भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 209

209.001

नैकधा वासुदेवादेर्नियमात् पूजनाद्भवेत् ।अप्_208.013अब्।
:ए इत्य् आगेन्ये महापुराणे व्रतदानसमुच्चयो नाम
अष्टाधिकद्विशततमो ऽध्यायः ॥
:न्
1 सौभाग्याय सुष्टद्वये इति क.. , छ.. , ट, च । सौभाग्याय सुबुद्धये
इति घ.. , ज.. , ञ.. च
:प् 254
% छप्तेर् {209}
:श् अथ नवाधिकद्विशततमो ऽध्यायः
दानपरिभाषाकथनं
अग्निर् उवाच
दानधर्मान् प्रवक्ष्यामि भुक्तिमुक्तिदान् शृणु ।अप्_209.001अब्।
दानमिष्टं तथा पूर्तं धर्मं कुर्वन् हि सर्वभाक्

209.002

वापीकूपतडागानि देवतायतनानि च ।अप्_209.002अब्।
अन्नप्रदानमारामाः पूर्तं धर्मं च मुक्तिदं

209.003

अग्निहोत्रं तपः सत्यं वेदानाञ्चानुपालनं ।अप्_209.003अब्।
आतिथ्यं वैश्वदेवञ्च प्राहुरिष्टञ्च नाकदं

209.004

ग्रहोपरागे यद्दानं सूर्यसङ्क्रमणेषु च ।अप्_209.004अब्।
द्वादश्यादौ च यद्दानं पूर्तं तदपि नाकदं

209.005

देशे काले च पात्रे च दानं कोटिगुणं भवेत् ।अप्_209.005अब्।
अयने विषुवे पुण्ये व्यतीपाते दिनक्षये

209.006

युगादिषु च सङ्क्रान्तौ चतुर्दश्यष्टमीषु च ।अप्_209.006अब्।
सितपञ्चदशीसर्वद्वादशीष्वष्टकासु च

209.007

यज्ञोत्सवविबाहेषु तथा मन्वन्तरादिषु ।अप्_209.007अब्।
वैधृते दृष्टदुःखप्ने द्रव्यब्राह्मणलाभतः

209.008

श्रद्धा वा यद्दिने तत्र सदा वा दानमिष्यते ।अप्_209.008अब्।
अयने द्वे विपुवे द्वे चतस्रः षडशीतयः

209.009

चतस्रो विष्णुपद्यश् च सङ्क्रात्यो द्वादशोत्तमाः ।अप्_209.009अब्।
:प् 255
कन्यायां मिथुने मीने धनुष्यपि रवेर्गतिः

209.010

षडशीतिमुखाः प्रोक्ताः षडशीतिगुणाः फलैः ।अप्_209.010अब्।
अतीतानागते पुण्ये द्वे उदग्दक्षिणायने

209.011

त्रिंशत् कर्कटके नाड्यो मकरे विंशतिः स्मृताः ।अप्_209.011अब्।
वर्तमाने तुलामेषे नाड्यास्तुभयतो दश

209.012

षडशीत्यां व्यतीतायां षष्टिरुक्तास्तु नाडिकाः ।अप्_209.012अब्।
पुण्याख्या विष्णुपाद्याञ्च प्राक्पश्चादपि षोडश

209.013

श्रवणाश्विधनिष्ठासु नागदैवतमस्तके ।अप्_209.013अब्।
यदा स्याद्रविवारेण व्यतीपातः स उच्यते

209.014

नवम्यां शुक्लपक्षस्य कार्त्तिके निरगात् कृतं ।अप्_209.014अब्।
त्रेता सिततृतीयायां वैशाखे द्वापरं युगं

209.015

दर्शे वै माघमासस्य त्रयोदश्यां नभस्यके ।अप्_209.015अब्।
कृष्णे कलिं विजानीयाज् ज्ञेया मन्वन्तरादयः

209.016

अश्वयुकच्छुक्लनवमी द्वादशी कार्त्तिके तथा ।अप्_209.016अब्।
तृतीया चैव माघस्य तथा भाद्रपदस्य च

209.017

फाल्गुनस्याप्यमावास्या पौषस्यैकादशी तथा ।अप्_209.017अब्।
आषाढस्यापि दशमी माघमासस्य सप्तमी

209.018

आवाणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा ।अप्_209.018अब्।
कार्त्तिके फाल्गुने तद्वज् ज्यैष्ठे पञ्चदशी तथा

209.019

ऊर्ध्वे चैवाग्रहायण्या अष्तकास्तिस्र ईरिताः ।अप्_209.019अब्।
अष्टकाख्या चाष्टमी स्यादासु(1) दानानि चाक्ष्ययं

209.020

:न्
1 स्यादत्रेति ग.. , घ.. , ज.. , ञ.. च
:प् 256
गयागङ्गाप्रयागादौ तीर्थे देवालयादिषु ।अप्_209.020अब्।
अप्रार्थितानि दानानि विद्यार्थं कन्यका न हि

209.021

दद्यात् पूर्वमुखो दानं गृह्णीयादुत्तरामुखः ।अप्_209.021अब्।
आयुर्विवर्धते दातुर्ग्रहीतुः क्षीयते न तत्

209.022

नाम गोत्रं समुच्चार्य सम्प्रदानस्य चात्मनः ।अप्_209.022अब्।
सम्प्रदेयं प्रयच्छन्ति कन्यादाने पुनस्त्रयं

209.023

स्नात्वाभ्यर्च्य व्याहृतिभिर्दद्याद्दानन्तु सोदकं ।अप्_209.023अब्।
कनकाश्वतिला नागा दासीरथमहीगृहाः

209.024

कन्या च कपिला धेनुर्महादानानि वै दश ।अप्_209.024अब्।
श्रुतशौर्यतपःकन्यायाज्यशिष्यादुपगतं

209.025

शुल्कं धनं हि सकलं शुल्कं शिल्पानुवृत्तितः ।अप्_209.025अब्।
कुशीदकृषिवाणिज्यप्राप्तं यदुपकारतः

209.026

पाशकद्यूतचौर्यादिप्रतिरूपकसाहसैः ।अप्_209.026अब्।
व्याजेनोपावर्जितं कृत्स्नं त्रिविधं त्रिविधं फलं

209.027

अध्यग्न्यध्यावाहनिकं दत्तञ्च प्रीतिकर्मणि ।अप्_209.027अब्।
भ्रातृमातृपितृप्राप्तं षड्विधं स्त्रीधनंस्मृतं(1)

209.028

ब्रह्मक्षत्रविशां द्रव्यं शूद्रस्यैषामनुग्रहात् ।अप्_209.028अब्।
बहुभ्यो न प्रदेयानि गौर्गृहं शयनं स्त्र्यियः

209.029

कुलानान्तु शतं हन्यादप्रयच्छन् प्रतिश्रुतं ।अप्_209.029अब्।
देवानाञ्च गुरूणाञ्च मातापित्रोस्तथैव च

209.030

पुण्यं देयं प्रयत्नेन यत् पुण्यञ्चार्जितं क्वचित् ।अप्_209.030अब्।
:न्
1 कुशोदेत्यादिः स्त्रीधनं स्मृतमित्यन्तः पाठः छ..
पुस्तके नास्ति
:प् 257
प्रतिलाभेच्छया दत्तं यद्धनं तदपार्थकं

209.031

श्रद्धया साध्यते धर्मो दत्तं वार्यपि चाक्षयं ।अप्_209.031अब्।
ज्ञानशीलगुणोपेतः परपीडावहिष्कृतः

209.032

अज्ञानां पालनात्त्राणात्तत् पात्रं परमं स्मृतं ।अप्_209.032अब्।
मातुः शतगुणं दानं सहस्रं पितुरुच्यते

209.033

अनन्तं दुहितुर्दानं सोदर्ये दत्तमक्षयं ।अप्_209.033अब्।
अमनुष्ये समं दानं पापे ज्ञेयं महाफलं

209.034

वर्णसङ्करे द्विगुणं शूद्रे दानं चतुर्गुणं ।अप्_209.034अब्।
वैश्ये चाष्टगुणं क्षत्रे षोडशत्वं द्विजव्रुवे

209.035

वेदाध्याये शतगुणमन्तं वेदबोधके(1) ।अप्_209.035अब्।
पुरोहिते याजकादौ(2) दानमक्षयमुच्यते

209.036

श्रीविहीनेषु यद्दत्तं तदनन्तं च यजवनि ।अप्_209.036अब्।
अतपस्व्यनधीयानः प्रतिग्रहरुचिर्द्विजः

209.037

अम्भस्यश्मप्लवेनैव सह तेनैव मज्जति ।अप्_209.037अब्।
स्नातः सम्यगुपस्पृश्य गृह्णीयात् प्रयतः शुचिः

209.038

प्रतिग्रहीता सावित्रीं सर्वदैव प्रकीर्तयेत्(3) ।अप्_209.038अब्।
ततस्तु कीर्तयेत्सार्धं द्रव्येण सह दैवतं

209.039

प्रतिग्राही पठेदुच्चैः प्रतिगृह्य द्विजोत्तमात् ।अप्_209.039अब्।
मन्दं पठेत् क्षत्रियात्तु उपांशु च तथा विशः

209.040

:न्
1 ब्रह्मबोधके इति घ.. , ङ.. , ज.. , ञ.. , ट.. च
2 पुरोहिते याचकादाविति ख.. , छ.. , ट.. च
3 सर्वत्रैव प्रकीर्तयेदिति ख.. , ग.. , घ.. , ङ.. , ज.. , ञ.. , ट.. च
:प् 258
मनसा च तथा शूद्रात् स्वस्तिवाचनकं तथा ।अप्_209.040अब्।
अभयं सर्वदैवत्यं भूमिर्वै विष्णुदेवता

209.041

कन्या दासस् तथा दासी प्राजापत्याः प्रकिर्तिताः ।अप्_209.041अब्।
प्राजापत्यो गजः प्रोक्तस्तुरगो यमदैवतः

209.042

तथा चैकशफं सर्वं याम्यश् च महिषस् तथा ।अप्_209.042अब्।
उष्ट्रश् च नैरृतो धेनू रौद्री छागो ऽनलस् तथा

209.043

आप्यो मेषो हरिः क्रीड आरण्याः पशवो ऽनिलाः ।अप्_209.043अब्।
जलाशयं वारुणं स्याद्वारिधानीघटादयः

209.044

समुद्रजानि रत्नानि हेमलौहानि चानलः ।अप्_209.044अब्।
प्राजापत्यानि शस्यानि पक्वान्नमपि सत्तम

209.045

गान्धर्वं गन्धमित्याहुर्वस्त्रं वार्हस्पतं स्मृतं ।अप्_209.045अब्।
वायव्याः पक्षिणः सर्वे विद्या ब्राह्मी तथाङ्गकं

209.046

सारस्वतं पुस्तकादि विश्वकर्मा तु शिलप्के ।अप्_209.046अब्।
वनस्पतिर्द्रुमादीनां द्रव्यदेवा हरेस्तनुः

209.047

छत्रं कृष्णाजिनं शय्या रथ आसनमेव च ।अप्_209.047अब्।
उपानहौ तथा यानमुत्तानाङ्गिर ईरितं

209.048

रणोपकरणं शस्त्रं ध्वजाद्यं सर्वदैवतं ।अप्_209.048अब्।
गृहञ्च सर्वदैवत्यं सर्वेषां विष्णुदेवता

209.049

शिवो वा न ततो द्रव्यं व्यतिरिक्तं यतो ऽस्ति हि(1) ।अप्_209.049अब्।
द्रव्यस्य नाम गृह्णीयाद्ददानीति तथा वदेत्

209.050

तोयं दद्यात्ततो हस्ते दाने विधिरयं स्मृतः ।अप्_209.050अब्।
:न्
1 यातोत्र हीति ज..
:प् 259
विष्णुर्दाता विष्णुर्द्रव्यं प्रतिगृह्णामि वै वदेत्

209.051

स्वस्ति प्रतिग्रहं धर्मं भुक्तिमुक्ती फलद्वयं ।अप्_209.051अब्।
गुरून् भृत्यान्न जिहीर्षुरर्चिष्यन् देवताः पितॄन्

209.052

सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयन्ततः ।अप्_209.052अब्।
शूद्रीयन्न तु यज्ञार्थं धनं शूद्रस्य तत्फलं

209.053

गुडतक्ररसाद्याश् च शूद्राद्ग्राह्या निवर्तिना ।अप्_209.053अब्।
सर्वतः प्रतिगृह्णीयादवृत्याकर्षितो द्विजः

209.054

नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् ।अप्_209.054अब्।
दोषो भवति विप्राणां ज्वलनार्कसमा हि ते

209.055

कृते तु दीयते गत्वा त्रेतास्वानीय दीयते ।अप्_209.055अब्।
द्वापारे याचमानाय कलौ त्वनुगमान्विते

209.056

मनसा पात्रमुद्दिश्य जलं भूमौ विनिक्षिपेत् ।अप्_209.056अब्।
विद्यते सागरस्यान्तो नान्तो दानस्य विद्यते(1)

209.057

अद्य सोमार्कग्रहणसङ्क्रान्त्यादौ च कालके ।अप्_209.057अब्।
गङ्गागयाप्रयागादौ तीर्थदेशे महागुणे

209.058

तथा चामुकगोत्राय तथा चामुकशर्मणे ।अप्_209.058अब्।
वेदवेदाङ्गयुक्ताय पात्राय सुमहात्मने

209.059

यथानाम महाद्रव्यं विष्णुरुद्रादिदैवतं ।अप्_209.059अब्।
पुत्रपौत्रगृहैश्वर्यपत्नीधर्मार्थसद्गुणा

209.060

कीत्तिविद्यामहाकामसौभाग्यारोग्यवृद्धये ।अप्_209.060अब्।
सर्वपापोपशान्त्यर्थं स्वर्गार्थं भुक्तिमुक्तये

209.061

:न्
1 न तद्दानस्य विद्यते इति ख.. , ग.. , घ.. , ङ.. , छ.. , ज.. , ञ.. , ठ..
च
:प् 260
एतत्तुभ्यं सम्प्रददे प्रीयतां मे हरिः शिवः ।अप्_209.061अब्।
दिव्यान्तरीक्षभौमादिसमुत्पातौघघातकृत्(1)

209.062

धर्मार्थकाममोक्षाप्त्यै ब्रह्मलोकप्रदो ऽस्तु मे ।अप्_209.062अब्।
यथानामसगोत्राय विप्रायामुकशर्मणे

209.063

एतद्दानप्रतिष्ठार्थं सुवर्णं दक्षिणां ददे ।अप्_209.063अब्।
अनेन दानवाक्येन सर्वदानानि वै ददेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc