अग्नि पुराण · अध्याय 20
:ए इत्य् आदिमाहापुराणे आग्नेये प्रतिसर्गवर्णनं नाम
ऊनविंशतितमो ऽध्यायः
% छप्तेर् {20}
:श् अथ विंशतितमो ऽध्यायः
सर्गविषयकवर्णनं
अग्निर् उवाच
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ।अप्_20.001अब्।
तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः
वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ।अप्_20.002अब्।
इत्येष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः
मुख्यः सर्गश् चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ।अप्_20.003अब्।
तिर्यक्स्रोतास्तु यः प्रोक्तः स्तैर्यग्योन्यस्ततः स्मृतः
तथोर्ध्वस्रोतसां षष्ठो देवसर्गस्तु स स्मृतः ।अप्_20.004अब्।
ततोर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः
अष्टमोनुग्रहः सर्गैः सात्विकस्तामसश् च यः ।अप्_20.005अब्।
पञ्चैते वैकृताः सर्गाः प्राकृताश् च त्रयः स्मृताः
प्राकृतो वैकृतश् चैव कौमारो नवमस् तथा ।अप्_20.006अब्।
:प् 50
ब्रह्मतो नव सर्गास्तु जगतो मूलहेतवः
ख्यात्याद्या दक्षकन्यास्तु भृग्वाद्या उपयेमिरे ।अप्_20.007अब्।
नित्यो नैमित्तकः सर्गस्त्रिधा प्रकथितो जनैः
प्राकृता दैनन्दिनी स्यादन्तरप्रलयादनु ।अप्_20.008अब्।
जायते यत्रानुदिनं मित्यसर्गो हि सम्मतः
देवौ धाताविधातारौ भृगोः ख्यातिरसूयत ।अप्_20.009अब्।
श्रियञ्च पत्नी विष्णोर्या स्तुता शक्रेण वृद्धये
धातुर्विधार्तुर्द्वौ पुत्रौ क्रमात् प्राणो मृकण्डुकः ।अप्_20.010अब्।
मार्कण्डेयो मृकण्डोश् च जज्ञे वेदशिरास्ततः
पौर्णमासश् च सम्भूत्यां मरीचेरभवत् सुतः ।अप्_20.011अब्।
स्मृत्यामङ्गिरसः पुत्राः सिनीवाली कुहूस् तथा
राकाश्चानुमतिश्चात्रेरनसूयाप्यजीजनत् ।अप्_20.012अब्।
सोमं दुर्वाससं पुत्रं दत्तात्रेयञ्च योगिनम्
प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस्तत्सुतोभवत् ।अप्_20.013अब्।
क्षमायां(1) पुलहाज्जाताः सहिष्णुः कर्मपादिकाः
सन्नत्याञ्च क्रतोरासन् बालिखिल्या महौजसः ।अप्_20.014अब्।
अङ्गुष्ठपर्वमात्रास्ते ये हि षष्टिसहस्विणः
उर्जायाञ्च वशिष्ठाच्च राजा गात्रोर्ध्वबाहुकः(2) ।अप्_20.015अब्।
सवनश्चालघुः शुक्रः(3) सुतपाः सप्त चर्षयः
पावकः पवमानोभूच्छुचिः स्वाहाग्निजोभवत् ।अप्_20.016अब्।
:न्
1 कुमार्यामिति ख, चिह्नितपुस्तकपाठः
2 रजोगोत्रोर्ध्वाहुक इति ख, चिह्नितपुस्तकपाठः राजा
शात्रोर्ध्वबालक इति ग, चिह्नितपुस्तकपाठः, रजोगोत्रोर्ध्ववाहक इति
ङ, चिह्नितपुस्तकपाठः
3 सबलश्चानघः शुक्र इति घ, चिह्नितपुस्तकपाठः
:प् 51
अग्निस्वात्ता वर्हिषदो ऽनग्नयः साग्नयो ह्य् अजात्(1)
पितृभ्यश् च स्वधायाञ्च मेना वैधारिणी सुते(2) ।अप्_20.017अब्।
हिंसाभार्या त्वधर्मस्य तयोर्जज्ञे तथानृतम्
कन्या च निकृतिस्ताभ्यां भयन्नरकेमेव च ।अप्_20.018अब्।
माया च वेदना चैव मिथुनन्त्विदमेतयोः
तयोर्जज्ञेथ वै मायां मृत्युं भूतापहारिणम् ।अप्_20.019अब्।
वेदना च सुतं चापि दुःखं जज्ञेथ रौरवात्
मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश् च जज्ञिरे ।अप्_20.020अब्।
ब्रह्मणश् च रुदन् जातो रोदनाद्रुद्रनामकः
भवं शर्वमथेशानं तथा पशुपतिं द्विज ।अप्_20.021अब्।
भीममुग्रं महादेवमुवाच स पितामहः
दक्षकोपाच्च तद्भार्या देहन्तत्याज सा सती ।अप्_20.022अब्।
हिमवद्दुहिता भूत्वा पत्नी शम्भोरभूत् पुनः
ऋषिभ्यो नारदाद्युक्ताः पूजाः स्नानादिपूर्विकाः ।अप्_20.023अब्।
स्वायम्भुवाद्यास्ताः कृत्वा विष्ण्वादेर्भुक्तिमुक्तिदाः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0