भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 210

210.001

:ए इत्य् आग्नेये महापुराणे दानपरिभाषा नाम
नवाधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {210}
:श् अथ दशाधिकद्विशततमो ऽध्यायः
महादानानि
अग्निर् उवाच
सर्वदानानि वक्ष्यामि महादानानि षोडश ।अप्_210.001अब्।
तुलापुरुष आद्यन्तु हिरण्यगर्भदानकं

210.002

ब्रह्माण्डं कल्पवृक्षश् च गोसहस्रञ्च पञ्चमं ।अप्_210.002अब्।
हिरण्यकामधेनुश् च हिरण्याश्वश् च सप्तमं

210.003

हिरण्याश्वरथस्तद्वद्धेमहस्तिरथस् तथा ।अप्_210.003अब्।
पञ्चलाङ्गलकन्तद्वद्धरादानं तथैव च

210.004

:न्
1 समुत्पाताद्यपापहृत् इति ङ.. । समुत्पातादिपापहृदिति घ..
:प् 261
विश्वचक्रं कल्पलता सप्तसागरकं परं ।अप्_210.004अब्।
रत्नधेनुर्महाभूतघटः शुभदिने ऽर्पयेत्

210.005

मण्डपे मण्डले दानं देवान् प्रार्च्यार्पयेद्द्विजे ।अप्_210.005अब्।
मेरुदानानि पुण्यानि मेरवो दश तान् शृणु

210.006

धान्यद्रोणसहस्रेण उत्तमो ऽर्धार्धतः परौ ।अप्_210.006अब्।
उत्तमः षोडशद्रोणः कर्तव्यो लवणाचलः

210.007

दशभारैर् गुडाद्रिः स्यादुत्तमो ऽर्धार्धतः परौ ।अप्_210.007अब्।
उत्तमः पलसाहस्रैः स्वर्णमेरुस् तथा परौ

210.008

दशद्रोणैस्तिलाद्रिः स्यात् पञ्चभिश् च त्रिभिः क्रमात् ।अप्_210.008अब्।
कार्पासपर्वतो विंशभारैश् च दशपञ्चभिः

210.009

विंशत्या घृहकुम्भानामुत्तमः स्याद् घृताचलः(1) ।अप्_210.009अब्।
दशभिः पलसाहस्रैर् उत्तमो रजताचलः

210.010

अष्टभारैः शर्कराद्रिर्मध्योमन्दो ऽर्धतो ऽर्धतः ।अप्_210.010अब्।
दश धेनूः प्रवक्ष्यामि या दत्त्वा भुक्तिमुक्तिभाक्

210.011

प्रथमा गुडधेनुः स्याद् घृतधेनुस् तथापरा ।अप्_210.011अब्।
तिलधेनुस्तृतोया च चतुर्थी जलधेनुका

210.012

क्षीरधेनुर्मधुधेनुः शर्करादधिधेनुके ।अप्_210.012अब्।
रसधेनुः स्वरूपेण दशमी विधिरुच्यते

210.013

कुम्भाः स्युर्द्रवधेनूनामितरासान्तु राशयः ।अप्_210.013अब्।
कृष्णाजिनञ्चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि

210.014

गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः ।अप्_210.014अब्।
:न्
1 अत्र रत्नाचलबोधकपाठः पतितः दशविधाचलविभागस्य
प्रतिज्ञातत्वात् मत्स्यपुराणीयसप्तसप्तत्यध्याये रत्नशैलस्
तथाष्टम इत्य् अनेन रत्नाचलस्य
दशविधाचलान्तर्गतत्वेनोल्लेखनाच्च
:प् 262
लघ्वैणकाजिनं तद्वद्वत्सस्य परिकल्पयेत्

210.015

प्राङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सकां ।अप्_210.015अब्।
उत्तमा गुडधेनुः स्यात् सदा भारचतुष्टयात्

210.016

वत्सं भारेण कुर्वीत भाराभ्यां मध्यमा स्मृता ।अप्_210.016अब्।
अर्धभारेण वत्सः स्यात् कनिष्ठा भारकेण तु

210.017

चतुर्थांशेन वत्सः स्याद् गुडवित्तानुसारतः ।अप्_210.017अब्।
पञ्च कृष्णलका माषस्ते सुवर्नस्तु षोडश

210.018

पलं सुवर्णाश् चत्वारस्तुला पलशतं स्मृतं ।अप्_210.018अब्।
स्याद्भारो विंशतितुला द्रोणस्तु चतुराढकः

210.019

धेनुवत्सौ गुडस्योभौ सितसूक्ष्माम्बरावृतौ ।अप्_210.019अब्।
शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ

210.020

सितसूत्रशिरालौ च सितकम्बलकम्वलौ ।अप्_210.020अब्।
ताम्रगड्डुकपृष्ठौ तौ सितचामररोमकौ

210.021

विद्रुमभ्रूयुगावेतौ नवनीतस्तनान्वितौ ।अप्_210.021अब्।
क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ

210.022

सुवर्णशृङ्गाभरणौ रजतक्षुरसंयुतौ ।अप्_210.022अब्।
नानाफलमया दन्ता गन्धघ्राणप्रकल्पितौ

210.023

रचयित्वा यजेद्धेनुमिमैर् मन्त्रैर् द्विजोत्तम ।अप्_210.023अब्।
या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता

210.024

धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु ।अप्_210.024अब्।
देहस्था या च रुद्राणी शङ्करस्य सदा प्रिया

210.025

धेनुरूपेण सा देवी मम पापं व्यपोहतु ।अप्_210.025अब्।
विष्णुवक्षसि या लक्ष्मीः स्वाहा या च विभावसोः

210.026

:प् 263
चन्द्रार्कऋक्षशक्तिर्या धेनुरूपास्तु सा श्रिये ।अप्_210.026अब्।
चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च

210.027

लक्ष्मीर्या लोकपालानां स धेनुर्वरदास्तु मे ।अप्_210.027अब्।
स्वधा त्वं पितृमुख्यानां स्वाहा यज्ञभुजां यतः

210.028

सर्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छ मे ।अप्_210.028अब्।
एवमामन्त्रितां धेनुं ब्राह्मणाय निवेदयेत्

210.029

समानं सर्वधेनूनां विधानं चैतदेव हि ।अप्_210.029अब्।
सर्वयज्ञफलं प्राप्य निर्मलो भुक्तिमुक्तिभाक्

210.030

स्वर्णशृङ्गो शफै रौप्यैः सुशीला वस्त्रसंयुता ।अप्_210.030अब्।
कांस्योपदोहा दातव्या क्षोरिणौ गौः सदक्षिणा

210.031

दातास्याः स्वर्गमाप्नोति वत्सरान् सोमसम्मितान् ।अप्_210.031अब्।
कपिला चेत्तारयति भूयश्चासप्तमं कुलं

210.032

स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहनकान्वितां ।अप्_210.032अब्।
शक्तितो दक्षिणायुक्तां दत्त्वा स्याद्भुक्तिमुक्तिभाक्

210.033

सवत्सरोमतुल्यानि युगान्युभयतोमुखीं ।अप्_210.033अब्।
दत्त्वा स्वर्गमवाप्नोति पूर्वेण विधिना ददेत्

210.034

आसन्नमृत्युना देया सवत्सा गौस्तु पूर्ववत् ।अप्_210.034अब्।
यमद्वारे महावीरे तप्ता वैतरणी(1) नदी

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc