भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 211

211.001

तान्तर्तुञ्च ददाम्येनां(2) कृष्णां वैतरणीञ्च गां ।अप्_210.035अब्।
:ए इत्य् आग्नेये महापुराणे महादानानि नाम दशाधिकद्विशततमो
ऽध्यायः ॥
:न्
1 कृष्णा वैतरणी इति ज.. , झ.. , ट.. च
2 तान्तर्तुं वै ददाम्येनामिति छ..
:प् 264
% छप्तेर् {211}
:श् अथैकादशाधिकद्विशततमो ऽध्यायः
नानादानानि
अग्निर् उवाच
एकाङ्गां दशगुर्दद्याद्दश दद्याच्च गोशती ।अप्_211.001अब्।
शतं सहस्रगुर्दद्यात् सर्वे तुल्यफला हि ते

211.002

प्रासादा यत्र सौवर्णा वसोर्धारा च यत्र सा ।अप्_211.002अब्।
गन्धर्वाप्सरसो यत्र तत्र यान्ति सहस्रदाः

211.003

गवां शतप्रदानेन मुच्यते नरकार्णवात् ।अप्_211.003अब्।
दत्त्वा वत्सतरीं चैव स्वर्हलोके महीयते

211.004

गोदानादायुरारोग्यसौभाग्यस्वर्गमाप्नुयात् ।अप्_211.004अब्।
इन्द्रादिलोकपालानां या राजमहिषी शुभा

211.005

महिषीदानमाहात्म्यादस्तु मे सर्वकामदा(1) ।अप्_211.005अब्।
धर्मराजस्य साहाय्ये(2) यस्याः पुत्रः प्रतिष्ठितः

211.006

महिषासुरस्य जननी या सास्तु वरदा मम ।अप्_211.006अब्।
महिषीदानाच्च सौभाग्यं वृषदानाद्दिवं व्रजेत्

211.007

संयुक्तहलपङ्क्त्याख्यं दानं सर्वफलप्रदं ।अप्_211.007अब्।
पङ्क्तिर्दशहला प्रोक्ता दारुजा वृषसंयुता

211.008

सौवर्णपट्टसन्नद्धान्दत्त्वा स्वर्गे महीयते ।अप्_211.008अब्।
:न्
1 गवां शतप्रदानेनेत्यादिः, सर्वकामदा इत्य् अन्तः पाठः
झ.पुस्तके नास्ति
2 धर्मराजस्य माहात्म्ये इति ज..
:प् 265
दशानां कपिलानां तु दत्तानां ज्येष्ठपुष्करे

211.009

तत् फलञ्चाक्षयं प्रोक्तं(1) वृषभस्य तु मोक्षणे(2) ।अप्_211.009अब्।
धर्मो ऽसित्वञ्चतुष्पादश् चतस्रस्ते प्रिया इमाः

211.010

नमो ब्रह्मण्यदेवेश पितृभूतर्षिपोषक ।अप्_211.010अब्।
त्वयि मुक्ते ऽक्षया लोका मम सन्तु निरामयाः

211.011

मा मे ऋणो ऽस्तु दैवत्यो(3) भौतः पैत्रो ऽथ मानुषः ।अप्_211.011अब्।
धर्मस्त्वं त्वत्प्रपन्नस्य या गतिः सास्तु मे ध्रुवा

211.012

अङ्गयेच्चक्रशूलाभ्यां मन्त्रेणानेन चोत्सृजेत् ।अप्_211.012अब्।
एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः

211.013

मुच्यते प्रेतलोकात्तु षण्मासे चाव्दिकादिषु ।अप्_211.013अब्।
दशहस्तेन कुण्डेन त्रिंशत्कुण्डान्निवर्तनं

211.014

तान्येव दशविस्ताराद्गोचर्मे तत्प्रदो ऽघभित्(4) ।अप्_211.014अब्।
गोभूहिरण्यसंयुक्तं कृष्णाजिनन्तु यो ऽर्पयेत्(5)

211.015

सर्वदुष्कृतकर्मापि सायुज्यं ब्रह्मणो व्रजेत् ।अप्_211.015अब्।
भाजनन्तिलसम्पूर्णं मधुना पूर्णमेव च

211.016

दद्यात् कृष्णतिलानाञ्च प्रस्थमेकञ्च मागधं ।अप्_211.016अब्।
शय्यां दत्त्वा तु सगुणां(6) भुक्तिमुक्तिमवाप्नुयात्

211.017

हैमीं प्रतिकृतिं कृत्वा दत्त्वा स्वर्गस् तथात्मनः ।अप्_211.017अब्।
विपुलन्तु गृहं कृत्वा दत्त्वा स्याद्भुक्तिमुक्तिभाक्

211.018

:न्
1 तत्फलं चाक्षयं स्याद्वै इति ट..
2 वृषभस्य विमोक्षणे इति ख.. । वृषभस्य च मोक्षणादिति
ज..
3 दैवो ऽथेति ख.. , छ.. च
4 तत्प्रदो ऽघनुदिति श.. । तत्प्रदो ऽघजिदिति घ.. , ङ.. च
5 यस्तु कृष्णाजिनं ददेदिति ट..
6 दत्त्वोत्तमगुणामिति घ..
:प् 266
गृहं मठं सभां स्वर्गी दत्त्वा स्याच्च प्रतिश्रियं ।अप्_211.018अब्।
दत्त्वा कृत्वा गोगृहञ्च निष्पापः स्वर्गमाप्नुयात्

211.019

यममाहिषदानात्तु निष्पापः स्वर्गमाप्नुयात् ।अप्_211.019अब्।
ब्रह्मा हरो हरिर्देवैर् मध्ये च यमदूतकः

211.020

पाशी(1) तस्य शिरश्छित्त्वा तं दद्यात् स्वर्गभाग्भवेत् ।अप्_211.020अब्।
त्रिमुखाख्यमिदं दानं गृहीत्वा तु द्विजो ऽघभाक्

211.021

चक्रं रूप्यमयं कृत्वा के धृत्वा तत् प्रदापयेत् ।अप्_211.021अब्।
हेमयुक्तं द्विजायैतत् कालचक्रमिदम्महत्

211.022

आत्मतुल्यन्तु यो लौहं ददेन्न नरकं व्रजेत् ।अप्_211.022अब्।
पञ्चाशत्पलसंयुक्तं लौहदण्डं तु यो ऽर्पयेत्

211.023

वस्त्रेणाच्छाद्य विप्राय यमदण्डो न विद्यते ।अप्_211.023अब्।
मूलं फलादि वा द्रव्यं संहतं वाथ चैकशः

211.024

मृत्युज्जयं समुद्दिश्य दद्यादायुर्विवर्धये ।अप्_211.024अब्।
पुमान् कृष्णतिलैः कार्यो रौप्यदन्तः सुवर्णदृक्

211.025

खड्गोद्यतकरो दीर्घो जवाकुसुममण्डलः ।अप्_211.025अब्।
रक्ताम्वरधरः स्रग्वी शङ्कमालाविभूषितः

211.026

उपानद्युगयुक्ताङ्घ्रिः कृष्णकम्बलपार्श्वकः ।अप्_211.026अब्।
गृहीतमांसपिण्डश् च वामे वै कालपूरुषः

211.027

सम्पूज्य तञ्च गन्धाद्यैः(2) ब्राह्मणायोपपादयेत् ।अप्_211.027अब्।
मरणव्याधिहीनः स्याद्राजराजेश्वरो भवेत्

211.028

गोवृषौ तु द्विजे दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ।अप्_211.028अब्।
:न्
1 पापो इति ख.. , छ.. , ज.. च
2 सम्पूज्य वस्त्रगन्धाद्यैर् इति ङ..
:प् 267
रेवन्ताधिष्ठितञ्चाश्वं हैमं दत्त्वा न मृत्य्भाक्

211.029

घण्टादिपूर्णमप्येकं दत्त्वा स्याद्भुक्तिमुक्तिभाक् ।अप्_211.029अब्।
सर्वान् कामानवाप्नोति यः प्रयच्छति काञ्चनं

211.030

सुवर्णे दीयमाने तु रजतं दक्षिणेष्यते ।अप्_211.030अब्।
अन्येषामपि दानानां सुवर्णं(1) दक्षिणा स्मृता

211.031

सुवर्णं रजतं ताम्रं तण्डुलं धान्यमेव च ।अप्_211.031अब्।
नित्यश्राद्धं देवपूजा सर्वमेतददक्षिणं

211.032

रजतं दक्षिणा पित्रे धर्मकामार्थसाधनं ।अप्_211.032अब्।
सुवर्णं रजतं ताम्रं मणिमुक्तावसूनि च

211.033

सर्वमेतन्महाप्राज्ञो ददाति वसुधान्ददत् ।अप्_211.033अब्।
पितॄंश् च पितृलोकस्थान् देवस्थाने च देवताः

211.034

सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ।अप्_211.034अब्।
खर्वटं खेटकं वापि ग्रामं वा शस्यशालिनं

211.035

निवर्तनशतं वापि तदर्धं वा गृहादिकं ।अप्_211.035अब्।
अपि गोचर्ममात्राम्बा दत्त्वोर्वीं सर्वभाग् भवेत्

211.036

तैलविन्दुर्यथा चाप्सु प्रसर्पेद् भूगतं तथा ।अप्_211.036अब्।
सर्वेषामेवदानानमेकजन्मानुगं फलं

211.037

हाटकक्षितिगौरीणां सप्तजन्मानुगं फलं ।अप्_211.037अब्।
त्रिसप्तकुलमुद्धृत्य कन्यादो ब्रह्मलोकभाक्

211.038

गजं सदक्षिणं दत्त्वा निर्मलः स्वर्गभाग् भवेत् ।अप्_211.038अब्।
अश्वं दत्त्वायुरारोग्यसौभाग्यस्वर्गमाप्नुयात्

211.039

:न्
1 हिरण्यमिति ट..
:प् 268
दासीं दत्त्वा द्विजेन्द्राय अप्सरोलोकमाप्नुयात् ।अप्_211.039अब्।
दत्त्वा ताम्रमयीं स्थालीं पलानां पञ्चभिः शतैः

211.040

अर्धैस्तदर्धैर् अर्धैर् वा भुक्तिमुक्तिमवाप्नुयात्(1) ।अप्_211.040अब्।
शकटं वृषसंयुक्तं दत्त्वा यानेन नाकभाक्

211.041

वस्त्रदानाल्लभेदायुरारोग्यं स्वर्गमक्षयं ।अप्_211.041अब्।
धान्यगोधूमकलमयवादीन् स्वर्गभाग् ददत्

211.042

आसनं तैजसं पात्रं लवणं गन्धचन्दनं ।अप्_211.042अब्।
धूपं दीपञ्च ताम्वूलं लोहं रूप्यञ्च रत्नकं(2)

211.043

दिव्यानि नानाद्रव्याणि दत्त्वा स्याद् भुक्तिमुक्तिभाक् ।अप्_211.043अब्।
तिलांश् च तिलपात्रञ्च दत्त्वा स्वर्गमवाप्नुयात्

211.044

अन्नदानात् परं नास्ति न भूतं न भविष्यति ।अप्_211.044अब्।
हस्त्यश्वरथदानानि दासीदासगृहाणि च

211.045

अन्नदानस्य सर्वाणि कलां नार्हन्ति षोडशीं ।अप्_211.045अब्।
कृत्वापि सुमहत्पापं यः पश्चादन्नदो भवेत्

211.046

सर्वपापविनिर्मुक्तो लोकानाप्नोति चाक्षयान् ।अप्_211.046अब्।
पानीयञ्च प्रपान्दत्त्वा भुक्तिमुक्तिमवाप्नुयात्

211.047

अग्निं काष्ठञ्च मार्गादौ दत्त्वा दीप्त्यादिमाप्नुयात्(3) ।अप्_211.047अब्।
देवगन्धर्वनारीभिर्विमाने सेव्यते दिवि

211.048

घृतं तैकञ्च लवणं दत्त्वा सर्वमवाप्नुयात् ।अप्_211.048अब्।
:न्
1 ततोर्ध्वतस्तदर्धार्धैर् युक्तां भुक्तिमवाप्नुयात् इति छ..
2 धूपदीपञ्च नैवेद्यं ताम्वूलं लोहरत्नकमिति ख..
3 दीप्ताग्निमाप्नुयादिति ङ..
:प् 269
छत्रोपानहकाष्ठादि दत्त्वा स्वर्गे सुखी वसेत्(1)

211.049

प्रतिपत्तिथिमुख्येषु विष्कुम्भादिकयोगके ।अप्_211.049अब्।
चैत्रादौ वत्सरादौ च अश्विन्यादौ हरिं हरं

211.050

ब्रह्माणं लोकपालादीन् प्रार्च्य दानं महाफलं ।अप्_211.050अब्।
वृक्षारामान् भोजनादीन् मार्गसंवाहनादिकान्

211.051

पादाभ्यङ्गादिकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ।अप्_211.051अब्।
त्रीणि तुल्यफलानीह गावः पृथ्वी सरस्वती

211.052

व्राह्मीं सरस्वतीन्दत्त्वा निर्मलो ब्रह्मलोकभाक् ।अप्_211.052अब्।
सप्तद्वीपमहीदः स ब्रह्मज्ञानं ददाति यः

211.053

अभयं सर्वभूतेभ्यो यो दद्यात् सर्वभाङ् नरः ।अप्_211.053अब्।
पुराणं भारतं वापि रामायणमथापि वा

211.054

लिखित्वा पुस्तकं दत्त्वा भुक्तिमुक्तिमवाप्नुयात् ।अप्_211.054अब्।
वेदशास्त्रं नृत्यगीतं यो ऽध्यापयति नाकभाक्

211.055

वित्तं दद्यादुपाध्याये छात्राणां भोजनादिकं ।अप्_211.055अब्।
किमदत्तं भवेत्तेन धर्मकामादिदर्शिना

211.056

वाजपेयसहस्रस्य सम्यग्दत्तस्य यत् फलं ।अप्_211.056अब्।
तत्फलं सर्वमाप्नोति विद्यादानन्न संशयः

211.057

शिवालये विष्णुगृहे सूर्यस्य भवने तथा ।अप्_211.057अब्।
सर्वदानप्रदः स स्यात् पुस्तकं वाचयेत्तु यः

211.058

त्रैलोक्ये चतुरो वर्णाश् चत्वारश्चाश्रमाः पृथक् ।अप्_211.058अब्।
ब्रह्माद्या देवताः सर्वा विद्यादाने प्रतिष्ठताः

211.059

:न्
1 स्वर्गे महीयते इति ग.. । स्वर्गे सुखी भवेदेति घ.. , ङ.. च
:प् 270
विद्या कामदुघा धेनुर्विद्या चक्षुरनुत्तमं ।अप्_211.059अब्।
उपवेदप्रदानेन गन्धर्वैः सह मोदते

211.060

वेदाङ्गानाञ्च दानेन स्वर्गलोकमवाप्नुयात् ।अप्_211.060अब्।
धर्मशास्त्रप्रदानेन धर्मेण सह मोदते

211.061

सिद्धान्तानां प्रदानेन मोक्षमाप्नोत्यसंशयं ।अप्_211.061अब्।
विद्यादानमवाप्नोति प्रदानात् पुस्तकस्य तु

211.062

शास्त्राणि च पुराणानि दत्त्वा सर्वमवाप्नुयात् ।अप्_211.062अब्।
शिष्यांश् च शिक्षयेद्यस्तु पुण्डलीकफलं लभेत्

211.063

येन जीवति तद्दत्त्वा फलस्यान्तो न विद्यते ।अप्_211.063अब्।
लोके स्रेष्ठतमं सर्वमात्मनश्चापि यत् प्रियं

211.064

सर्वं पितॄणां दातव्यं तेषामेवाक्षयार्थिना ।अप्_211.064अब्।
विष्णुं रुद्रं पद्मयोनिं देवीविघ्नेश्वरादिकान्

211.065

पूजयित्वा प्रदद्याद्यः पूजाद्रव्यं स सर्वभाक् ।अप्_211.065अब्।
देवालयं च प्रतिमां कारयत् सर्वमाप्नुयात्

211.066

सम्मार्जनं चोपलेपं कुर्वन् स्यान्निर्मलः पुमान् ।अप्_211.066अब्।
नानामण्डलकार्यग्रे मण्डलाधिपतिर्भवेत्(1)

211.067

गन्धं पुष्पं धूपदीपं नैवेद्यञ्च प्रदक्षिणं ।अप्_211.067अब्।
घण्टाध्वजवितानञ्च प्रेक्षणं वाद्यगौतकं

211.068

वस्त्रादिदत्त्वादेवाय भुक्तिमुक्तिमवाप्नुयात् ।अप्_211.068अब्।
कस्तूरिकां शिह्लकञ्च श्रीखण्डमगुरून्तथा

211.069

कर्पूरञ्च तथामुस्तं गुग्गुलुं विजयं ददेत् ।अप्_211.069अब्।
:न्
1 सम्मार्जनमित्यादिः मण्डलाधिपतिर्भवेदित्यन्तः पाठः
ज.. पुस्तके नास्ति
:प् 271
घृतप्रस्थेन संस्थाप्य सङ्क्रान्त्यादौ स सर्वभाक्

211.070

स्नानं पलशतं ज्ञेयमभ्यङ्गं पञ्चविंशतिः ।अप्_211.070अब्।
पलानान्तु सहस्रेण महास्नानं प्रकीर्तितं

211.071

दशापराधास्तोयेन क्षीरेण स्नापनाच्छतं ।अप्_211.071अब्।
सहस्रं पयसा दध्ना घृतेनायुतमिष्यते

211.072

दासीदासमलङ्कारं गोभूम्यश्वगजादिकं ।अप्_211.072अब्।
देवाय दत्त्वा सौभाग्यं धनायुष्मान् व्रजेद्दिवं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc