अग्नि पुराण · अध्याय 218
:ए इत्य् आग्नेये महापुराणे गायत्रीनिर्वाणं नाम
सप्तदशाधिकद्विशततमो ऽध्यायः ॥
:न्
1 तत्त्वलिङ्गायेति ख.. , छ.. च
2 नम इन्द्रियलिङ्गायेत्यादिः सत्त्वलिङ्गाय वै नम इत्य् अन्तः
पाठः ज.. पुस्तके नास्ति
3 नमो वागूर्ध्वलिङ्गायेति घ..
4 नमस्ते सर्वलिङ्गाय नामलिङ्गायेति ख.. , छ.. च
5 नमो ऽनागतलिङ्गायेत्यादिः देवानुगतलिङ्गिने इत्य् अन्तः
पाठः ज.. पुस्तके नास्ति
6 परमात्मा परंविभो इति ज..
:प् 290
% छप्तेर् {218}
:श् अथाष्टादशाधिकद्विशततमो ऽध्यायः
राजाभिषेककथनं
अग्निर् उवाच
पुष्करेण च रामाय राजधर्मं हि पृच्छते ।अप्_218.001अब्।
यथादौ कथितं तद्वद्वशिष्ट कथयामि ते
पुष्कर उवाच
राजधर्मं प्रवक्ष्यामि सर्वस्मात् राजधर्मतः ।अप्_218.002अब्।
राजा भवेत्(1) शत्रुहन्ता प्रजापालः सुदण्डवान्
पालयिष्यति वः सर्वान् धर्मस्थान् व्रतमाचरेत् ।अप्_218.003अब्।
संवत्सरं स वृणुयात् पुरोहितमथ द्विजं(2)
मन्त्रिणश्चाखिलात्मज्ञान्महिषीं धर्मलक्षणां ।अप्_218.004अब्।
संवत्सरं नृपः काले ससम्भारो ऽभिषेचनं
कुर्यान्मृते नृपे नात्र कालस्य नियमः स्मृतः ।अप्_218.005अब्।
तिलैः सिद्धार्थकैः स्नानं सांवत्सरपुरोहितौ
घोषयित्वा जयं राज्ञो राजा भद्रासने स्थितः ।अप्_218.006अब्।
अभयं घोषयेद् दुर्गान्मोचयेद्राज्यपालके
पुरोधसाभिषेकात् प्राक् कार्यैन्द्री शान्तिरेव च ।अप्_218.007अब्।
उपवास्यभिषेकाहे वेद्यग्नौ जुहुयान्मनून्(3)
:न्
1 राजा हरिति छ.. , ख.. , घ.. , ज.. , ञ.. , ट.. च
2 पुरोहितमथर्त्विजमिति ख.. , घ.. , छ.. , ज.. , ट.. च
3 जुहुयादमूनिति ङ..
:प् 291
वैष्णवानैन्द्रमन्त्रांस्तु सावित्रीन् वैश्वदैवतान् ।अप्_218.008अब्।
सौम्यान् स्वस्त्ययनं शर्मायुष्याभयदान्मनून्
अपराजिताञ्च कलसं वह्नेर्दक्षिणपार्श्वगं ।अप्_218.009अब्।
सम्पातवन्तं हैमञ्च पूजयेद्गन्धपुष्पकैः
प्रदक्षिणावर्तशिखस्तप्तजाम्बूनदप्रभः ।अप्_218.010अब्।
रथौघमेघनिर्घोषो विधूमश् च हुताशनः
अनुलोमः सुगन्धश् च स्वस्तिकाकारसन्निभः ।अप्_218.011अब्।
प्रसन्नार्चिर्महाज्वालः स्फुलिङ्गरहितो हितः
न व्रजेयुश् च मध्येन मार्जारमृगपक्षिणः ।अप्_218.012अब्।
पर्वताग्रमृदा तावन्मूर्धानं शोधयेन्नृपः
वल्मीकाग्रमृदा कर्णौ वदनं केशवालयात् ।अप्_218.013अब्।
इन्द्रालयमृदा(1) ग्रीवां हृदयन्तु नृपाजिरात्
करिदन्तोद्धृतमृदा दक्षिणन्तु तथा भुजं ।अप्_218.014अब्।
वृषशृङ्गोद्धृतमृदा वामञ्चैव तथा भुजं
सरोमृदा तथा पृष्ठमुदरं सङ्गमान् मृदा ।अप्_218.015अब्।
नदीतटद्वयमृदा पार्श्वे संशोधयेत्तथा(2)
वेश्याद्वारमृदा राज्ञः कटिशौचं विधीयते ।अप्_218.016अब्।
यज्ञस्थानात्तथैवोरू गोस्थानाज्जानुनी तथा
अश्वस्थानात्तथा जङ्घे रथचक्रमृदाङ्घ्रिके ।अप्_218.017अब्।
मूर्धानं पञ्चगव्येन भद्रासनगतं नृपं
अभिषिञ्चेदमात्यानां चतुष्टयमथो घटैः ।अप्_218.018अब्।
:न्
1 चन्द्रालयमृदेति ज..
2 सरोमृदेत्यादिः संशोधयेत्तथेत्यन्तः पाठः ज.. पुस्तके
नास्ति
:प् 292
पूर्वतो हेमकुम्भेन घृतपूर्णेन ब्राहणः
रूप्यकुम्भेन याम्ये च क्षीरपूर्णेन क्षत्रियः ।अप्_218.019अब्।
दध्ना च ताम्रकुम्भेन वैश्यः पश्चिमगेन च
मृण्मयेन जलेनोदक् शूद्रामात्यो ऽभिषिचयेत् ।अप्_218.020अब्।
ततो ऽभिषेकं नृपतेर्बह्वृचप्रवरो द्विजः
कुर्वीत मधुना विप्रश्छन्दोगश् च कुशोदकैः ।अप्_218.021अब्।
सम्पातवन्तं कलशं तथा गत्वा पुरोहितः
विधाय वह्निरक्षान्तु सदस्येषु यथाविधि ।अप्_218.022अब्।
राजश्रियाभिषेके च ये मन्त्राः परिकीर्तिताः
तैस्तु दद्यान्महाभाग ब्राह्मणानां स्वनैस् तथा ।अप्_218.023अब्।
ततः पुरोहितो गच्छेद्वेदिमूलन्तदेव तु(1)
शतच्छिद्रेण पात्रेण सौवर्णेनाभिषेचयेत् ।अप्_218.024अब्।
या ओषधीत्योषधीभीरथेत्युक्त्वेति गन्धकैः
पुष्पैः पुष्पवतीत्येव ब्राह्मणेति च वीजकैः(2) ।अप्_218.025अब्।
रत्नैर् आशुः शिशानश् च ये देवाश् च कुशोदकैः
यजुर्वेद्यथर्ववेदी(3) गन्धद्वारेति संस्पृशेत् ।अप्_218.026अब्।
शिरः कण्ठं रोचनया सर्वतीर्थोदकैर् द्विजाः
गीतवाद्यादिनिर्घोषैश्चामरव्यजनादिभिः ।अप्_218.027अब्।
सर्वौषधिमयं कुम्भं धारयेयुर्नृपाग्रतः
तं पश्येद्दर्पणं राजा घृतं वै मङ्गलादिकं ।अप्_218.028अब्।
अभ्यर्च्य विष्णुं ब्रह्माणमिन्द्रादींश् च ग्रहेश्वरान्(4)
:न्
1 वेदिमूलन्तथैव तु इरि ख..
2 दीपकैर् इति ङ..
3 यजुर्वेद्यथ ऋग्वेदी इति ङ..
4 ग्रहादिकानिति ख.. , ग.. , घ.. च
:प् 293
व्याघ्रचर्मोत्तरां शय्यामुपविष्टः पुरोहितः ।अप्_218.029अब्।
मधुपर्कादिकं दत्त्वा पट्टबन्धं प्रकारयेत्
राज्ञोमुकुटबन्धञ्च पञ्चचर्मोत्तरं ददेत् ।अप्_218.030अब्।
ध्रुवाद्यैर् इति च विशेद् वृषजं वृषदंशजं
द्वीपिजं सिंहजं व्याघ्रजातञ्चर्म तदासने ।अप्_218.031अब्।
अमात्यसचिवादींश् च प्रतीहारः प्रदर्शयेत्
गोजाविगृहदानाद्यैः सांवत्सरपुरोहितौ ।अप्_218.032अब्।
पूजयित्वा द्विजान् प्रार्च्य ह्य् अन्यभूगोन्नमुख्यकैः
वह्निं प्रदक्षिणीकृत्य गुरुं नत्वाथ पृष्ठतः ।अप्_218.033अब्।
वृषमालभ्य गां वत्सां पूजयित्वाथ मन्त्रितं
अश्वमारुह्य नागञ्च पूजयेत्तं समारुहेत् ।अप्_218.034अब्।
परिभ्रमेद्राजमार्गे बलयुक्तः प्रदक्षिणं
पुरं विशेच्च दानाद्यैः प्रार्च्य सर्वान् विसर्जयेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0