अग्नि पुराण · अध्याय 3
:ए इत्य् आदिमहापुराणे आग्नेये मत्स्यावतारो नाम द्वितीयो ऽध्यायः
॥
% छप्तेर् {3}
:श् अथ तृतीयो ऽध्यायः
कूर्मावतारवर्णनं
अग्निर् उवाच
वक्ष्ये कूर्मावतारञ्च श्रुत्वा पापप्रणाशनम्(3) ।अप्_3.001अब्।
पुरा देवासुरे युद्धे दैत्यैर् देवाः पराजिताः
दुर्वाससश् च शापेन निश्रीकाश्चाभवंस्तदा ।अप्_3.002अब्।
स्तुत्वा क्षीराब्धिगं(4) विष्णुम् ऊचुः पालय चासुरात्
ब्रह्मादिकान् हरिः प्राह सन्धिं कुर्वन्तु चासुरैः(5) ।अप्_3.003अब्।
क्षीराब्धिमथनार्थं हि अमृतार्थं श्रिये ऽसुराः
अरयो ऽपि हि सन्धेयाः सति कार्यार्थगौरवे ।अप्_3.004अब्।
युष्मानमृतभाजो हि कारयामि(6) न दानवान्
:न्
1 नावं बध्वा तस्य शृङ्गे इति ख, घ,
चिह्नितपुस्तकद्वयपाठः
2 स्तुतिभिर्मनुरिति ग, चिह्नितपुस्तकपाठः
3 संश्रुतं पापनाशनमिति ख, ग, घ
चिह्नितपुस्तकत्रयपाठः
4 सुरा क्षीराब्धिगमिति ग, घ, चिह्नितपुस्त्कद्वयपाठः
5 सन्धिं कुरुत चासुररिति ग, चिह्नितपुस्तकपाठः
6 भाजो हि करिष्यामि इति ख, चिह्नितपुस्तकपाठः
:प् 5
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु (1) वासुकिम् ।अप्_3.005अब्।
क्षीराब्धिं मत्सहायेन निर्मथध्वमतन्द्रिताः
विष्णूक्तां संविदं कृत्वा दैत्यैः क्षीराब्धिमागताः ।अप्_3.006अब्।
ततो मथितुमारब्धाः यतः पुच्छन्ततः सुराः
फणिनिःश्वाससन्तप्ता(2) हरिणाप्यायिताः सुराः ।अप्_3.007अब्।
मथ्यमाने ऽर्णवे सो ऽद्रिर् अनाधारो ह्य् अपो ऽविशत्
कूर्मरूपं समास्थाय दध्रे विष्णुश् च मन्दरम् ।अप्_3.008अब्।
क्षीराब्धेर्मथ्यमानाच्च विषं हालाहलं ह्य् अभूत्
हरेण धारितं कण्ठे नीलकण्ठस्ततो ऽभवत्(3) ।अप्_3.009अब्।
ततो ऽभूद्वारुणी देवी पारिजातस्तु कौस्तुभः
गावश्चाप्सरसो दिव्या लक्ष्मीर्देवी हरिङ्गता ।अप्_3.010अब्।
पश्यन्तः सर्वदेवास्तां स्तुवन्तः सश्रियो ऽभवन्
ततो धन्वन्तरिर्विष्णुर् आयुर्वेदप्रवर्तकः(4) ।अप्_3.011अब्।
बिभ्रत् कमण्डलुम्पूर्णम् अमृतेन समुत्थितः
अमृतं तत्कराद्दैत्या सुरेभ्यो ऽर्धं प्रदाय च ।अप्_3.012अब्।
गृहीत्वा जग्मुर्जन्माद्या विष्णुः स्त्रीरूपधृक् ततः
तां दृष्ट्वा रूपसम्पन्नां दैत्याः प्रोचुर्विमोहिताः ।अप्_3.013अब्।
भव भार्यामृतं गृह्य पाययास्मान् वरानने
तथेत्युक्त्वा हरिस्तेभ्यो गृहीत्वापाययत्सुरान् ।अप्_3.014अब्।
चन्द्ररूपधरो राहुः पिबंश्चार्केन्दुनार्पितः (5)
:न्
1 रज्जं कृत्वा तु इति ख, चिह्नितपुस्तकपाठः
2 निःश्वाससंग्लाना इति ख, घ, चिह्नितपुस्तकद्वयपाठः
3 ततो हर इति ग, घ, चिह्नितपुस्तकद्वयपाठः
4 प्रदर्शक इति ख, ग, चिह्नितपुस्तकद्वयपाठः
5 अकन्दुसूचित इति ख, चिह्नितपुस्तकपाठः
:प् 6
हरिणाप्यरिणा च्छिन्नं(1) स राहुस्तच्छिरः पृथक् ।अप्_3.015अब्।
कृपयामरतान्नीतं वरदं हरिमब्रवीत्
राहुर्मत्तस्तु चन्द्रार्कौ प्राप्स्येते ग्रहणं ग्रहः ।अप्_3.016अब्।
तस्मिन् कले च यद्दानं दास्यन्ते स्यात् तदक्षयं(2)
तथेत्याहाथ तं विष्णुस् ततः सर्वैः सहामरैः ।अप्_3.017अब्।
स्त्रीरूपं सम्परित्यज्य हरेणोक्तः प्रदर्शय
दर्शयामास रुद्राय स्त्रीरूपं भगवान् हरिः ।अप्_3.018अब्।
मायया मोहितः शम्भुः गौरीं त्यक्त्वा स्त्रियं गतः
नग्न उन्मत्तरूपो ऽभूत् स्त्रियः केशानधारयत्(3) ।अप्_3.019अब्।
अगाद्विमुच्य केशान् स्त्री अन्वधावच्च ताङ्गताम्
स्खलितं तस्य वीर्यं कौ यत्र यत्र हरस्य हि ।अप्_3.020अब्।
तत्र तत्राभवत् क्षेत्रं लिङ्गानां कनकस्य च (4)
मायेयमिति तां ज्ञात्वा स्वरूपस्थो ऽभवद्धरः ।अप्_3.021अब्।
शिवमाह हरी रुद्र जिता माया त्वया हि मे
न जेतुमेनां शक्तो मे त्वदृते ऽन्यः पुमान् भुवि ।अप्_3.022अब्।
अप्राप्याथामृतं दैत्या देवैर् युद्धे निपातिताः ।अप्_3.022च्द्।
त्रिदिवस्थाः सुराश्चासन् यः पठेत् त्रिदिवं व्रजेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0