भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 220

220.001

:ए इत्य् आग्नेये महापुराणे अभिषेकमन्त्रा
नामोनविंशत्यधिकद्विशततमो ऽध्यायः ॥
:न्
1 अभिषिञ्चन्तु पान्त चेति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ट..
च
:प् 301
% छप्तेर् {220}
:श् अथ विंशत्यधिकद्विशततमो ऽध्यायः
सहायसम्पत्तिः
पुष्कर उवाच
सो ऽभिषिक्तः सहामात्यो जयेच्छत्रून्नृपोत्तमः ।अप्_220.001अब्।
राज्ञा सेनापतिः कार्यो ब्राह्मणः क्षत्रियो ऽथ वा

220.002

कुलीनो नीतिशास्त्रज्ञः प्रतीहारश् च नीतिवित् ।अप्_220.002अब्।
दूतश् च प्रियवादी स्यादक्षीणो ऽतिबलान्वितः

220.003

ताम्बूलधारी ना स्त्री वा भक्तः क्लेशसहप्रियः ।अप्_220.003अब्।
सान्धिविग्रहिकः कार्यः षाड्गुण्यादिविशारदः

220.004

खड्गधारी रक्षकः स्यात्दारथिः स्याद्बलादिवित् ।अप्_220.004अब्।
सूदाध्यक्षो हितो विज्ञो महानसगतो हि सः

220.005

सभासदस्तु धर्मज्ञा लेखको ऽक्षरविद्धितः ।अप्_220.005अब्।
आह्वानकालविज्ञाः स्युर्हिता दौवारिका जनाः

220.006

रत्नादिज्ञो धनाध्यक्षः अनुद्वारे हितो नरः ।अप्_220.006अब्।
स्यादायुर्वेदविद्वैद्यो गजध्यक्षो ऽथ हयादिवित्

220.007

जितश्रमो गजारोहो हयाध्यक्षो हयादिवत् ।अप्_220.007अब्।
दुर्गाध्यक्षो हितो धीमान् स्थपतिर्वास्तुवेदवित्

220.008

यन्त्रमुक्ते पाणिमुक्ते अमुक्ते मुक्तधारिते ।अप्_220.008अब्।
अस्त्राचार्यो नियुद्धे च कुशलो नृपतेर्हितः

220.009

वृद्धश्चान्तःपुराध्यक्षः पञ्चाशद्वार्षिकाःस्त्रियः ।अप्_220.009अब्।
:प् 302
सप्तत्यव्दास्तु पुरुषाश् चरेयुः सर्वकर्मसु

220.010

जाग्रत्स्यादायुधागारे ज्ञात्वा वृत्तिर्विधीयते ।अप्_220.010अब्।
उत्तमाधममध्यानि बुद्ध्वा कर्माणि पार्थिवः

220.011

उत्तमाधममध्यानि पुरुषाणि नियोजयेत् ।अप्_220.011अब्।
ज्येच्छुः पृथिवीं राजा सहायाननयोद्धितान्

220.012

धर्मिष्ठान् धर्मकायेषु शूरान् सङ्ग्रामकर्मसु ।अप्_220.012अब्।
निपुणानर्थकृत्येषु(1) सर्वत्र च तथा शुचीन्

220.013

स्त्रीषु षण्डान्नियुञ्जीत तीक्ष्णान् दारुणकर्मसु ।अप्_220.013अब्।
यो यत्र विदितो राज्ञा शुचित्वेन तु तन्नरं

220.014

धर्मे चार्थे च कामे च नियुञ्जीताधमे ऽधमान् ।अप्_220.014अब्।
राजा यथार्हं कुर्याच्च उपाधाभिः परीक्षितान्

220.015

समन्त्रो च यथान्यायात् कुर्याद्धस्तिवनेचरान् ।अप्_220.015अब्।
तत्पदान्वेषणे यत्तानध्यक्षांस्तत्र कारयेत्

220.016

यस्मिन् कर्मणि कौशल्यं यस्य तस्मिन् नियोजयेत् ।अप्_220.016अब्।
पितृपैतामहान् भृत्यान् सर्वकर्मसु योजयेत्

220.017

विना दायादकृत्येषु तत्र ते हि समागताः ।अप्_220.017अब्।
परराजगृहात् प्राप्तान् जनान् संश्रयकाम्यया(2)

220.018

दुष्टानप्यथ वादुष्टान् संश्रयेत प्रयत्नतः ।अप्_220.018अब्।
दुष्टं ज्ञात्वा विश्वसेन्न तद्वृत्तिं वर्तयेद्वशे

220.019

देशान्तरागतान् पार्श्वे चारैज्ञात्वा हि पूजयेत् ।अप्_220.019अब्।
शत्रवो ऽग्निवर्षं सर्पो निस्त्रिंशमपि चैकतः

220.020

:न्
1 रिपननर्थकृत्येष्विति ख..
2 जनानाश्रयकाम्ययेति ख..
:प् 303
भृत्या वशिष्टं विज्ञेयाः कुभृट्याश् च तथैकतः ।अप्_220.020अब्।
चारचक्षुर्भवेद्राजा नियुञ्जीत सदाचरान्

220.021

जनस्याविहितान् सौम्यांस् तथाज्ञातान् परस्परं ।अप्_220.021अब्।
वणिजो मन्त्रकुशलान् सांवत्सरचिकित्सकान्

220.022

तथा प्रव्रजिताकारान् बलाबलविवेकिनः ।अप्_220.022अब्।
नैकस्य राजा श्रद्दध्याच्छ्रद्दध्याद् बहुवाक्यतः

220.023

रागापरागौ भृत्यानां जनस्य च गुणागुणान् ।अप्_220.023अब्।
शुभानामशुभानाञ्च ज्ञानङ्कुर्याद्वशाय च

220.024

अनुरागकरं कर्म चरेज्जह्माद्विरागजं ।अप्_220.024अब्।
जनानुरागया लक्ष्म्या राजा स्याज्जनरञ्जनात्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc