भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 216

216.001

:ए इत्य् आग्नेये महापुराणे सन्ध्याविधिर्नाम
पञ्चदशाधिकद्विशततमो ऽध्यायः ॥
:प् 286
% छप्तेर् {216}
:श् अथ षोडशाधिकद्विशततमो ऽध्यायः
गायत्रीनिर्वाणं
अग्निर् उवाच
एवं सन्ध्याविधिं कृत्वा गायत्रीञ्च जपेत् स्मरेत् ।अप्_216.001अब्।
गायञ्च्छिष्यान् यतस्त्रायेत् भार्यां प्राणांस्तथैव च(1)

216.002

ततः स्मृतेयं गायत्री सावित्रीय ततो यतः ।अप्_216.002अब्।
प्रकाशनात्सा सवितुर्वाग्रूपत्वात् सरस्वती

216.003

तज् ज्योतिः परमं ब्रह्म भर्गस्तेजो यतः स्मृतं ।अप्_216.003अब्।
भा दीप्ताविति रूपं हि भ्रस्जः पाके ऽथ तत् स्मृतं

216.004

ओषध्यादिकं पचति भ्राजृ दीप्तौ तथा भवेत् ।अप्_216.004अब्।
भर्गः स्याद् भ्राजत इति बहुलं छन्द ईरितं

216.005

वरेण्यं सर्वतेजोभ्यः श्रेष्ठं वै परमं पदं ।अप्_216.005अब्।
स्वर्गापवर्गकामैर् वा वरणीयं सदैव हि

216.006

वृणोतेर्वरणार्थत्वाज्जाग्रत्स्वप्नादिवर्जितं ।अप्_216.006अब्।
नित्यशुद्धबुद्धमेकं सत्यन्तद्धीमहीश्वरं

216.007

अहं ब्रह्म परं ज्योतिर्ध्ययेमहि विमुक्तये ।अप्_216.007अब्।
तज् ज्योतिर्भगवान् विष्णुर्जगज्जन्मादिकारणं

216.008

शिवं केचित् पठन्ति स्म शक्तिरूपं पठन्ति च ।अप्_216.008अब्।
केचित् सूर्यङ्केचिदग्निं वेदगा अग्निहोत्रिणः

216.009

:न्
1 कायान् प्राणांस्तथैव चेति ञ..
:प् 287
अग्न्यादिरूपो विष्णुर्हि वेदादौ ब्रह्म गीयते ।अप्_216.009अब्।
तत् पदं परमं विष्णोर्देवस्य सवितुः स्मृतं

216.010

महदाज्यं सूयते हि स्वयं ज्योतिर्हरिः प्रभुः ।अप्_216.010अब्।
पर्जन्यो वायुरादित्यः शीतोष्णाद्यैश् च पाचयेत्

216.011

अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते ।अप्_216.011अब्।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नन्ततः प्रजाः

216.012

दधातेर्वा धीमहीति मनसा धारयेमहि ।अप्_216.012अब्।
नो ऽस्माकं यश् च भर्गश् च सर्वेषां प्राणिनां धियः

216.013

चोदयात् प्रेरयेद् बुद्धीर्भोक्तॄणां सर्वकर्मसु ।अप्_216.013अब्।
दृष्टादृष्टविपाकेषु विष्णुसूर्याग्निरूपवान्

216.014

ईश्वरप्रेरितो गच्छेत् स्वर्गं वाश्वभ्रमेव वा ।अप्_216.014अब्।
ईशावास्यमिदं सर्वं महदादिजगद्धरिः

216.015

स्वर्गाद्यैः क्रीडते देवो यो ऽहं स पुरुषः प्रभुः ।अप्_216.015अब्।
आदित्यान्तर्गतं यच्च भर्गाख्यं वै मुमुक्षुभिः

216.016

जन्ममृत्युविनाशाय दुःखस्य त्रिविधस्य च ।अप्_216.016अब्।
ध्यानेन पुरुषो ऽयञ्च द्रष्टव्यः सूर्यमण्डले

216.017

तत्त्वं सदसि चिद्ब्रह्म विष्णोर्यत् परमं पदं ।अप्_216.017अब्।
देवस्य सवितुर्भर्गो वरेण्यं हि तुरीयकं

216.018

देहादिजाग्रदाब्रह्म अहं ब्रह्मेति धीमहि ।अप्_216.018अब्।
यो ऽसावादित्यपुरुषः सो ऽसावहमनन्त ओं

216.019

ज्ञानानि शुभकर्मादीन् प्रवर्तयति यः सदा ॥19

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc