भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 214

214.001

:ए इत्य् आग्नेये महापुराणे पृथ्वीदानानि नाम
त्रयोदशाधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {214}
:श् अथ चतुर्दशाधिकद्विशततमो ऽध्यायः
मन्त्रमाहत्म्यकथनं
अग्निर् उवाच
नाडीचक्रं प्रवक्ष्यामि यज्ज्ञानाज् ज्ञायते हरिः ।अप्_214.001अब्।
नाभेरधस्ताद्यत् कन्दमङ्कुरास्तत्र निर्गताः

214.002

:न्
1 नरमेधफलं लभेदिति ग.. , ङ.. , ञ.. च
2 पुरीं वापीति ख..
3 कार्त्तिकादाविति ख.. , ट.. च
4 कुर्वन् सन्तारयेत् कुलमिति ग.. , घ.. , ङ.. , ट.. च
:प् 277
द्वासप्ततिसहस्राणि नाभिमध्ये व्यवस्थिताः ।अप्_214.002अब्।
तिर्यगूर्ध्वमधश् चैव व्याप्तन्ताभिः समन्ततः

214.003

चक्रवत्संस्थिता ह्य् एताः प्रधाना दशनाडयः ।अप्_214.003अब्।
इडा च पिङ्गला चैव सुसुम्णा च तथैव च

214.004

गान्धारी हस्तिजिह्वा च पृथा चैव यथा तथा ।अप्_214.004अब्।
अलम्बुषा हुहुश् चैव शङ्खिनी दशमी स्मृता

214.005

दश प्राणवहा ह्य् एता नाडयः परिकीर्तिताः ।अप्_214.005अब्।
प्राणो ऽपानः समानश् च उदानो व्यान एव च

214.006

नागः कूर्मो ऽथ कृकरो देवदत्तो धनञ्जयः ।अप्_214.006अब्।
प्राणस्तु प्रथमो वायुर्दशानामपि स प्रभुः

214.007

प्राणः प्राणयते प्राणं विसर्गात् पूरणं प्रति ।अप्_214.007अब्।
नित्यमापूरयत्येष प्राणिनामुरसि स्थितः

214.008

निःश्वासोच्छ्वासकासैस्तु प्राणो जीवसमाश्रितः ।अप्_214.008अब्।
प्रयाणं कुरुते यस्मात्तस्मात् प्राणः प्रकीर्तितः

214.009

अधो नयत्यपानस्तु आहारञ्च नृणामधः ।अप्_214.009अब्।
मूत्रशुक्रवहो वायुरपानस्तेन कीर्तितः

214.010

पीतभक्षितमाघ्रातं रक्तपित्तकफानिलं ।अप्_214.010अब्।
समन्नयति गात्रेषु समानो नाम मारुतः

214.011

स्पन्दयत्यधरं वक्त्रं नेत्ररागप्रकोपनं ।अप्_214.011अब्।
उद्वेजयति मर्माणि उदानो नाम मारुतः

214.012

व्यानो विनामयत्यङ्गं व्यानो व्याधिप्रकोपनः ।अप्_214.012अब्।
प्रतिदानं तथा कण्ठाद्व्यापानाद्व्यान उच्यते

214.013

उद्गारे नाग इत्य् उक्तः कूर्मश्चोन्मीलने स्थितः ।अप्_214.013अब्।
:प् 278
कृकरो भक्षणे चैव देवदत्तो विजृम्भिते

214.014

धनञ्जयः स्थितो घोषे मृतस्यापि न मुञ्चति ।अप्_214.014अब्।
जीवः प्रयाति दशधा नाडीचक्रं हि तेन तत्

214.015

सङ्क्रान्तिर्विषुवञ्चैव अहोरात्रायनानि च ।अप्_214.015अब्।
अधिमास ऋणञ्चैव ऊनरात्र धनन्तथा(1)

214.016

ऊनरात्रं भवेद्धिक्का अधिमासो विजृम्भिका ।अप्_214.016अब्।
ऋणञ्चात्र भवेत् कासो निश्वासो धनमुच्यते(2)

214.017

उत्तरं दक्षिणं ज्ञेयं वामं दक्षिणसञ्ज्ञितं ।अप्_214.017अब्।
मध्ये तु विषुवं प्रोक्तं पुटद्वयविनिःस्मृतं

214.018

सङ्क्रान्तिः पुनरस्यैव स्वस्थानात् स्थानयोगतः ।अप्_214.018अब्।
सुसुम्णा मध्यमे ह्य् अङ्गे इडा वामे प्रतिष्ठिता

214.019

पिङ्गला दक्षिणे विप्र ऊर्ध्वं प्राणो ह्य् अहः स्मृतं ।अप्_214.019अब्।
अपानो रात्रिरेवं स्यादेको वायुर्दशात्मकः

214.020

आयामो देहमध्यस्थः सोमग्रहणमिष्यते ।अप्_214.020अब्।
देहातितत्त्वमायामं आदित्यग्रहणं विदुः

214.021

उदरं पूरयेत्तावद्वायुना यावदीप्सितं ।अप्_214.021अब्।
प्राणायामी भवेदेष पूरका देहपूरकः

214.022

पिधाय सर्वद्वाराणि निश्वासोच्छ्वासवर्जितः ।अप्_214.022अब्।
सम्पूरणकुम्भवत्तिष्ठेत् प्राणायामः स कुम्भकः

214.023

मुञ्चेद्वायुं ततस्तूर्ध्वं श्वासेनैकेन मन्त्रवित् ।अप्_214.023अब्।
उच्छ्वासयोगयुक्तश् च वायुमूर्द्वं विरेचयेत्

214.024

:न्
1 बलन्तथेति ञ..
2 बलमुच्यते इति ञ.. , झ.. च
:प् 279
उच्चरति स्वयं यस्मात् स्वदेहावस्थितः शिवः ।अप्_214.024अब्।
तस्मात् तत्त्वविदाञ्चैव स एव जप उच्च्यते

214.025

अयुते द्वे सहस्रैकं षट्शतानि तथैव च ।अप्_214.025अब्।
अहोरात्रेण योगीन्द्रो जपसङ्ख्यां करोति सः

214.026

अजपा नाम गायत्री ब्रह्मविष्णुमहेश्वरी ।अप्_214.026अब्।
अजपां जपते यस्तां पुनर्जन्म न विद्यते

214.027

चन्द्राग्निरविसंयुक्ता आद्या कुण्डलिनी मता ।अप्_214.027अब्।
हृत्प्रदेशे तु सा ज्ञेया अङ्कुराकारसंस्थिता

214.028

सृष्टिन्यासो भवेत्तत्र स वै सर्गावलम्बनात् ।अप्_214.028अब्।
स्रवन्तं चिन्तयेत्तस्मिन्नमृतं सात्त्विकोत्तमः

214.029

देहस्थः सकलो ज्ञेयो निष्फलो देहवर्जितः(1) ।अप्_214.029अब्।
हंसहंसेति यो ब्रूयाद्धंसो देवः सदाशिवः

214.030

तिलेषु च यथा तैलं पुष्पे गन्धः समश्रितः ।अप्_214.030अब्।
पुरुषस्य तथा देहे स वाह्याभ्यन्तरां स्थितः

214.031

ब्रह्मणो हृदये स्थानं कण्ठे विष्णुः समाश्रितः ।अप्_214.031अब्।
तालुमध्ये(2) स्थितो रुद्रो ललाटे तु महेश्वरः

214.032

प्राणाग्रन्तु शिवं विद्यात्तस्यान्ते तु परापरं ।अप्_214.032अब्।
पञ्चधा सकलः प्रोक्तो विपरीतस्तु निष्फलः

214.033

प्रासादं नादमुत्थाप्य शततन्तु जपेद्यदि ।अप्_214.033अब्।
षण्मासात्सिद्धिमाप्नोति योगयुक्तो न संशयः

214.034

गमागमस्य ज्ञानेन सर्वपापक्षयो भवेत् ।अप्_214.034अब्।
:न्
1 देहपूजित इति ख.. , घ.. , छ.. च
2 तालुमूले इति ख..
:प् 280
अणिमादिगुणैश्वर्यं षड्भिर्मासैर् अवाप्नुयात्

214.035

स्थूलः सूक्ष्मः परश्चेति प्रासादः कथितो मया ।अप्_214.035अब्।
ह्रस्वो दीर्घः प्लुतश्चेति प्रासादं लक्षयेत्त्रिधा

214.036

ह्रस्वो दहति पापानि दीर्घो मोक्षप्रदो भवेत् ।अप्_214.036अब्।
आप्यायने प्लुतश्चेति मूर्ध्नि विन्दुविभूषितः

214.037

आदावन्ते च ह्रस्वस्य फट्कारो मारणे हितः ।अप्_214.037अब्।
आदावन्ते च हृदयमाकृष्टौ सम्प्रकीर्तितम्

214.038

देवस्य दक्षिणां मूर्तिं पञ्चलक्षं स्थितो जपेत् ।अप्_214.038अब्।
जपान्ते घृतहोमस्तु दशसाहस्रिको भवेत्

214.039

एवमाप्यायितो मन्त्रो वश्योच्चाटादि कारयेत् ।अप्_214.039अब्।
ऊर्ध्वे शून्यमधः शून्यं मध्ये शून्यं निरामयं

214.040

त्रिशून्यं यो विजानाति मुच्यते ऽसौ ध्रुवं द्विजः ।अप्_214.040अब्।
प्रासादं यो न जानाति पञ्चमन्त्रमहातनुं

214.041

अष्टत्रिंशत्कलायुक्तं न स आचार्य उच्यते ।अप्_214.041अब्।
तथोङ्कारञ्च गायत्रीं रुद्रादीन् वेत्त्य.असौ गुरुः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc