अग्नि पुराण · अध्याय 217
:ए इत्य् आग्नेये महापुराणे गायत्रीनिर्वाणं नाम
षोडशाधिकद्विशततमो ऽध्यायः ॥
:प् 288
% छप्तेर् {217}
:श् अथ सप्तदशाधिकद्विशततमो ऽध्यायः
गायत्रीनिर्वाणं
अग्निर् उवाच
लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ।अप्_217.001अब्।
निर्वाणं(1) परमं ब्रह्म वसिष्ठो ऽन्यश् च शङ्करात्(2)
नमः कनकलिङ्गाय(3) वेदलिङ्गाय वै नमः ।अप्_217.002अब्।
नमः परमलिङ्गाय(4) व्योमलिङ्गाय वै नमः
नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।अप्_217.003अब्।
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः
नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।अप्_217.004अब्।
नमो रहस्यलिङ्गाय सप्तद्वीपोर्धलिङ्गिने
नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।अप्_217.005अब्।
नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः
नमो ऽहङ्कारकिङ्गाय भूतलिङ्गाय वै नमः ।अप्_217.006अब्।
नम इन्द्रियलिङ्गाय नमस्तन्मात्रलिङ्गिने
नमः पुरुषलिङ्गाय भावलिङ्गाय वै नमः ।अप्_217.007अब्।
:न्
1 निर्मलमिति ख..
2 वशिष्तोप्येव शङ्करादिति ख.. , घ.. च
3 कमललिङ्गायेति ट..
4 नमः पवनलिङ्गायेति ख.. , ग.. , घ.. , ङ.. , ट.. च
:प् 289
नमो रजोर्धलिङ्गाय सत्त्वलिङ्गाय(1) वै नमः(2)
नम्स्तेभवलिङ्गाय नमस्त्रैगुण्यलिङ्गिने ।अप्_217.008अब्।
नमो ऽनागतलिङ्गाय तेजोलिङ्गाय वै नमः
नमो वायूर्ध्वलिङ्गाय(3) श्रुतिलिङ्गाय वै नमः ।अप्_217.009अब्।
नमस्ते ऽथर्वलिङ्गाय सामलिङ्गाय(4) वै नमः
नमो यज्ञाङ्गलिङ्गाय यज्ञलिङ्गाय वै नमः ।अप्_217.010अब्।
नमस्ते तत्त्वलिङ्गाय देवानुगतलिङ्गिने(5)
दिश नः परमं योगमपत्यं मत्समन्तथा ।अप्_217.011अब्।
ब्रह्म चैवाक्षयं देव शमञ्चैव परं विभो(6)
अक्षयन्त्वञ्च वंशस्य धर्मे च मतिमक्षयां ।अप्_217.012अब्।
अग्निर् उवाच
वसिष्ठेन स्तुतः शम्भुस्तुष्टः श्रीपर्वते पुरा
वसिष्ठाय वरं दत्त्वा तत्रैवान्तरधीयत ॥13
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0