भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 208

208.001

तावन्मासोपवासः स्यादधिकं फलमप्यतः ।अप्_207.006अब्।
:ए इत्य् आग्नेये महापुराणे कौमुदव्रतं नाम सप्ताधिकद्विशततमो
ऽध्यायः ॥
% छप्तेर् {208}
:श् अथाष्टाधिकद्विशततमो ऽध्यायः
व्रतदानादिसमुच्चयः
अग्निर् उवाच
व्रतदानानि सामान्यं प्रवदामि समासतः ।अप्_208.001अब्।
तिथौ प्रतिपदादौ च सूर्यादौ कृत्तिकासु च

208.002

विष्कम्भादौ च मेषादौ काले च ग्रहणादिके ।अप्_208.002अब्।
यत् काले यद् व्रतं दानं यद् द्रव्यं नियमादि यत्

208.003

तद् द्रव्याख्यञ्च कालाख्यं सर्वं वै विष्णुदैवतं ।अप्_208.003अब्।
रवीशब्रह्मलक्ष्म्याद्याः(2) सर्वे विष्णोर्विभूतयः

208.004

तमुद्दिश्य व्रतं दानं पूजादि स्यात्तु सर्वदं ।अप्_208.004अब्।
जगत्पते समागच्छ आसनं पाद्यमर्घ्यकं

208.005

मधुपर्कं तथाचामं स्नानं वस्तञ्च गन्धकं ।अप्_208.005अब्।
:न्
1 भोजनानि इति ग.. , ज.. च
2 रवीशब्रह्मलोकेशा इति ज..
:प् 253
पुष्पं धूपश् च दीपश् च नैवेद्यादि नमो ऽस्तु ते

208.006

इति पूजाव्रते दाने दानवाक्यं समं शृणु ।अप्_208.006अब्।
अद्यामुकसगोत्राय विप्रायामुकशर्मणे

208.007

एतद् द्रव्यं विष्णुदैवं सर्वपापोपशान्तये।अप्_208.007अब्।
आयुरारोग्यवृद्ध्यर्थं सौभाग्यादिविवृद्धये(1)

208.008

गोत्रसन्ततिवृद्ध्यर्थं विजयाय धनाय च ।अप्_208.008अब्।
धर्मायैश्वर्यकामाय तत्पापशमनाय च

208.009

संसारमुक्तये दानन्तुभ्यं सम्प्रददे ह्य् अहं ।अप्_208.009अब्।
एतद्दानप्रतिष्ठार्थं तुभ्यमेतद् ददाम्यहं

208.010

एतेन प्रीयतां नित्यं सर्वलोकपतिः प्रभुः ।अप्_208.010अब्।
यज्ञदानव्रतपते विद्याकीर्त्यादि देहि मे

208.011

धर्मकामार्थमोक्षांश् च देहि मे मनसेप्सितं ।अप्_208.011अब्।
यः पठेच्छृणुयान्नित्यं व्रतदानसमुच्चयं

208.012

स प्राप्तकामो विमलो भुक्तिमुक्तिमवाप्नुयात् ।अप्_208.012अब्।
तिथिवारर्क्षसङ्क्रान्तियोगमन्वादिकं व्रतं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc