अग्नि पुराण · अध्याय 219
:ए इत्य् आग्नेये महापुराणे राजाभिषेको नाम
अष्टादशाधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {219}
:श् अथोनविंशाधिकद्विशततमो ऽध्यायः
अभिषेकमन्त्राः
पुष्कर उवाच
राजदेवाद्यभिषेकमन्त्रान्वक्ष्ये ऽघमर्दनान् ।अप्_219.001अब्।
कुम्भात् कुशोदकैः सिञ्चेत्तेन सर्वं हि सिद्ध्यति
:प् 294
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।अप्_219.002अब्।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः
भवन्तु विजयायैते इन्द्राद्या दशदिग्गताः ।अप्_219.003अब्।
रुद्रो धर्मो मनुर्दक्षो रुचिः श्रद्धा च सर्वदा
भृगुरत्रिर्वसिष्ठश् च सनकश् च सनन्दनः ।अप्_219.004अब्।
सनत्कुमारो ऽङ्गिराश् च पुलस्त्यः पुलहः क्रतुः
मरीचिः कश्यपः पान्तु प्रजेशाः पृथिवीपतिः ।अप्_219.005अब्।
प्रभासुरा वहिर्षद अग्निष्वात्ताश् च पान्तु ते
क्रव्यादाश्चोपहूताश् च आज्यपाश् च सुकालिनः ।अप्_219.006अब्।
अग्निभिश्चाभिषिञ्चन्तु लक्ष्म्याद्या धर्मवल्लभाः
आदित्याद्याः कश्यपस्य बहुपुत्रस्य(1) वल्लभाः ।अप्_219.007अब्।
कृशाश्वस्याग्निपुत्रस्य भार्याश्चारिष्ठनेमिनः
अश्विन्याद्याश् च चन्द्रस्य पुलहस्य(2) तथा प्रियाः ।अप्_219.008अब्।
भूता च कपिशा दंष्ट्री सुरसा सरमा दनुः
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा ।अप्_219.009अब्।
पत्न्यस्त्वामभिषिञ्चन्तु अरुणश्चार्कसारथिः
आयतिर् नियतीरात्रिर् निद्रा लोकस्थितौ स्थिताः ।अप्_219.010अब्।
उमा मेना शची पान्तु धूमोर् नानिरृतिर्जये
गौरी शिवा च ऋद्धिश् च वेला चैव नड्वला ।अप्_219.011अब्।
अशिक्नी च(3) तथा ज्योत्स्ना देवपत्न्यो वनस्पतिः
महाकल्पश् च कल्पश् च मन्वन्तरयुगानि च ।अप्_219.012अब्।
:न्
1 देवपुत्रस्येति ज..
2 पुलस्त्यस्येति ग.. , घ.. , ज.. च
3 असिता चेति ङ..
:प् 295
संवत्सराणि वर्षाणि पान्तु त्वामयनद्वयं
ऋतवश् च तथा मासा पक्षा रात्र्यहनी तथा ।अप्_219.013अब्।
सन्ध्यातिथिमुहूर्ताच्च कालस्यावयवाकृतिः
सूर्याद्याश् च ग्रहाः पान्तु मनुः स्वायम्भुवादिकः ।अप्_219.014अब्।
स्वायम्भुवः स्वारोचिष औत्तमिस्तामसो मनुः
रैवतश्चाक्षुषः षष्ठो वैवस्वत इहेरितः ।अप्_219.015अब्।
सावर्णो ब्रह्मपुत्रश् च धर्मपुत्रश् च रुद्रजः
दक्षजो रौच्यभौत्यौ च मनवस्तु चतुर्दश ।अप्_219.016अब्।
विश्वभुक् च विपश्चिच्च सुचित्तिश् च शिखी विभुः
मनोजवस्तथौजस्वी बलिरद्भुतशान्तयः ।अप्_219.017अब्।
वृषश् च ऋतधामा च दिवस्पृक् कविरिन्द्रकः
रेवन्तश् च कुमारश् च तथा वत्सविनायकः ।अप्_219.018अब्।
वीरभद्रश् च नन्दी च विश्वकर्मा पुरोजवः ॥अप्_219.018च्ब्
एते त्वामभिषिञ्चन्तु सुरमुख्याः समागताः ।अप्_219.019अब्।
नासत्यौ देवभिषजौ ध्रुवाद्या वसवो ऽष्ट च
दश चाङ्गिरसो वेदास्त्वाभिषिञ्चन्तु सिद्धये ।अप्_219.020अब्।
आत्मा ह्य् आयुर्मनो दक्षो मदः प्राणस्तथैव च
हविष्मांश् च गरिष्ठश् च ऋतः सत्यश् च पान्तु वः ।अप्_219.021अब्।
क्रतुर्दक्षो वसुः सत्यः कालकामो धुरिर्जये
पुरूरवा माद्रवाश् च विश्वेदेवाश् च रोचनः ।अप्_219.022अब्।
अङ्गारकाद्याः सूर्यस्त्वान्निरृतिश् च तथा यमः
अजैकपादहिर्व्रध्रो धूमकेतुश् च रुद्रजाः(1) ।अप्_219.023अब्।
:न्
1 रुद्रका इति ग.. , घ.. , ङ.. , ञ.. च
:प् 296
भरतश् च तथा मृत्युः कापालिरथ किङ्किणिः
भवनो भावनः पान्तु स्वजन्यः स्वजनस् तथा(1) ।अप्_219.024अब्।
क्रतुश्रवाश् च मूर्धा च याजनो ऽभ्युशनास् तथा
प्रसवश्चाव्ययश् चैव दक्षश् च भृगवः सुराः ।अप्_219.025अब्।
मनो ऽनुमन्ता प्राणश् च नवोपानश् च वीर्यवान्
वीतिहोत्रो नयः साध्यो हंसो नारायणो ऽवतु ।अप्_219.026अब्।
विभुश् चैव प्रभुश् चैव देवश्रेष्ठा जगद्धिताः
धाता मित्रो ऽर्यमा पूषा शक्रो ऽथ वरुणो भगः ।अप्_219.027अब्।
त्वष्टा विवस्वान् सविता विष्णुर्द्वादश भास्कराः
एकज्योतिश् च द्विज्योतिस्त्रिश् चतुर्ज्योतिरेव च ।अप्_219.028अब्।
एकशक्रो द्विशक्रश् च त्रिशक्रश् च महाबलः
इन्द्रश् च मेत्यादिशतु ततः प्रतिमकृत्तथा ।अप्_219.029अब्।
मितश् च सम्मितश् चैव अमितश् च महाबलः
ऋतजित् सत्यजिच्चैव सुषेणः सेनजित्तथा ।अप्_219.030अब्।
अतिमित्रो ऽनुमित्रश् च पुरुमित्रो ऽपराजितः
ऋतश् च ऋतवाग् धाता विधाता(2) धारणो ध्रुवः ।अप्_219.031अब्।
विधारणो महातेजा वासवस्य परः सखा
ईदृक्षश्चाप्यदृक्षश् च(3) एतादृगमिताशनः ।अप्_219.032अब्।
क्रीडितश् च सदृक्षश् च सरभश् च महातपाः
:न्
1 सुजनस्तथेति ख.. , घ.. च
2 विश्वात्मेति ङ..
3 ईदृक्षश्चान्यदृक्षश्चेति छ..
:प् 297
धर्ता धुर्यो धुरिर्भीम अभिमुक्तः क्षपात्सह(1) ।अप्_219.033अब्।
धृतिर्वसुरनाधृष्यो(2) रामः कामो जयो विराट्
देवा एकोनपञ्चाशन्मरुतस्त्वामवन्तु ते ।अप्_219.034अब्।
चित्राङ्गदश्चित्ररथः चित्रसेनश् च वै कलिः
उर्णायुरुग्रसेनश् च धृतराष्ट्रश् च नन्दकः ।अप्_219.035अब्।
हाहा हूहूर्नारदश् च विश्वावसुश् च तुम्बुरुः
एते त्वामभिषिञ्चन्तु गन्धर्वा विजयाय ते ।अप्_219.036अब्।
पान्तु ते कुरुपा मुख्या दिव्याश्चाप्सरसाङ्गणाः
अनवद्या सुकेशी च मेनकाः सह जन्यया(3) ।अप्_219.037अब्।
क्रतुस्थला घृताची च विश्वाची पुञ्जिकस्थला
प्रम्लोचा चोर्वशी रम्भा पञ्चचूडा तिलोत्तमा ।अप्_219.038अब्।
चित्रलेखा लक्ष्मणा च पुण्डरीका च वारुणी
प्रह्लादो विरोचनो ऽथ बलिर्वाणो ऽथ तत्सुताः ।अप्_219.039अब्।
एते चान्ये ऽभिषिञ्चन्तु दानवा राक्षसास् तथा
हेतिश् चैव प्रहेतिश् च विद्युत्स्फुर्जथुरग्रकाः ।अप्_219.040अब्।
यक्षः सिद्धार्मकः पातु माणिभद्रश् च नन्दनः
पिङ्गाक्षो द्युतिमांश् चैव पुष्पवन्तो जयावहः ।अप्_219.041अब्।
शङ्खः पद्मश् च मकरः कच्छपश् च निधिर्जये
पिशाचा ऊर्ध्वकेशाद्या भूता भूम्यादिवासिनः ।अप्_219.042अब्।
महाकालं पुरस्कृत्य नरसिंहञ्च मातरः
:न्
1 अभिमुक्तः क्षमासहेति ङ..
2 अनाधृष्त इति ग.. , घ.. ,ञ.. च
3 सह कन्ययेति ज..
:प् 298
गुहः स्कन्दो विशाखस्त्वान्नैगमेयो ऽभिषिञ्चतु ।अप्_219.043अब्।
डाकिन्यो याश् च योगिन्यः खेचरा भूचराश् च याः
गरुडश्चारुणः पान्तु सम्पातिप्रमुखाः खगाः ।अप्_219.044अब्।
अनन्ताद्या महानागाः शेषवासुकितक्षकाः
ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ।अप्_219.045अब्।
शङ्खः कर्कोटकश् चैव धृतराष्ट्रो धनञ्जयः
कुमुदैर् आवणौ पद्मः पुष्पदन्तो ऽथ वामनः ।अप्_219.046अब्।
सुप्रतीको ऽञ्जनो नागाः पान्तु त्वां सर्वतः सदा
पैतामहस् तथा हंसो वृषभः शङ्करस्य च ।अप्_219.047अब्।
दुर्गासिंहश् च पान्तु त्वां यमस्य महिषस् तथा
उच्चैःश्रवाश्चाश्वपतिस् तथा धन्वन्तरिः सदा ।अप्_219.048अब्।
कौस्तुभः शङ्कराजश् च वज्रं शूलञ्च चक्रकं
नन्दको ऽस्त्राणि रक्षन्तु धर्मश् च व्यवसायकः ।अप्_219.049अब्।
चित्रगुप्तश् च दण्डश् च पिङ्गलो मृत्युकालकौ
बालखिल्यादिमुनयो व्यासवाल्मीकिमुख्यकाः ।अप्_219.050अब्।
पृथुर्दिलीपो भरतो दुष्यन्तः शक्रजिद्वली(1)
मल्लः ककुत्स्थश्चानेन युवनाश्वो जयद्रथः ।अप्_219.051अब्।
मान्धाता मुचुकुन्दश् च पान्तु त्वाञ्च पुरूरवाः
वास्तुदेवाः पञ्चविंशत्तत्त्वानि विजयाय ते ।अप्_219.052अब्।
रुक्मभौमः शिलाभौमः पतालो नीलमूर्तिकः(2)
:न्
1 शत्रुजिद्वलो इति क.. , ख.. च
2 नीलमृत्तिक इति ख.. , घ.. , छ.. , ज.. , ञ.. , ट.. च । नीलमूर्धज इति
ङ..
:प् 299
पीतरक्तः क्षितिश् चैव श्वेतभौमो रसातलं ।अप्_219.053अब्।
भूल्लोको ऽथ भुवर्मुख्या जम्वूद्वीपादयः श्रिये
उत्तराः कुरवः पान्तु रम्या हिरण्यकस् तथा(1) ।अप्_219.054अब्।
भद्राश्वः केतुमालश् च वर्षश् चैव वलाहकः
हरिवर्षः किम्पुरुष इन्द्रद्वीपः कशेरुमान् ।अप्_219.055अब्।
ताम्रवर्णो गभस्तिमान् नागद्वीपश् च सौम्यकः
गन्धर्वो वरुणो यश् च नवमः पान्तु राज्यदाः ।अप्_219.056अब्।
हिमवान् हेमकूटश् च निषधो नील एव च
श्वेतश् च शृङवान् मेरुर्माल्यवान् गन्धमादनः ।अप्_219.057अब्।
महेन्द्रो मलयः सह्यः शक्तिमानृक्षवान् गिरिः
विन्ध्यश् च पारिपात्रश् च गिरयः शान्तिदास्तु ते ।अप्_219.058अब्।
ऋग्वेदाद्याः षडङ्गानि इतिहासपुराणकं
आयुर्वेदश् च गन्धर्वधनुर्वेदोपवेदकाः ।अप्_219.059अब्।
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः
छन्दोगानि च वेदाश् च मीमांसा न्यायविस्तरः ।अप्_219.060अब्।
धर्मशास्त्रं पुराणञ्च विद्या ह्य् एताश् चतुर्दश
साङ्ख्यं योगः पाशुपतं वेदा वै पञ्चरात्रकं ।अप्_219.061अब्।
कृतान्तपञ्चकं ह्य् एतद् गायत्री च शिवा तथा
दुर्गा विद्या च गान्धारी पान्तु त्वां शान्तिदाश् च ते ।अप्_219.062अब्।
लवणेक्षुसुरासर्पिदधिदुग्धजलाब्धयः
चत्वारः सागराः पान्तु तीर्थानि विविधानि च ।अप्_219.063अब्।
:न्
1 हैरण्यकस्तथेति घ.. , ङ.. , ज.. च । हिरण्मयश्तथेति छ..
:प् 300
पुष्करश् च प्रयागश् च प्रभासो नैमिषः परः
गयाशीर्षो ब्रह्मशिरस्तीर्थमुत्त्रमानसं ।अप्_219.064अब्।
कालोदको नन्दिकुण्डस्तीर्थं पञ्चनदस् तथा
भृगुतीर्थं प्रभासञ्च तथा चामरकण्टकं ।अप्_219.065अब्।
जम्बुमार्गश् च विमलः कपिलस्य तथाश्रमः
गङ्गाद्वारकुशावर्तौ विन्ध्यको नीलपर्वतः ।अप्_219.066अब्।
वराहपर्वतश् चैव तीर्थङ्कणखलं तथा
कालञ्जरश् च केदारो रुद्रकोटिस्तथैव च ।अप्_219.067अब्।
वाराणसी महातीर्थं वदर्याश्रम एव च
द्वारका श्रीगिरिस्तीर्थं तीर्थञ्च पुरुषोत्तमः ।अप्_219.068अब्।
शालग्रामोथ वाराहः सिन्धुसागरसङ्गमः
फल्गुतीर्थं विन्दुसरः करवीराश्रमस् तथा ।अप्_219.069अब्।
नद्यो गङ्गासरस्वत्यः शतदुर्गण्डकी तथा
अच्छोदा च विपाशा च वितस्ता देविका नदी ।अप्_219.070अब्।
कावेरी वरुणा चैव निश् चरा गोमती नदी
पारा चर्मण्वती रूपा मन्दाकिनी महानदी ।अप्_219.071अब्।
तापी पयोष्णी वेणा च गौरी वैतरणी तथा
गोदावरी भीमरथी तुङ्गभद्रा प्रणी तथा ।अप्_219.072अब्।
चन्द्रभागा शिवा गौरी अभिषिञ्चन्तु पान्तु वः(1)
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0