भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 21

21.001

:ए इत्य् आदिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम विंशतितमो
ऽध्यायः
% छप्तेर् {21}
:श् अथ एकविंशो ऽध्यायः
सामान्यपूजाकथनं
नारद उवाच
सामान्यपूजां विष्ण्वादेर्वक्ष्ये मन्त्रांश् च सर्वदान् ।अप्_21.001अब्।
समस्तपरिवाराय अच्युताय नमो यजेत्

21.002

:न्
1 साग्नयो ह्य् अगादिति ख, चिह्नितपुस्तकपाठः, अग्निपाला वर्हिषदो ह्य्
आज्यपाः साग्नयो ह्य् अजादिति घ, चिह्नितपुस्तकपाठः
2 वैसारणी सुते इति ख, चिह्नितपुस्तकपाठः
:प् 52
धात्रे विधात्रे गङ्गायै यमुनायै निधी तथा ।अप्_21.002अब्।
द्वारश्रियं वस्तुनवं शक्तिं कूर्ममनन्तकम्

21.003

पृथिवीं धर्मकं ज्ञानं वैराग्यैश्वर्यमेव च ।अप्_21.003अब्।
अधर्मादीन् कन्दनालपद्मकेशरकर्णिकाः

21.004

ऋग्वेदाद्यं कृताद्यञ्च सत्वाद्यर्कादिमण्डलम् ।अप्_21.004अब्।
विमलोत्कर्षिणी ज्ञाना क्रिया योगा च ता यजेत्

21.005

प्रह्वीं सत्यां तथेशानानुग्रहासनमूर्तिकाम्(1) ।अप्_21.005अब्।
दुर्गां गिरङ्गणं(2) क्षेत्रं वासुदेवादिकं यजेत्

21.006

हृदयञ्च शिरः शूलं वर्मनेत्रमथास्त्रकम् ।अप्_21.006अब्।
शङ्खं चक्रं गदां पद्मं श्रीवत्सं कौस्तुभं यजेत्

21.007

वनमालां श्रियं पुष्टिं गरुडं गुरुमर्चयेत् ।अप्_21.007अब्।
इन्द्रमग्निं यमं रक्षो जलं वायुं धनेश्वरम्

21.008

ईशानन्तमजं चास्त्रं वाहनं कुमुदादिकम् ।अप्_21.008अब्।
विष्वक्सेनं मण्डलादौ सिद्धिः पूजादिना भवेत्

21.009

शिवपूजाथ सामान्या पूर्वं नन्दिनमर्चयेत् ।अप्_21.009अब्।
महाकालं यजेद्गङ्गां(3) यमुनाञ्च गणादिकम्

21.010

गिरं श्रियं(4) गुरुं वास्तुं शक्यादीन् धर्मकादिकम् (5) ।अप्_21.010अब्।
वामा ज्येष्ठा तथा रौद्री काली कलविकारिणी

21.011

बलविकरिणी चापि बलप्रमथिनी क्रमात् ।अप्_21.011अब्।
:न्
1 प्रह्वी सन्ध्या तथेशानानुग्रहासनमूर्तिका इति ग,
चिह्नितपुस्तकपाठः
2 दुर्गां गिरिं गणमिति ख, चिह्नितपुस्तकपाठः दुर्गां
शिवं गणमिति घ, चिह्नितपुस्तकपाठः
3 यजेत् दुर्गां इति ख, घ, चिह्नितपुस्तकपाठः
4 गिरिं श्रियमिति ख, चिह्नितपुस्तकपाठः शिवं श्रियतमिति घ,
चिह्नितपुस्तकपाठः
5 गौरीं श्रियं गुरुं चास्त्रं शक्त्यादिं धर्मकादिकमिति ङ,
चिह्नितपुस्तकपाठः
:प् 53
सर्वभूतदमनी च मदनोन्मादिनी शिवासनं

21.012

हां हुं हां शिवमूर्तये साङ्गवक्त्रं शिवं यजेत् ।अप्_21.012अब्।
हौं शिवाय हामित्यादि हामीशानादिवक्त्रकं

21.013

ह्रीं गौरीं गं गणः शक्रमुखाश् चण्डीहृतादिकाः ।अप्_21.013अब्।
क्रमात्सूर्यार्चने मन्त्रा दण्डी पूज्यश् च पिङ्गलः

21.014

उच्चैःश्रवाश्चारुणश् च प्रभूतं विमलं यजेत् ।अप्_21.014अब्।
साराध्योपरमसुखं(1) स्कन्दाद्यं मध्यतो यजेत्

21.015

दीप्ता सूक्ष्मा जया भद्रा विभूतिर्विमला तथा ।अप्_21.015अब्।
अमोघा विद्युता चैव पूज्याथ सर्वतोमुखी

21.016

अर्कासनं हि हं खं ख सोल्कायेति च मूर्तिकाम् ।अप्_21.016अब्।
ह्रां ह्रीं स सूर्याय नम आं नमो हृदाय च

21.017

अर्काय शिरसे तद्वदग्नीशासुरवायुगान्(2) ।अप्_21.017अब्।
भूर्भुवः स्वरे ज्वालिनि शिखा हुं कवचं स्मृतं

21.018

भां नेत्रं वस् तथार्कास्त्रं राज्ञी शक्तिश् च निष्कुभा(3) ।अप्_21.018अब्।
सोमो ऽङ्गारकोथ बुधो जीवः शुक्रः शनिः क्रमात्

21.019

राहुः केतुस्तेजश् चण्डः सङ्क्षेपादथ पूजनं ।अप्_21.019अब्।
आसनं मूर्तये मूलं हृदाद्यं परिचारकः

21.020

विष्ण्वासनं विष्णुर्मूर्तेरों श्रीं श्रीं श्रीधरोहरिः ।अप्_21.020अब्।
ह्रीं सर्वमूर्तिमन्त्रोयमिति त्रैलोक्यमोहनः

21.021

ह्रीं हृषीकेशः क्लीं विष्णुः स्वरैर् दीर्घैर्हृदादिकं ।अप्_21.021अब्।
समस्तैः पञ्चमी पूजा सङ्ग्रामादौ जयादिदा

21.022

:न्
1 सावाराध्योपरं दुःखमिति ख, चिह्नितपुस्तकपाठः
2 अग्निसाश्रयवायुगानिति ख, चिह्नितपुस्तकपाठः । अर्काय शिरसे
तद्वदग्निजायायुतञ्च तदिति ङ,चिह्नितपुस्तकपाठः
3 शक्तिश् च निर्गता इति ख, चिह्नितपुस्तकपाठः
:प् 54
चक्रं गदां क्रमाच्छङ्खं मुषलं खड्गशार्ङ्गकम् ।अप्_21.022अब्।
पाशाङ्कुशौ च श्रीवत्सं कौस्तुभं वनमालया

21.023

श्रीं श्रीर्महालक्ष्मीतार्क्ष्यो गुरुरिन्द्रादयो ऽर्चनम् ।अप्_21.023अब्।
सरस्वत्यासनं मूर्तिरौं ह्रीं दधी सरस्वती

21.024

हृदाद्या लक्ष्मीर्मेधा च कलातुष्टिश् च पुष्टिका ।अप्_21.024अब्।
गौरी प्रभामती दुर्गा गणो गुरुश् च क्षेत्रपः

21.025

तथा गं गणपतये च ह्रीं गौर्यै च श्रीं श्रियै ।अप्_21.025अब्।
ह्रीं त्वरितायै ह्रीं सौ त्रिपुरा(1) चतुर्थ्यन्तनमोन्तकाः

21.026

प्रणवाद्याश् च नामाद्यमक्षरं विन्दुसंयुतं ।अप्_21.026अब्।
ओं युतं वा सर्वमन्त्रपूजनाज्जपतः स्मृताः

21.027

होमात्तिलघृताद्यैश् च धर्मकामार्थमोक्षदाः ।अप्_21.027अब्।
पूजामन्त्रान् पठेद्यस्तु भुक्तभोगो दिवं व्रजेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc