भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 2

2.001

:ए इत्य् आदिमहापुराणे आग्नेये प्रश्नो नाम प्रथमोध्यायः ॥
% छप्तेर् {2}
:श् अथ द्वितीयो ऽध्यायः
मत्स्यावतारवर्णनं
वशिष्ठ उवाच
मत्स्यादिरूपिणं विष्णुं ब्रूहि सर्गादिकारणम् ।अप्_2.001अब्।
पुराणं ब्रह्म चाग्नेयं यथा विष्णोः पुरा श्रुतम्

2.002

अग्निर् उवाच
मत्स्यावतारं वक्ष्ये ऽहं वसिष्ठ शृणु वै हरेः ।अप्_2.002अब्।
अवतारक्रिया दुष्ट- नष्ट्यै सत्पालनाय हि

2.003

आसीदतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।अप्_2.003अब्।
समुद्रोपप्लुतास्तत्र लोका भूरादिका मुने

2.004

मनुर्वैवस्वतस्तेपे तपो वै भुक्तिमुक्तये ।अप्_2.004अब्।
एकदा कृतमालायां कुर्वतो जलतर्पणं

2.005

तस्याञ्जल्युदके मत्स्यः स्वल्प एको ऽभ्यपद्यत ।अप्_2.005अब्।
क्षेप्तुकामं जले प्राह न मां क्षिप नरोत्तम(3)

2.006

:न्
1 ब्रह्मावगम्यते इति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः
2 अगोत्रचरणं परमिति ग, चिह्नितपुस्तकपाठः
3 न मां क्षिप नृपोत्तम इति ख, ग, घ,
चिह्नितपुस्तकत्रयपाठः
:प् 3
प्>ग्राहादिभ्यो भयं मे ऽद्य(1) तच् छ्रुत्वा कलशे ऽक्षिपत् ।अप्_2.006अब्।
स तु वृद्धः पुनर्मत्स्यः प्राह तं देहि मे वृहत्

2.007

स्थानमेतद्वचः श्रुत्वा राजाथोदञ्चने ऽक्षिपत् ।अप्_2.007अब्।
तत्र वृद्धो ऽब्रवीद्भूपं पृथु देहि पदं मनो

2.008

सरोवरे पुनः क्षिप्तो ववृधे तत्प्रमाणवान् ।अप्_2.008अब्।
ऊचे देहि वृहत् स्थानं(2) प्राक्षिपच्चाम्बुधौ ततः(3)

2.009

लक्षयोजनविस्तीर्णः क्षणमात्रेण सो ऽभवत् ।अप्_2.009अब्।
मत्स्यं तमद्भुतं दृष्ट्वा विस्मितः प्राब्रवीन् मनुः

2.010

को भवान् ननु वै विष्णुर्(4) नारायण नमोस्तुते ।अप्_2.010अब्।
मायया मोहयसि मां किमर्थं त्वं जनार्दन

2.011

मनुनोक्तो ऽब्रवीन्मत्स्यो मनुं वै पालने रतम् ।अप्_2.011अब्।
अवतीर्णो भवायास्य जगतो दुष्टनष्टये

2.012

सप्तमे दिवसे त्वब्धिः प्लावयिष्यति वै जगत् ।अप्_2.012अब्।
उपस्थितायां नावि त्वं वीजादीनि विधाय च

2.013

सप्तर्षिभिः परिवृतो निशां ब्राह्मीं चरिष्यसि ।अप्_2.013अब्।
उपस्थितस्य मे शृङ्गे निबध्नीहि महाहिना

2.014

इत्युक्त्वान्तर्दधे मत्स्यो(5) मनुः कालप्रतीक्षकः(6) ।अप्_2.014अब्।
स्थितः समुद्र उद्वेले नावमारुरुहे तदा

2.015

एकशृङ्गधरो मत्स्यो हैमो नियुतयोजनः ।अप्_2.015अब्।
:न्
1 मे ऽत्र इति ख, चिह्नितपुस्तकपाठः
2 पुनः स्थानमिति ख, चिह्नितपुस्तकपाठः
3 अम्बुधौ मनुरिति ख, घ, चिह्नितपुस्तकद्वयपाठः
4 ननु विष्णुस्त्वमिति ख, ग, घ, चिह्नितपुस्तकत्रयपाठः
5 इत्य् उक्तान्तर्हितो मत्स्य इति घ, चिह्नितपुस्तकपाठः
6 इत्य् उक्त्वा देवमत्स्यात्मा बृहत्कारणसङ्गत इति ग,
चिह्नितपुस्तकपाठः
:प् 4
नावम्बबन्ध तच्छृङ्गे(1) मत्स्याख्यं च पुराणकम्

2.016

शुश्राव मत्स्यात्पापघ्नं संस्तुवन् स्तुतिभिश् च तं(2) ।अप्_2.016अब्।
ब्रह्मवेदप्रहर्तारं हयग्रीवञ्च दानवं

2.017

अवधीत्, वेदमत्स्याद्यान् पालयामास केशवः ।अप्_2.017अब्।
प्राप्ते कल्पे ऽथ वाराहे कूर्मरूपो ऽभवद्धरिः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc