भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 215

215.001

:ए इत्य् आग्नेये महापुराणे मन्त्रमाहात्म्यं नाम
चतुर्दशाधिकद्विशततमो ऽध्यायः ॥
:प् 281
% छप्तेर् {215}
:श् अथ पञ्चदशाधिकद्विशततमो ऽध्यायः
सन्ध्याविधिः
अग्निर् उवाच
ओङ्कारं यो विजानाति स योगी स हरिः पुमान् ।अप्_215.001अब्।
ओङ्कारमभ्यसेत्तस्मान्मृन्मन्त्रसारन्तु सर्वदं

215.002

सर्वमन्त्रप्रयोगेषु प्रणवः प्रथमः स्मृतः ।अप्_215.002अब्।
तेन सम्परिपूर्णं यत्तत् पूर्णं कर्म नेतरत्

215.003

ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयो ऽव्ययाः ।अप्_215.003अब्।
त्रिपदा चैव सावित्री विज्ञेयं ब्रह्मणी मुखं

215.004

यो ऽधीते ऽहन्यहन्येतास्त्रीणि वर्षाण्यतन्त्रितः ।अप्_215.004अब्।
स ब्रह्मपरमभ्येति वायुभूतः खमूर्तिमान्

215.005

एकाक्षरं परं ब्रह्म प्राणायामपरन्तपः ।अप्_215.005अब्।
सावित्र्यास्तु परन्नास्ति मौनात् सत्यं विशिष्यते

215.006

सप्तावर्ता पापहरा दशभिः प्रापयेद्दिवं ।अप्_215.006अब्।
विंशावर्ता तु सा देवी नयते हीश्वरालयं

215.007

अष्टोत्तरशतं जप्त्वा तीर्णः संसारसागरात् ।अप्_215.007अब्।
रुद्रकुष्माण्डजप्येभ्यो गायत्री तु विशिष्यते

215.008

न गायत्र्याः परञ्जप्यं न व्याहृतिसमं हुतं ।अप्_215.008अब्।
गायत्र्याः पादमप्यर्धमृगर्धमृचमेव वा

215.009

ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च ।अप्_215.009अब्।
गुरुदारागमश् चैव जप्येनैव पुनाति सा

215.010

:प् 282
पापे कृते तिलैर् होमो गायत्रीजप ईरितः ।अप्_215.010अब्।
जप्त्वा सहस्रं गायत्र्या उपवासी स पापहा(1)

215.011

गोघ्नः पितृघ्नो मातृघ्नो ब्रह्महा गुरुतल्पगः ।अप्_215.011अब्।
ब्रह्मघ्नः स्वर्णहारी च सुरापो लक्षजप्यतः

215.012

शुध्यते वाथ वा स्नात्वा शतमन्तर्जले जपेत् ।अप्_215.012अब्।
अपः शतेन पीत्वा तु गायत्र्याः पापहा भवेत्

215.013

शतं जप्ता तु गायत्री पापोपशमनी स्मृता ।अप्_215.013अब्।
सहस्रं शप्ता सा देवी उपपातकनाशिनी

215.014

अभीष्टदा कोटिजप्या देवत्वं राजतामियात् ।अप्_215.014अब्।
ओङ्कारं पूर्वमुच्चार्य भूर्भुवः स्वस्तथैव च

215.015

गायत्री प्रणवश्चान्ते जपे चैवमुदाहृतं ।अप्_215.015अब्।
विश्वामित्र ऋषिच्छन्दो गायत्रं सविता तथा

215.016

देवतोपनये जप्ये विनियोगो हुते तथा ।अप्_215.016अब्।
अग्निर्वायू रविर्विद्युत् यमो जलपतिर्गुरुः

215.017

पर्जन्य इन्द्रो गन्धर्वः पूषा च तदनन्तरं ।अप्_215.017अब्।
मित्रो ऽथ वरुणस्त्वष्टा वसवो मरुतः शशी

215.018

अङ्गिरा विश्वनासत्यौ कस् तथा सर्वदेवताः ।अप्_215.018अब्।
रुद्रो ब्रह्मा च विष्णुश् च क्रमशो ऽक्षरदेवताः

215.019

गयत्र्या जपकाले तु कथिताः पापनाशनाः ।अप्_215.019अब्।
पादाङ्गुष्ठौ च गुल्फौ च नलकौ जानुनी तथा

215.020

जङ्घे शिश्रश् च वृषणौ कटिर् नाभिस्तथोदरं ।अप्_215.020अब्।
:न्
1 उपपातकपापहेति ग.. , घ.. , ङ.. च
:प् 283
स्तनौ च हृदयं ग्रीवा मुखन्तालु च नासिके

215.021

चक्षुषी च भ्रुवोर्मध्यं ललाटं पूर्वमाननं ।अप्_215.021अब्।
दक्षिणोत्तरपार्श्वे द्वे शिर आस्यमनुक्रमात्

215.022

पीतः श्यामश् च कपिलो मरकतो ऽग्निसन्निभः ।अप्_215.022अब्।
रुक्मविद्युद्धूम्रकृष्णरक्तगौरेन्द्रनीलभाः

215.023

स्फाटिकस्वर्णपाण्ड्वाभाः पद्मरागो ऽखिलद्युतिः(1) ।अप्_215.023अब्।
हेमधूम्ररक्तनीलरक्तकृष्णसुवर्णभाः

215.024

शुक्लकृष्णपालाशाभा(2) गायत्र्या वर्णकाः क्रमात् ।अप्_215.024अब्।
ध्यानकाले पापहरा हुतैषा सर्वकामदा

215.025

गायत्र्या तु तिलैर् होमः सर्वपापप्रणाशनः ।अप्_215.025अब्।
शान्तिकामो यवैः कुर्यादायुष्कामो घृतेन च

215.026

सिद्धार्थकैः कर्मसिद्ध्यै पयसा ब्रह्मवर्चसे ।अप्_215.026अब्।
पुत्रकामस् तथा दध्ना धान्यकामस्तु शालिभिः

215.027

क्षीरवृक्षसमिद्धिस्तु ग्रहपीडोपशान्तये ।अप्_215.027अब्।
धनकामस् तथा बिल्वैः श्रीकामः कमलैस् तथा

215.028

आरोग्यकामो दूर्वाभिर्गुरूत्पाते स एव हि ।अप्_215.028अब्।
सौभाग्येच्छुर्गुग्गुलुना विद्यार्थी पायसेन च

215.029

अयुतेनोक्तसिद्धिः स्याल्लक्षेण मनसेप्सितं ।अप्_215.029अब्।
कोट्या ब्रह्मबधान् मुक्तः कुलोद्धारी हरिर्भवेत्

215.030

ग्रहयज्ञमुखो वापि होमो ऽयुतमुखो ऽर्थकृत् ।अप्_215.030अब्।
:न्
1 पद्मरागो ऽमलद्युतिरिति ख.. , छ.. , ज.. , ट.. च
2 शुक्लपद्मपलाशाभेति ङ.. , ञ.. च
:प् 284
आवाहनञ्च गायत्र्यास्तत ओङ्कारमभ्यसेत्

215.031

स्मृत्वौङ्कारन्तु गायत्र्या निबध्नीयाच्छिखान्ततः ।अप्_215.031अब्।
पुनराचम्य हृडयं नाभिं स्कन्धौ च संस्पृशेत्

215.032

प्रणवस्य ऋषिर्ब्रह्मा गायत्रीच्छन्द एव च ।अप्_215.032अब्।
देवो ऽग्निः परमात्मा स्याद्योगो वै सर्वकर्मसु

215.033

शुक्ला चाग्निमुखी देव्या कात्यायनसगोत्रजा ।अप्_215.033अब्।
त्रैलोक्यवरणा दिव्या पृथिव्याधारसंयुता

