अग्नि पुराण · अध्याय 212
:ए इत्य् आग्नेये महापुराणे नानादानानि
नामैकादशाधिकद्विशततमो ऽध्यायः ॥
% छप्तेर् {212}
:श् अथ द्वादशाधिकद्विशततमो ऽध्यायः
मेरुदानानि
अग्निर् उवाच
काम्यदानानि वक्ष्यामि सर्वकाम प्रदानि ते ।अप्_212.001अब्।
नित्यपूजां मासि मासि कृत्वाथो काम्यपूजनं
व्रतार्हणं गुरोः पूजा वत्सरान्ते महार्चनं ।अप्_212.002अब्।
अश्वं वै मार्गशैर्षे तु कमलं पिष्टसम्भवं
शिवाय पूज्य यो दद्यात् सूर्यलोके चिरं वसेत्(1) ।अप्_212.003अब्।
:न्
1 स्वर्गलोके चिरं वसेदिति ग.. , घ.. , ङ.. , ट.. च । शिवलोके चिरं वसेदिति
झ..
:प् 272
गजं पौषे पिष्टमयं त्रिसप्तकुलमुद्धरेत्
माघे चाश्वरथं पैष्ठं दत्त्वा नरकं व्रजेत् ।अप्_212.004अब्।
फाल्गुने तु वृषं पैष्टं स्वर्गभुक् स्यान्महीपतिः
चैत्रे चेक्षुमयीं गावन्दासदासीसमन्वितां ।अप्_212.005अब्।
दत्त्वा स्वर्गे चिरं स्थित्वा तदन्ते स्यान्महीपतिः
सप्तव्रीहींश् च वैशाखे दत्त्वा शिवमयो भवेत् ।अप्_212.006अब्।
बलिमण्डलकञ्चान्नैः कृत्वाषाढे शिवो भवेत्
विमानं श्रावणे पौष्पं दत्त्वा स्वर्गी ततो नृपः ।अप्_212.007अब्।
शतद्वयं फलानान्तु दत्त्वोद्धृत्य कुलं नृपः
गुग्गुलादि दहेद्भाद्रे स्वर्गी स स्यात्ततो नृपः ।अप्_212.008अब्।
क्षीरसर्पिर्भृतं पात्रमाश्विने स्वर्गदम्भवेत्
कार्त्तिके गुडखण्डाज्यं दत्त्वा स्वर्गी ततो नृपः ।अप्_212.009अब्।
मेरुदानं द्वादशकं वक्ष्ये ऽहं भुक्तिमुक्तिदं
मेरुव्रते तु कार्त्तिक्यां रत्नमेरुन्ददेद् द्विजे ।अप्_212.010अब्।
सर्वेषाञ्चैव मेरूणां प्रमाणं क्रमशः शृणु
वज्रपद्ममहानीलनीलस्फटिकसञ्ज्ञितः ।अप्_212.011अब्।
पुष्पं मरकतं मुक्ता प्रस्थमात्रेण चोत्तमः
मध्यो ऽर्धः स्यात्तदर्धो ऽधो वित्तशाठ्यं विवर्जयेत् ।अप्_212.012अब्।
कार्णिकायां न्यसेन्मेरुं ब्रह्मविष्ण्वीशदैवतं
माल्यवान् पूर्वतः पूज्यस्तत्पूर्वे भदरसञ्ज्ञितः ।अप्_212.013अब्।
अश्वरक्षस्ततः प्रोक्तो निषधो मेरुदक्षिणे
हेमकूटो ऽथ हिमवान् त्रयं सौम्ये तथा त्रयं ।अप्_212.014अब्।
नीलः श्वेतश् च शृङ्गी च पश्चिमे गन्धमादनः
:प् 273
वैकङ्कः केतुमालः स्यान्मेरुर्द्वादशसंयुतः ।अप्_212.015अब्।
सोपवासो ऽर्चयेद्विष्णुं शिवं वा स्नानपूर्वकं
देवाग्रे चार्च्य मेरुञ्च मन्त्रैर् विप्राय वै ददेत् ।अप्_212.016अब्।
विप्रायामुकगोत्राय मेरुन्द्रव्यमयम्परं
भुक्त्यै मुक्त्यै निर्मलत्वे विष्णुदैवं ददामि ते ।अप्_212.017अब्।
इन्द्रलोके ब्रह्मलोके शिवलोके हरेः पुरे
कुलमुद्धृत्य क्रीडेत विमाने देवपूजितः ।अप्_212.018अब्।
अन्येष्वपि च कालेषु सङ्क्रान्त्यादौ प्रदापयेत्
पलानान्तु सहस्रेण हेममेरुम्प्रकल्पयेत् ।अप्_212.019अब्।
शृङ्गत्रयसमायुक्तं ब्रह्मविष्णुहरान्वितं
एकैकं पर्वतन्तस्य शतैकैकेन कारयेत् ।अप्_212.020अब्।
मेरुणा सह शैलास्तु ख्यातास्तत्र त्रयोदश
अयने ग्रहणादौ च विष्ण्वग्रे हरिमर्च्य च ।अप्_212.021अब्।
स्वर्णमेरुं द्विजायार्प्य विष्णुलोके चिरं वसेत्
परमाणवो यावन्त इह राजा भवेच्चिरं ।अप्_212.022अब्।
रौप्यमेरुं द्वादशाद्रियुतं सङ्कल्पतो ददेत्(1)
प्रागुक्तं च फलं तस्य विष्णुं विप्रंप्रपूज्य च ।अप्_212.023अब्।
भूमिमेरुञ्च विषयं मण्डलं ग्राममेव च(2)
परिकल्प्याष्टमांशेन शेषांशाः(3) पूर्ववत् फलं ।अप्_212.024अब्।
द्वादशाद्रिसमायुक्तं हस्तिमेरुस्वरूपिणं
:न्
1 सङ्कल्प्य तद्ददेदिति ग.. , घ.. , ङ.. , ञ.. च
2 मण्डलं ग्राममेवेति ग.. , झ.. , ट.. च
3 शेषाङ्गा इति ख..
:प् 274
ददेत्त्रिपुरुषैर् युक्तं दत्त्वानन्तं फलं लभेत् ।अप्_212.025अब्।
त्रिपञ्चाश्वैर् अश्वमेरुं हययद्वादशसंयुतं
विष्ण्वादीन् पूज्य तं दत्त्वा भुक्तभोगो नृपो भवेत् ।अप्_212.026अब्।
अश्वसङ्ख्याप्रमाणेन गोमेरुं पूर्ववद्ददेत्
पट्टवस्त्रैर् भारमात्रैर् वस्त्रमेरुश् च मध्यतः ।अप्_212.027अब्।
शैलैर् द्वादशवस्त्रैश् च दत्त्वा तञ्चाक्षयं फलं
घृतपञ्चसहस्रैश् च पलानामाज्यपर्वतः ।अप्_212.028अब्।
शतैः पञ्चभिरेकैकः पार्वते ऽस्मिन् हरिं यजेत्
विष्ण्वग्रे ब्राह्मणायार्प्य सर्वं प्राप्य हरिं व्रजेत् ।अप्_212.029अब्।
एवं च खण्डमेरुञ्च कृत्वा दत्त्वाप्नुयात् फलं
धान्यमेरुः पञ्चखारो ऽपर एकैकखारकाः ।अप्_212.030अब्।
स्वर्णत्रिशृङ्गकाः सर्वे ब्रह्मविष्णुमहेश्वरान्
सर्वेषु पूज्य विष्णुं वा विशेषादक्षयं फलं ।अप्_212.031अब्।
एवं दशांशमानेन तिलमेरुं प्रकल्पयेत्
शृङ्गाणि पूर्ववत्तस्य तथैवान्यनगेषु च ।अप्_212.032अब्।
तिलमेरुं प्रदायाथ बन्धुभिर्विष्णुलोकभाक्(1)
नमो विष्णुस्वरूपाय धराधराय वै नमः ।अप्_212.033अब्।
ब्रह्मविष्ण्वीशशृङ्गाय धरानाभिस्थिताय च
नगद्वादशनाथाय सर्वपापापहारिणे ।अप्_212.034अब्।
विष्णुभक्ताय शान्ताय त्राणं मे कुरु सर्वथा
निष्पापः पितृभिः सार्धं विष्णुं गच्छामि ओं नमः ।अप्_212.035अब्।
:न्
1 बन्धुभिर्ब्रह्मलोकभागिति झ..
:प् 275
त्वं हरिस्तु हरेरग्रे अहं विष्णुश् च विष्णवे
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0