भूतिवर्धनः(5) ।अप्_221आ.010अब्।
नमस्कार्याः सदा चास्य पुत्रवल्लभमन्त्रिणः ॥अप्_221आ.010च्द्।
सचिवैर् नास्य विश्वासो राजचित्तप्रियञ्चरेत् ।अप्_221आ.011अब्।
त्यजेद्विरक्तं रक्तात्तु वृत्तिमीहेत राजवित् ॥अप्_221आ.011च्द्।
अपृष्टश्चास्य न ब्रूयात् कामं कुर्यात्तथापदि ।अप्_221आ.012अब्।
प्रसन्नो वाक्यसङ्ग्राही रहस्ये न च शङ्कते ॥अप्_221आ.012च्द्।
:न्
1 राज्ञादत्तं न धारयेदिति ख..
2 नानिर्दिष्ते इति ख.. , ग.. , घ.. , ञ.. च
3 विवर्जयेदिति ग.. , घ.. , ज.. , ट.. च
4 नियोजयेदिति ग.. , घ.. , ञ.. च
5 भूतिवर्धनीमिति ग.. , ट.. च
:प् 305
कुशलादिपरिप्रश्नं सम्प्रयच्छति चासनं ।अप्_221आ.013अब्।
तत्कथाश्रवणाद्धृष्टो अप्रियाण्यपि नन्दने ॥अप्_221आ.013च्द्।
अल्पं दत्तं प्रगृह्णाति स्मरेत् कथान्तरेष्वपि ।अप्_221आ.014अब्।
इति रक्तस्य कर्तव्यं सेवामन्यस्य वर्जयेत् ॥अप्_221आ.014च्द्।
:ए इत्य् आग्नेये महापुराणे अनुजीविवृत्तं नाम
विंशत्यधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {221ब्}
:श् अथैकविंशत्यधिकद्विशततमो ऽध्यायः
दुर्गसम्पत्तिः
पुष्कर उवाच
दुर्गसम्पत्तिमाख्यास्ये दुर्गदेशे वसेन्नृपः ।अप्_221ब्.001अब्।
वैश्यशूद्रजनप्रायो ऽह्यनाहार्यस् तथापरैः ॥अप्_221ब्.001च्द्।
किञ्चिद्ब्राह्मणसंयुक्तो बहुकर्मकरस् तथा ।अप्_221ब्.002अब्।
अदेवमातृको भक्तजलो देशः प्रशस्यते ॥अप्_221ब्.002च्द्।
परैर् अपीडीतः पुष्पफलधान्यसन्वितः(1) ।अप्_221ब्.003अब्।
अगम्यः परचक्राणां व्यालतस्करवर्जितः ॥अप्_221ब्.003च्द्।
षण्णामेकतमं दुर्गं तत्र कृत्वा वसेद्बली ।अप्_221ब्.004अब्।
धनुर्दुर्गं महीदुर्गं नरदुर्गं तथैव च ॥अप्_221ब्.004च्द्।
वार्क्षञ्चैवाम्बुदुर्गञ्च गिरिदुर्गञ्च भार्गव ।अप्_221ब्.005अब्।
सर्वोत्तमं शैलदुर्गमभेद्यं चान्यभेदनं ॥अप्_221ब्.005च्द्।
:न्
1 पुष्पफलधान्यधनान्वित इति ग.. , घ.. , ञ.. , ट.. च
:प् 306
पुरन्तत्र च हट्टाद्यदेवतायतनादिकं ।अप्_221ब्.006अब्।
अनुयन्त्रायुधोपेतं सोदकं दुर्गमुत्तमं ॥अप्_221ब्.006च्द्।
राजरक्षां प्रवक्ष्यामि रक्ष्यो भूपो विषादितः ।अप्_221ब्.007अब्।
पञ्चाङ्गस्तु शिरीषः स्यान्मूत्रपिष्टो विषार्दनः ॥अप्_221ब्.007च्द्।
शतावरी छिन्नरुहा विषघ्नी तण्डुलीयकं ।अप्_221ब्.008अब्।
कोषातकी च कल्हारी ब्राह्मी चित्रपटोलिका ॥अप्_221ब्.008च्द्।
मण्डूलपर्णी वाराही धात्र्यानन्दकमेव च ।अप्_221ब्.009अब्।
उन्मादिनी सोमराजी विषघ्नं रत्नमेव च ॥अप्_221ब्.009च्द्।
वास्तुलक्षणसंयुक्ते वसन् दुर्गे सुरान्यजेत् ।अप्_221ब्.010अब्।
प्रजाश् च पालयेद्दुष्टाञ्जयेद्दानानि दापयेत् ॥अप्_221ब्.010च्द्।
देवद्रव्यादिहरणात् कल्पन्तु नरके वसेत् ।अप्_221ब्.011अब्।
देवालयानि कुर्वीत देवपूजारतो नृपः ॥अप्_221ब्.011च्द्।
सुरालयाः पालनीयाः स्थापनीयाश् च देवताः ।अप्_221ब्.012अब्।
मृण्मयाद्दारुजं पुण्यं दारुजादिष्टकामयं ॥अप्_221ब्.012च्द्।
ऐष्टकाच्छैलजं पुण्यं शैलजात् स्वर्णरत्नजं ।अप्_221ब्.013अब्।
क्रीडन् सुरगृहं कुर्वन् भुक्तिमुक्तिमवाप्नुयात् ॥अप्_221ब्.013च्द्।
चित्रक्वद् गीतवाद्यादिप्रेक्षणीयादिदानकृत् ।अप्_221ब्.014अब्।
तैलाज्यमधुदुग्धाद्यैः स्नाप्य देवं दिवं व्रजेत् ॥अप्_221ब्.014च्द्।
पूजयेत् पालयेद्विप्रान् द्विजस्वन्न हरेन्नृपः ।अप्_221ब्.015अब्।
सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलं ॥अप्_221ब्.015च्द्।
हरन्नरकमाप्नोति यावदाहूतसम्प्लवं ।अप्_221ब्.016अब्।
दुराचारन्न द्विषेच्च सर्वपापेष्वपि स्थितं ॥अप्_221ब्.016च्द्।
नैवास्ति ब्राह्मणबधात् पापं गुरुतरं क्वचित् ।अप्_221ब्.017अब्।
:प् 307
अदैवं दैवतं कुर्युः कुर्युर्दैवमदैवतं ॥अप्_221ब्.017च्द्।
ब्राह्मणा हि महाभागास्तान्नमस्येत्सदैव तु(1) ।अप्_221ब्.018अब्।
ब्राह्मणी रुदती हन्ति कुलं राज्यं प्रजास् तथा ॥अप्_221ब्.018च्द्।
साध्वीस्त्रीणां पालनञ्च राजा कुर्याच्च धार्मिकः ।अप्_221ब्.019अब्।
स्त्रिया प्रहृष्टया भाव्यं गृहकार्यैकदक्षया ॥अप्_221ब्.019च्द्।
सुसंस्कृतोपस्करया व्यये चामुक्तहस्तया ।अप्_221ब्.020अब्।
यस्मै दद्यात्पिता त्वेनां शुश्रूषेत्तं पतिं सदा ॥अप्_221ब्.020च्द्।
मृते भर्तरि स्वर्यायात् ब्रह्मचर्ये स्थिताङ्गना ।अप्_221ब्.021अब्।
परवेश्मरुचिर् नस्यान्न स्यात् कलहशालिनी ॥अप्_221ब्.021च्द्।
मण्डनं वर्जयेन्नारी तथा प्रोषितभर्तृका ।अप्_221ब्.022अब्।
देवताराधनपरा तिष्ठेद्भर्तृहिते रता ॥अप्_221ब्.022च्द्।
धारयेन्मङ्गलार्थाय किञ्चिदाभरणन्तथा ।अप्_221ब्.023अब्।
भर्त्राग्निं या विशेन्नारी सापि स्वगमवाप्नुयात् ॥अप्_221ब्.023च्द्।
श्रियः सम्पूजनङ्कार्यं गृहसम्मार्जनादिकं ।अप्_221ब्.024अब्।
द्वादश्यां कार्त्तिके विष्णुं गां सवत्सां ददेत्तथा ॥अप्_221ब्.024च्द्।
सावित्र्या रक्षितो भर्ता सत्याचारव्रतेन च(2) ।अप्_221ब्.025अब्।
सप्तम्यां मार्गशीर्षे तु सिते ऽभ्यर्च्य दिवाकरं ॥अप्_221ब्.025च्द्।
पुत्रानाप्नोति च स्त्रीह नात्र कार्या विचारणा ॥26॥अप्_221ब्.026अब्।
:ए इत्य् आग्नेये महापुराणे राजधर्मो नाम
एकविंशत्यधिकद्विशततमो ऽध्यायः ॥
:न्
1 तान्न हिंस्याद्यदैव तु इति ज..
2 सत्यवान् सुव्रतेन चेति घ.. , ञ.. च
:प् 308
% छप्तेर् {222}
:श् अथ द्वाविंशत्यधिकद्विशततमो ऽध्यायः
राजधर्माः
पुष्कर उवाच
ग्रामस्याधिपतिं कुर्याद्दशग्रामाधिपं नृपः ।अप्_222.001अब्।
शतग्रामाधिपञ्चान्यं तथैव विषयेश्वरं
तेषां भोगविभागश् च भवेत् कर्मानुरूपतः ।अप्_222.002अब्।
नित्यमेव तथा कार्यं तेषाञ्चारैः परीक्षणं
ग्रामे दोषान् समुत्पन्नान् ग्रामेशः प्रसमं नयेत् ।अप्_222.003अब्।
अशक्तो दशपालस्य स तु गत्वा निवेदयेत्
श्रुत्वापि दशपालो ऽपि तत्र युक्तिमुपाचरेत् ।अप्_222.004अब्।
वित्ताद्याप्नोति राजा वै विषयात्तु सुरक्षितात्
धनवान्धर्ममाप्नोति धनवान् काममश्नुते ।अप्_222.005अब्।
उच्छिद्यन्ते विना ह्य् अर्थैः(1) क्रिया ग्रीष्मे सरिद्यथा
विशेषो नास्ति लोकेषे पतितस्याधनस्य च ।अप्_222.006अब्।
पतितान्न तु गृह्णन्ति दरिद्रो न प्रयच्छति
धनहीनस्य भार्यापि नैका स्यादुपवर्तिनी(2) ।अप्_222.007अब्।
राष्ट्रपीडाकरो राजा नरके वसते चिरं
नित्यं राज्ञा तथा भाव्यं गर्भिणी सहधर्मिणी ।अप्_222.008अब्।
यहा स्वं सुखमुत्सृज्य गर्भस्य सुखमावहेत्(3)
:न्
1 विना ह्य् अर्थमिति घ.. , ञ.. च
2 नैव स्याद्वशवर्तिनीति ख.. , ट.. च । नैव स्याद्वशवर्तिनीति घ.. , ज..
, ञ.. च
3 सुखमाहरेदिति ज.. , ट.. च
:प् 309
किं यज्ञैस्तपसा तस्य प्रजा यस्य न रक्षिताः ।अप्_222.009अब्।
सुरक्षिताः प्रजा यस्य स्वर्गस्तस्य गृहोपमः
अरक्षिताः प्रजा यस्य नरकं तस्य मन्दिरं ।अप्_222.010अब्।
राजा षड्भागमादत्ते सुकृताद्दुष्कृतादपि
धर्मागमो रक्षणाच्च पापमाप्नोत्यरक्षणात् ।अप्_222.011अब्।
सुभगा विटभीतेव राजवल्लभतस्करैः
भक्ष्यमाणाः प्रजा रक्ष्याः कायस्थैश् च विशेषतः ।अप्_222.012अब्।
रक्षिता तद्भयेभ्यस्तु राज्ञो भवति सा प्रजा(1)अप्_222.012च्द्।
अरक्षिता सा भवति तेषामेवेह भोजनं ।अप्_222.013अब्।
दुष्टसम्मर्दनं कुर्याच्छास्त्रोक्तं करमाददेत्(2)
कोषे प्रवेशयेदर्धं नित्यञ्चार्धं द्विजे ददेत्(3) ।अप्_222.014अब्।
निधिं द्विजोत्तमः प्राप्य गृह्णीयात्सकलं तथा
चतुर्थमष्टमं भागं तथा षोडशमं द्विजः ।अप्_222.015अब्।
वर्णक्रमेण दद्याच्च निधिं पात्रे तु धर्मतः
अनृतन्तु वदन् दण्ड्यः(4) सुवित्तस्यांशमष्टमं ।अप्_222.016अब्।
प्रणष्टस्वामिकमृक्थं राजात्र्यब्दं निधापयेत्
अर्वाक् त्र्यब्दाद्धरेत् स्वामी परेण नृपतिर्हरेत् ।अप्_222.017अब्।
ममेदमिति यो ब्रूयात् सो ऽर्थयुक्तो यथाविधि
सम्पाद्य रूपसङ्ख्यादीन् स्वामी तद् द्रव्यमर्हति ।अप्_222.018अब्।
:न्
1 सत्प्रजा इति घ.. , ञ.. च
2 सुभगा विटभीतेवेत्यादिः, करमाददेदित्यन्तः पाठः झ..
पुस्तके नास्ति
3 द्विजे ऽर्पयेदिति ञ.. , ट.. च
4 अमृतं वदतो ग्राह्यमिति ट..
:प् 310
बालदायादिकमृक्थं(1) तावद्राजानुपालयेत्
यावत्स्यात्स समावृत्तो यावद्वातीतशैशवः ।अप्_222.019अब्।
बालपुत्रासु चैवं स्याद्रक्षणं निष्कलासु च
पतिव्रतासु च स्त्रीषु विधबास्वातुरासु च ।अप्_222.020अब्।
जीवन्तीनान्तु तासां ये संहरेयुः स्ववान्धवाः
ताञ्छिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः ।अप्_222.021अब्।
सामान्यतो हृतञ्चौरैस्तद्वै दद्यात् स्वयं नृपः
चौररक्षाधिकारिभ्यो राजापि हृतमाप्नुयात् ।अप्_222.022अब्।
अहृते यो हृतं ब्रूयान्निःसार्यो दण्ड्य एव सः
न तद्राज्ञा प्रदातव्यं गृहे यद् गृहगैर् हृतं ।अप्_222.023अब्।
स्वराष्ट्रपण्यादादद्याद्राजा विंशतिमं द्विज
शुल्कांशं परदेशाच्च क्षयव्ययप्रकाशकं ।अप्_222.024अब्।
ज्ञात्वा सङ्कल्पयेच्छुल्कं लाभं वणिग्यथाप्नुयात्
विंशांशं लाभमादद्याद्दण्डनीयस्ततो ऽन्यथा ।अप्_222.025अब्।
स्त्रीणां प्रव्रजितानाञ्च(2) तरशुल्कं विवर्जयेत्
तरेषु दासदोषेण नष्टं दासांस्तु दापयेत् ।अप्_222.026अब्।
शूकधान्येषु षड्भागं शिम्बिधान्ये तथाष्टमं
राजा वन्यार्थमादद्याद्देशकालानुरूपकं ।अप्_222.027अब्।
पञ्चषड्भागमादद्याद् राजा पशुहिरण्ययोः
गन्धौषधिरसानाञ्च पुष्पमूलफलस्य च ।अप्_222.028अब्।
:न्
1 बालदायादिकं युक्तमिति ख.. , ग.. , घ.. , ञ.. च
2 स्त्रीणाञ्चैव द्विजातीनामिति ट..
:प् 311
पत्रशाकतृणानाञ्च वंशवैणवचर्मणां
वैदलानाञ्च भाण्डानां सर्वस्याश्ममयस्य च ।अप्_222.029अब्।
षड्भागमेव चादद्यान् मधुमांसस्य सर्पिषः
म्रियन्नपि न चादद्याद् ब्राह्मणेभ्यस् तथा करं ।अप्_222.030अब्।
यस्य राज्ञस्तु विषये श्रोत्रियः सीदति क्षुधा
तस्य सीदति तद्राष्ट्रं व्याधिदुर्भिक्षतस्करैः ।अप्_222.031अब्।
श्रुतं वृत्तन्तु विज्ञाय वृत्तिं तस्य प्रकल्पयेत्
रक्षेच्च सर्वतस्त्वेनं पिता पुत्रमिवौरसं ।अप्_222.032अब्।
संरक्ष्यमणो राज्ञा यः कुरुते धर्ममन्वहं
तेनायुर्वर्धते राज्ञो द्रविणं राष्ट्रमेव च ।अप्_222.033अब्।
कर्म कुर्युर् नरेन्द्रस्य मासेनैकञ्च(1) शिल्पिनः
भुक्तमात्रेण ये चान्ये स्वशरीरोपजीयिनः ॥34
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0