215.034

अक्षरसूत्रधरा देवी पद्मासनगता शुभा ।अप्_215.034अब्।
ओं तेजो ऽसि महो ऽसि बलमसि भ्राजो ऽसि देवानान्धामनामासि । विश्वमसि
विश्वायुः सर्वमसि सर्वायुः ओं अभि भूः
आगच्छ वरदे देवि जप्ये मे सन्निधौ भव

215.035

व्याहृतीनान्तु सर्वासामृषिरेव प्रजापतिः ।अप्_215.035अब्।
व्यस्ताश् चैव समस्ताश् च ब्राह्ममक्षरमोमिति

215.036

विश्वामित्रो यमदग्निर्भरद्वाजो ऽथ गोतमः ।अप्_215.036अब्।
ऋषिरत्रिर्वशिष्ठश् च काश्यपश् च यथाक्रमं

215.037

अग्निर्वायू रविश् चैव वाक्पतिर्वरुणस् तथा ।अप्_215.037अब्।
इन्द्रो विष्णुर्व्याहृतीनां दैवतानि यथाक्रमं

215.038

गायत्र्यष्टिगनुष्टुप् च वृहती पङ्क्तिरेव च ।अप्_215.038अब्।
त्रिष्टुप् च जगती चेति छन्दांस्याहुरनुक्तामात्

215.039

विनियोगे व्याहृतीनां प्राणायामे च होमके ।अप्_215.039अब्।
आपोहिष्ठेत्यृचा चापान्द्रुपदादीति वा स्मृता(1)

215.040

:न्
1 द्रुपदादीनि वाप्यृचा इति ङ.. , ज.. , ञ.. च
:प् 285
तथा हिरण्यवर्णाभिः पावमानीभिरन्ततः ।अप्_215.040अब्।
विप्रुषो ऽष्टौ क्षिपेदूर्ध्वमाजन्मकृतपापजित्

215.041

अन्तर्जले ऋतञ्चेति उपेत्त्रिरघमर्षणं ।अप्_215.041अब्।
आपोहिष्ठेत्यृचो ऽस्याश् च सिन्धुद्वीप ऋषिः स्मृतः

215.042

ब्रह्मस्नानाय छन्दो ऽस्य गायत्री देवता जलं ।अप्_215.042अब्।
मार्जने विनियोगस्य हयावभृथके क्रतोः

215.043

अघमर्षणसूक्तस्य ऋषिरेवाघमर्षणं ।अप्_215.043अब्।
अनुष्टुप् च भवेच्छन्दो भाववृत्तस्तु दैवतं

215.044

आपीज्योरीरस इति गायत्र्यास्तु शिरः स्मृतं ।अप्_215.044अब्।
ऋषिः प्रजापतिस्तस्य छन्दोहीनं यजुर्यतः

215.045

ब्रह्माग्निवायुसूर्याश् च देवताः परिकीर्तिताः ।अप्_215.045अब्।
प्राणरोधात्तु वायुः स्याद्वायोरग्निश् च जायते

215.046

अग्नेरापस्ततः शुद्धिस्ततश्चाचमनञ्चरेत् ।अप्_215.046अब्।
अन्तश् चरति भूतेषु गुहायां विश्वमूर्तिषु

215.047

तपोयज्ञवषट्कार आपो ज्योती रसो ऽमृतं ।अप्_215.047अब्।
उदुत्यं जातवेदसमृषिः प्रष्कन्न उच्यते

215.048

गायत्रीच्छन्द आख्यातं सूर्यश् चैव तु दैवतम् ।अप्_215.048अब्।
अतिरात्रे नियोगः स्यादग्नीषोमो नियोगकः

215.049

चित्रं देवेति ऋचके ऋषिः कौत्स उदाहृतः ।अप्_215.049अब्।
त्रिष्टुप् छन्दो दैवतञ्च सूर्यो ऽस्याः परिकीर्तितं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc