भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 19

19.001

:ए इत्य् आदिमाहापुराणे आग्नेये जगत्सर्गवर्णनं नाम
अष्टादशो ऽध्यायः
% छप्तेर् {19}
:श् अथोनविंशतितमो ऽध्यायः
कश्यपवंशवर्णनम्
अग्निर् उवाच
कश्यपस्य वेदे सर्गमदित्यादिषु हे मुने ।अप्_19.001अब्।
चाक्षुषे तुषिता देवास्ते ऽदित्यां कश्यपात्पुनः

19.002

आसन् विष्णुश् च शक्रश् च त्वष्टा धाता तथार्यमा ।अप्_19.002अब्।
पूषा विवस्वान् सविता मित्रोथ वरुणो भगः

19.003

अंशुश् च द्वादशादित्या आसन् वैवस्वतेन्तरे ।अप्_19.003अब्।
अरिष्टनेमिपत्रीनामपत्यानीह षोडश

19.004

बहुपुत्रस्थ विदुषश् चतस्रो विद्युतः सुताः(2) ।अप्_19.004अब्।
प्रत्यङ्गिरजाः श्रेष्ठाः कृशाश्वस्य सुरायुधाः

19.005

उदयास्तमने सूर्ये तद्वदेते युगे युगे ।अप्_19.005अब्।
हिरण्यकशिपुर्दित्यां हिरण्याक्षश् च कश्यपात्

19.006

:न्
1 सप्तम इति ख ङ, चिह्नितपुस्तकपाठः
2 स्मृता इति ग, चिह्नितपुस्तकपाठः
:प् 47
सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ।अप्_19.006अब्।
राहुप्रभृतयस्तस्यां सैंहिकेया इति श्रुताः

19.007

हिरण्यकशिपोः पुत्राश् चत्वारः प्रथितौजसः ।अप्_19.007अब्।
अनुह्रादश् च ह्रादश् च प्रह्रादश्चातिवैष्णवः

19.008

संह्रादश् च चतुर्थोभूत् ह्रादपुत्रो ह्रदस् तथा ।अप्_19.008अब्।
ह्रदस्य पुत्र आयुष्मान्(1) शिबिर्वास्कल एव च

19.009

विरोवनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात् ।अप्_19.009अब्।
बलेः पुत्रशतं त्वासीद्वाणश्रेष्ठं(2) महामुने

19.010

पुराकल्पे हि बाणेन प्रसाद्योमापतिं वरः(3) ।अप्_19.010अब्।
पार्श्वतो विहरिष्यामीत्येवम् प्राप्तश् च ईश्वरात्(4)

19.011

हिरण्याक्षसुताः पञ्च शम्बरः शकुनिस्त्विति(5) ।अप्_19.011अब्।
द्विमूर्धा शङ्कुरार्यश् च(6) शतमासन् दनोः सुताः

19.012

स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची स्मृता ।अप्_19.012अब्।
उपदानवी हयशिरा शर्मिष्ठा वार्षपर्वणी

19.013

पुलोमा कालका चैव वैश्वानरसुते उभे ।अप्_19.013अब्।
कश्यपस्य तु भार्ये द्वे तयोः पुत्राश् च कोटयः

19.014

प्रह्रादस्य चतुष्कोट्यो निवातकवचाः कुले ।अप्_19.014अब्।
ताम्रायाः षट् सुताः स्युश् च काकी श्वेनी च भास्यपि

19.015

गृध्रिका शुचि सुग्रीवा(7) ताभ्यः काकादयो ऽभवन् ।अप्_19.015अब्।
:न्
1 संह्रादपुत्र आयुष्मानिति ख, ग, चिह्नितपुस्तकद्वयपाठः
2 वाणज्येष्ठमिति ख, ग, चिह्नितपुस्तकद्वयपाठः
3 प्रभुमिति ख, चिह्नितपुस्तकद्वयपाठः
4 इत्य् एवं प्राप्तमीश्वरादिति ख, चिह्नितपुस्तकपाठः
5 झर्झरः शकुनिस्त्वतीति ख, चिह्नितपुस्तकपाठः । शक्निस्त्वथेति
ङ, चिह्नितपुस्तकपाठः
6 द्विमूर्धा शम्बराद्याश् च इति ख, चिह्नितपुस्तकपाठः
7 गृध्रिका च शुचिग्रीवो इति ख, चिह्नितपुस्तकपाठः
गृध्रिकाशुचिसुग्रीवो इति ग, चिह्नितपुस्तकपाठः
:प् 48
अश्वाश्चोष्ट्राश् च ताम्राया अरुणो गरुडस् तथा

19.016

विनतायाः सहस्रन्तु सर्पाश् च सुरसाभवाः ।अप्_19.016अब्।
काद्रवेयाः सहस्रन्तु शेषवासुकितक्षकाः

19.017

दंष्ट्रिणः क्रोधवशजा धरोत्थाः(1) पक्षिणो जले ।अप्_19.017अब्।
सुरभ्यां गोमहिष्यादि इरोत्पन्नास्तृणादयः

19.018

स्वसायां यक्षरक्षांसि मुनेरश्वरसोभवन् ।अप्_19.018अब्।
अरिष्टायान्तु गन्धर्वाः कश्यपाद्धि स्थिरञ्चरं(2)

19.019

एषां पुत्रादयो ऽसङ्ख्या देवैर् वै दानवा जिताः(3) ।अप्_19.019अब्।
दितिर्विनष्टपुत्रा वै तोषयामास कश्यपं

19.020

पुत्रमिन्द्रप्रहर्तारमिच्छती प्राप कश्यपात् ।अप्_19.020अब्।
पादाप्रक्षालनात् सुप्ता तस्या गर्भं जघान ह

19.021

छिद्रमन्विष्य चेन्द्रस्तु ते देवा मरुतो ऽभवन् ।अप्_19.021अब्।
शक्रस्यैकोनपञ्चाशत्सहाया दीप्ततेजसः

19.022

एतत्सर्वं हरिर्ब्रह्मा अभिषिच्य पृथुं नृपं ।अप्_19.022अब्।
ददौ क्रमेण राज्यानि अन्येषामधिपो हरिः

19.023

द्विजौषधीनां चन्द्रश् च अपान्तु वरुणो नृपः ।अप्_19.023अब्।
राज्ञां वैश्रवणो राजा सूर्याणां विष्णोरीश्वरः

19.024

वसूनां पावको राजा मरुतां वासवः प्रभुः ।अप्_19.024अब्।
प्रजापतीनां दक्षो ऽथ प्रह्लादो दानवाधिपः

19.025

पितॄणां च यमो राजा भूतादीनां हरः(4) प्रभुः ।अप्_19.025अब्।
हिमवांश् चैव शैलानां नदीनां सागरः प्रभुः

19.026

:न्
1 धरण्या इति ख, चिह्नितपुस्तकपाठः
2 कश्यपादि परस्परमिति ख, चिह्नितपुस्तकपाठः
3 देवैर् दाइत्याः पराजिता इति ख, चिह्नितपुस्तकपाठः
4 भूतानाञ्च हर इति ग, ङ, चिह्नितपुस्तकद्वयपाठः
:प् 49
गान्धर्वाणां चित्ररथो नागानामथ वासुकिः ।अप्_19.026अब्।
सर्पाणां तक्षको राजा गरुडः पक्षिणामथ

19.027

ऐरावतो गजेन्द्राणां गोवृषोथ गवामपि ।अप्_19.027अब्।
मृगणामथ शार्दूलः प्लक्षो वनस्पतीश्वरः

19.028

उच्चैःश्रवास् तथाश्वानां सुधन्वा पूर्वपालकः ।अप्_19.028अब्।
दक्षिणस्यां शङ्खपदः केतुमान् पालको जले ।अप्_19.028च्द्।
हिरण्यरोमकः सौम्ये प्रतिसर्गोयमीरितः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc