अग्नि पुराण · अध्याय 213
निवेदयामि भक्त्या तु भुक्तिमुक्त्यर्थहेतवे ।अप्_212.036अब्।
:ए इत्य् आग्नेये महापुराणे मेरुदानानि नाम
द्वादशाधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {213}
:श् अथ त्रयोदशाधिकद्विशततमो ऽध्यायः
पृथ्वीदानानि
अग्निर् उवाच
पृथ्वीदानं प्रवक्ष्यामि पृथिवी त्रिविधा मता ।अप्_213.001अब्।
शतकोटिर्योजनानां सप्तद्वीपा ससागरा
जम्बुद्वीपावधिः सा च उत्तमा मेदिनीरिता ।अप्_213.002अब्।
उत्तमां पञ्चभिर्भारैः काञ्चनैश् च प्रकल्पयेत्
तदर्धान्तरजं कूर्मं तथा पद्मं समादिशेत् ।अप्_213.003अब्।
उत्तमा कथिता पृथ्वी द्व्यंशेनैव तु मध्यमा
कन्यसा च त्रिभागेन(1) त्रिहान्या कूर्मपङ्कजे ।अप्_213.004अब्।
पलानान्तु सहस्रेण कल्पयेत् कल्पपादपं
मूलदण्डं सपत्रञ्च फलपुष्पसमन्वितं ।अप्_213.005अब्।
:न्
1 स्वल्पा सा तु त्रिभागेनेति ङ.. , ट.. च
:प् 276
पञ्चस्कन्धन्तु सङ्कल्प्य पञ्चानान्दापयेत् सुधीः
एतद्दाता ब्रह्मलोके पितृभिर्मोदते चिरं ।अप्_213.006अब्।
विष्ण्वग्रे कामधेनुन्तु पलानां पञ्चभिः शतैः
ब्रह्मविष्णुमहेशाद्या देवा धेनौ व्यवस्थिताः ।अप्_213.007अब्।
धेनुदानं सर्वदानं सर्वद ब्रह्मलोकदं
विष्ण्वग्रे कपिलां दत्त्वा तारयेत् सकलं कुलं ।अप्_213.008अब्।
अलङ्कृत्य स्त्रियं दद्यादश्वमेधफलं लभेत्(1)
भूमिं दत्त्वा सर्वभाक् स्यात् सर्वशस्यप्ररोहिणीम् ।अप्_213.009अब्।
ग्रामं वाथ पुरं वापि(2) खेटकञ्च दद्त् सुखी
कार्त्तिक्यादौ(3) वृषोत्सर्गं कुर्वंस्तारयते कुलं(4)
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0