अग्नि पुराण · अध्याय 1
अग्निपुराणं ।
अथाग्निपुराणानुक्रमणिका ।
अध्याये विषयः पृष्ठे
1 पुराणप्रश्नः 1
2 मत्स्यावतारवर्णनम् 3
3 कूर्मावतारवर्णनम् 5
4 वराह-नृसिंह-वामन-परशुरामावतारवर्णनम् 8
5 रामावतारवर्णनम् 10
12 हरिवंशकथनम् 28
13 भारताख्यानम् 33
16 बुद्धकल्क्यवतारवर्णनम् 39
17 नवसर्गप्रदर्शनं 40
21 आगमोक्तविष्ण्वादिदेवतासामान्यपूजा 52
22 स्नानविधिः 55
23 वासुदेवादिपूजाविधिः 56
24 कुण्डनिर्माणाद्यग्निकार्यकथनम् 59
25 वासुदेवादिमन्त्रनिरूपणम् 65
26 मुद्रालक्षणकथनम् 70
27 सर्वदीक्षाकथनम् 71
28 आचार्याभिषेकः 79
29 सर्वतोभद्रमण्डलादिलक्षणम् 79
30 मण्डलविधिः 84
31 कुशापामर्जनकथनम् 87
32 दीक्षितसंस्कारः 92
33 विष्णुपवित्रारोहणादिविधानम् 93
37 सर्वदेवपवित्रारोहणविधिः 107
38 देवालयनिर्माणफलम् 109
39 भूमिपरिग्रहः 114
40 अर्घ्यदानविधिः 116
41 शिलाविन्यासः 119
42 प्रासादलक्षणकथनम् 122
43 प्रासाददेवतास्थापनादिकथनम् 125
44 वासुदेवादिप्रतिमालक्षणकथनम् 128
45 पिण्डिकालक्षणम् 132
46 शालग्रामादिमूर्तिलक्षणम् 134
47 शालग्रामादिपूजा 135
48 विष्णुचतुर्विंशतिमूर्तिस्तोत्रं 137
49 मत्स्यादिप्रतिमालक्षणम् 138
50 देवीप्रतिमालक्षणम् 145
51 सूर्यादिप्रतिमालक्षणम् 145
52 योगिनीप्रतिमालक्षणम् 147
53 लिङ्गलक्षणम् 150
54 व्यक्ताव्यक्तलिङ्गलक्षणम् 152
55 लिङ्गपिण्डिकालक्षणम् 157
56 दिक्पालयागकथनम् 158
57 कलशाधिवासः 161
58 देवस्नपनविधिः 164
59 देवाधिवासनविधिः 167
60 वासुदेवप्रतिष्ठा 173
61 द्वारप्रतिष्ठाध्वजारोहणादिकथनं 177
62 लक्ष्मीप्रतिष्ठा 182
63 सुदर्शनचक्रादिप्रतिष्ठा 187
64 कूपादिप्रतिष्ठा 183
65 सभागृहस्थापनम् 191
66 साधारणप्रतिष्ठा 194
67 जीर्णमूर्त्युद्धारः 197
68 देवयात्रोत्सवः 198
69 यज्ञावभृथस्नानं 200
70 वृक्षारामादिप्रतिष्ठा 202
71 विनायकपूजा 203
72 विशेषस्नानादिकथनम् 204
73 सूर्यार्चनं 209
74 शिवपूजा 211
75 अग्निस्थापनादिकथनम् 220
76 चण्डपूजा 227
77 कपिलादिपूजनम् 228
78 पवित्राधिवासनविधिः 231
79 पवित्रारोहणम् 238
80 दमनकारोहणविधिः 242
81 समयदीक्षा 244
82 संस्कारदीक्षा 253
83 निर्वाणदीक्षाधिवासनं 259
84 निर्वाणदीक्षा 262
89 एकतत्त्वदीक्षा 284
90 निर्वाणदीक्षाङ्गीभूताभिषेककथनं 285
91 नानामन्त्रकथनम् 286
92 पातालशिलान्यासः 288
93 वास्तुपूजा 295
94 प्रासादशिलान्यासः 300
95 शिवलिङ्गप्रतिष्ठासामग्री 302
96 शिवलिङ्गाधिवासनविधिः 310
97 शिवलिङ्गप्रतिष्ठाविधिः 327
98 गौरीप्रतिष्ठाविधिः 339
99 सूर्यप्रतिष्ठाविधिः 341
100 द्वारप्रतिष्ठा 342
101 प्रासादकृत्यप्रतिष्ठा 343
102 ध्वजारोहणम् 345
103 जीर्णशिवलिङ्गोद्धारः 349
104 प्रासादसामान्यलक्षणम् 352
105 गृहादिवास्तुकथनम् 356
106 नगरादिवास्तुकथनम् 392
107 स्वायम्भुवसर्गकथनम् 365
108 भुवनकोषवर्णनम् 367
109 तीर्थमाहात्म्यम् 371
110 गङ्गामाहत्म्यम् 374
111 प्रयागमाहत्म्यम् 375
112 वाराणसीमाहात्म्यकथनम् 377
113 नर्मदादिमाहात्म्यकथनम् 379
114 गयामाहात्म्यकथनम् 380
115-116 गयायात्रा 1
110 श्राद्धकल्पः 14
118 भारतवर्षवर्णनं 21
119 महाद्वीपादिवर्णनं 22
120 भुवनकोषवर्णनं 26
121 ज्योतिःशास्त्रं 30
122 कालगणनं 39
123 युद्धजयार्णवीयनानायोगाः 42
124 युद्धजयार्णवीयज्योतिःशास्त्रसारः 46
125 युद्धजयार्णवीयनानाचक्राणि 48
126 युद्धजयार्णवीयनक्षत्रनिर्णयः 55
127 युद्धजयार्णवीयनानाबलानि 59
128 युद्धजयार्णवीयकोटचक्रं 61
129 युद्धजयार्णवीयार्घ्यकाण्डं 63
130 युद्धजयार्णवीयमण्डलं 64
131 युद्धजयार्णवीयचक्रादिः 66
132 युद्धजयार्णवीयसेवाचक्रं 68
133 युद्धजयार्णवीयनानाबलानि 71
134 युद्धजयार्णवीयत्रैलोक्यविजयविद्या 77
135 युद्धजयार्णवीयसङ्ग्रामविजयविद्या 78
136 युद्धजयार्णवीयनक्षत्रचक्रं 81
137 युद्धजयार्णवीयमहामारीविद्या 82
138 युद्धजयार्णवीयषट्कर्माणि 85
139 युद्धजयार्णवीयषष्टिसंवत्सराणि 87
140 युद्धजयार्णवीयषोडशपदका 89
141 युद्धजयार्णवीयषट्विंशत्पदकज्ञानं 91
142 युद्धजयार्णवीयमन्त्रौषधादयः 93
143 युद्धजयार्णवीयकुब्जिकाक्रमपूजा 95
144 युद्धजयार्णवीयकुब्जिकापूजा 97
145 मालिनीमन्त्रादिन्यासः 102
146 अष्टाष्टकदेवी 105
147 त्वरितापूजादिः 109
148 सङ्ग्रामविजयपूजा 111
149 अयुतलक्षकोटिहोमाः 112
150 मन्वन्तराणि 114
151 वर्णेतरधर्माः 117
152 गृहस्थवृत्तयः 119
153 ब्रह्मचर्याश्रमः 120
154 विवाहः 122
155 आचाराध्यायः 124
156 द्रव्यशुद्धिः 128
157 शावाशौचादिः 130
158 स्रावाद्यशौचं 134
159 असंस्कृतादिशौचं 141
160 वानप्रस्थाश्रमः 143
161 यतिधर्मः 144
162 धर्मशास्त्रं 148
163 श्राद्धकल्पः 150
164 नवग्रहहोमः 154
165 नानाधर्माः 156
166 वर्णधर्माः 159
167 अयुतलक्षकोटिहोमाः 163
165 महापातकादयः 166
166-174 प्रायश्चित्तानि 171
175 व्रतपरिभाषा 192
176 प्रतिपद्व्रतानि 199
177 द्वितीयाव्रतानि 200
178 तृतीयाव्रतानि 202
179 चतुर्थीव्रतानि 206
180 पञ्चमीव्रतानि 207
181 षष्ठीव्रतानि 207
182 सप्तमीव्रतानि 208
183-184 अष्टमीव्रतानि 209
185 नवमीव्रतानि 213
186 दशमीव्रतानि 214
187 एकादशीव्रतानि 216
188 द्वादशीव्रतानि 217
189 श्रवणद्वादशीव्रतं 219
190 अखण्डद्वादशीव्रतं 221
191 त्रयोदशीव्रतानि 222
192 चतुर्दशीव्रतानि 223
193 शिवरात्रिव्रतं 225
194 अशोकपूर्णिमादिव्रतं 226
195 वारव्रतानि 230
196 नक्षत्रव्रतानि 228
197 दिवसव्रतानि 231
198 मासव्रतानि 233
199 नानाव्रतानि 235
200 दीपदानव्रतं 236
201 नवव्यूहार्चनं 238
202 पुष्पाध्यायः 240
203 नरकस्वरूपवर्णनं 243
204 मासोपवासव्रतं 246
205 भीष्मपञ्चकव्रतं 248
206 अगस्त्यार्घ्यदानव्रतं 249
207 कौमुदव्रतं 252
208 व्रतदानादिसमुच्चयः 253
209 दानपरिभाषा 255
210 महादानानि 261
211 नानादानानि 265
212 भेरुदानानि 270
213 पृथ्वीदानानि 276
214 मन्त्रमाहात्म्यं 277
215 सन्ध्याविधिः 282
216-217 गायत्रीनिर्वाणं 287
218 राजाभिषेकः 291
219 अभिषेकमन्त्राः 294
220 शत्रुविजयसहायसम्पत्तिः अनुजीविवृत्तञ्च 302
221 दुर्गसम्पत्तिः 306
222-226 राजधर्माः 309
227 युद्धयात्रा 329
228 स्वप्नाध्यायः 330
229-230-231 शकुनफलं 333
232 यात्रामण्डलचिन्तादिः 343
233 षाड्गुण्यं 345
234 प्रात्यहिकराजकर्म 348
235 रणदीक्षा 350
236 श्रीस्तोत्रं 357
237 रामोक्तनीतिः 359
238 राज्याङ्गानि 361
239 द्वादशराजमण्डलानि सन्धिविग्रहादयश् च 366
240 सामाद्युपायाः 370
241 राजनीतिः 376
242 पुरुषलक्षणं 384
243 स्त्रीलक्षणं 386
244 आयुधलक्षणं 387
245 रत्नपरीक्षा 390
246 वास्तुलक्षणं 392
247 पुष्पादिपूजाफलं 395
248-249-250-251 धनुर्वेदाः 396
252-253 व्यवहाराः 407
254 दिव्यप्रमाणानि 416
255 दायविभागः 423
256 सीमाविवादादिनिर्णयः 425
257 वाक्पारुष्यादिप्रकरणं 430
258 ऋग्विधानं 438
259 यजुर्विधानं 447
260 सामविधानं 455
261 अथर्वविधानं 458
262 उत्पातशान्तिः 461
263 देवपूजावैश्वदेवादिबलिः 464
264 दिक्पालादिस्नानं 467
265 विनायकस्नानं 469
266 माहेश्वरस्नानलक्षकोटिहोमादयः 472
267 नारीजनाविधिः 474
268 छत्रादिमन्त्रादयः 478
269 विष्णुपञ्जरं 1
270 वेदशाखादयः 3
271 दानादिमाहात्म्यं 5
272 सूर्यवंशः 8
273 सोमवंशः 12
274 युदुवंशः 14
275 द्वादशसंग्रामाः 19
276 राजवंशः 22
277 पुरुवंशः 24
278 सिद्धौषधानि 28
279 सर्वरोगहराण्यौषधानि 34
280 रसादिलक्षणं 39
281 वृक्षायुर्वेदः 42
282 नानारोगहराण्यौषधानि 44
283 मन्त्ररूपौषधानि 49
284 मृतसञ्जीवनीकरसिद्धयोगः 50
285 कल्पसागरः 58
286 गजचिकित्सा 61
287 अश्ववाहनसारः 64
288 अश्वचिकित्सा 71
289 अश्वशान्तिः 76
290 गजशान्तिः 77
291 शान्त्यायुर्वेदः 80
292 मन्त्रपरिभाषा 84
293 नागलक्षणानि 89
294 दष्टचिकित्सा 93
295 पञ्चाङ्गरुद्रविधानं 97
296 विषहृन्मन्त्रौषधं 99
297 गोनसादिचिकित्सा 101
298 बालग्रहहरबालतन्त्रं 104
299 ग्रहहृन्मन्त्रादिकं 109
300 मूर्यार्चनं 112
301 नानामन्त्राः 114
302 अङ्गाक्षरार्चनं 117
303 पञ्चाक्षरादिपूजामन्त्राः 119
304 पञ्चपञ्चाशद्विष्णुनामानि 123
305 नारसिंहादिमन्त्राः 125
306 त्रैलोक्यमोहनमन्त्राः 127
307 त्रैलोक्यमोहनीलक्ष्म्यादिपूजा 131
308 त्वरितापूजा 134
309 त्वरितामन्त्रादिः 136
310 त्वरितामूलमन्त्रादिः 140
311 त्वरिताविद्या 144
312 नानामन्त्राः 146
313 त्वरिताज्ञानं 150
314 स्तम्भनादिमन्त्राः 152
315 नानामन्त्राः 154
316 सकलादिमन्त्रोद्धारः 155
317 गणपूजा 159
318 वागीश्वरीपूजा 161
319 मण्डलानि 162
320 अघोरास्त्रादिशान्तिकल्पः 167
321 पाशुपतशान्तिः 169
322 षडङ्गान्यधोरास्त्राणि 171
323 रुद्रशान्तिः 174
324 अंशकादिः 177
325 गौर्यादिपूजा 180
326 देवालयमाहात्म्यं 182
327-328-329 छन्दःसारः 184
330 छन्दोजातिनिरूपनं 188
331 विषमकथनं 190
332 अर्धसमनिरूपणं 191
333 समवृत्तनिरूपणं 192
334 प्रस्तारनिरूपणं 195
335 शिक्षानिरूपणं 196
336 काव्यादिलक्षणं 199
337 नाटकनिरूपणं 203
338 शृङ्गारादिरसनिरूपणं 205
339 रीतिनिरूपणं 211
340 नृत्यादावङ्गकर्मनिरूपणं 212
341 अभिनयादिनिरूपणं 214
342 शब्दालङ्काराः 218
343 अर्थालङ्काराः 224
344 शब्दार्थालङ्काराः 227
345 काव्यगुणविवेकः 229
346 काव्यदोषविवेकः 233
347 एकाक्षराभिधानं 236
348 व्याकरणं 239
349 सन्धिसिद्धरूपं 240
350 पुंलिङ्गशब्दसिद्धरूपं 241
351 स्त्रीलिङ्गशब्दसिद्धरूपं 248
352 नपुंसकशब्दसिद्धरूपं 250
353 कारकं 251
354 समासः 253
355 तद्धितं 255
356 उनादिसिद्धरूपं 258
357 तिङ्विभक्तिसिद्धरूपं 260
358 कृत्सिद्धरूपं 263
359 स्वर्गपातालादिवर्गाः 264
360 अव्ययवर्गाः 272
361 नानार्थवर्गाः 276
362 भूमिवनौषध्यादिवर्गाः 280
363 नृवर्गाः 287
364 ब्रह्मवर्गाः 290
365 क्षत्रबिठ्शूद्रवर्गाः 291
366 सामान्यनामलिङ्गानि 296
367 नित्यनैमित्तिकप्राकृतप्रलयाः 299
368 आत्यन्तिकलयगर्भोत्पत्त्यादयः 301
369 शरीरावयवाः 306
370 नरकनिरूपनं 310
371 यमनियमाः 314
372 आसनप्राणायामप्रत्याहाराः 318
373 ध्यानं 320
374 धारणा 324
375 समाधिः 326
376 ब्रह्मज्ञानं 329
377 समाधिः 333
378 ब्रह्मज्ञानं 338
379 अद्वैतब्रह्मज्ञानं 339
380 गीतासारः 345
381 यमगीता 351
382 आग्नेयपुराणमाहात्म्यं 355
ओं नमो भगवते वासुदेवाय ।
अग्निपुराणम् ।
% छप्तेर् {1}
:श् अथ प्रथमो ऽध्यायः
ग्रन्थप्रस्तावना
श्रियं(1) सरस्वतीं गौरीं गणेशं स्कन्दमीश्वरम् ।अप्_1.001अब्।
ब्रह्माणं वह्निमिन्द्रादीन् वासुदेवं नमाम्यहम्
नैमिषे हरिमीजाना ऋषयः शौनकादयः ।अप्_1.002अब्।
तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन्
ऋषय ऊचुः
सूत त्वं पूजितो ऽस्माभिः सारात्सारं वदस्व नः ।अप्_1.003अब्।
येन विज्ञानमात्रेण(2) सर्वज्ञत्वं प्रजायते
सूत उवाच
सारात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः ।अप्_1.004अब्।
ब्रह्माहमस्मि तं ज्ञात्वा सर्वज्ञत्वं प्रजायते
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्(3) ।अप्_1.005अब्।
द्वे विद्ये वेदितव्ये हि इति चाथर्वणी श्रुतिः
अहं शुकश् च पैलाद्या गत्वा वदरिकाश्रमम् ।अप्_1.006अब्।
व्यासं नत्वा पृष्टवन्तः सो ऽस्मान् सारमथाब्रवीत्
व्यास उवाच
शुकाद्यैः शृणु सूत त्वं वशिष्ठो मां यथाब्रवीत्(5) ।अप्_1.007अब्।
ब्रह्मसारं हि पृच्छन्तं मुनिभिश् च परात्परम्
:न्
1 लक्ष्मीमिति घ, चिह्नितपुस्तकपाठः
2 विज्ञातमात्रेण इति घ, चिह्नितपुस्तकपाठः
3 अपरञ्च परञ्च यदिति ख, चिह्नितपुस्तकपाठः
4 यदब्रवीदिति ख, घ, चिह्नितपुस्तकद्वयपाठः
:प् 1
वसिष्ठ उवाच
द्वैविध्यं ब्रह्म(1) वक्ष्यामि शृणु व्यासाखिलानुगम्(2) ।अप्_1.008अब्।
यथाग्निर्मां पुरा प्राह मुनिभिर्दैवतैः सह
पुराणं परमाग्नेयं ब्रह्मविद्याक्षरं परम् ।अप्_1.009अब्।
ऋग्वेदाद्यपरं ब्रह्म सर्वदेवसुखावहम्(3)
अग्निनोक्तं पुराणम् यद् आग्नेयं ब्रह्मसम्मितम्(4) ।अप्_1.010अब्।
भुक्तिमुक्तिप्रदं दिव्यं(5) पठतां शृण्वतां नृणाम्
कालाग्निरूपिणम् विष्णुं ज्योतिर्ब्रह्म परात्परम् ।अप्_1.011अब्।
मुनिभिः पृष्टवान् देवं पूजितं ज्ञानकर्मभिः
वसिष्ठ उवाच
संसारसागरोत्तार- नावं ब्रह्मेश्वरं वद ।अप्_1.012अब्।
विद्यासारं यद्विदित्वा(6) सर्वज्ञो जायते नरः
अग्निर् उवाच
विष्णुः कालाग्निरुद्रो ऽहं(7) विद्यासारं वदामि ते ।अप्_1.013अब्।
विद्यासारं पुराणं(8) यत् सर्वं सर्वस्य कारणं
सर्गस्य प्रतिसर्गस्य वंशमन्वन्तरस्य च ।अप्_1.014अब्।
वंशानुचरितादेश् च, मत्स्यकूर्मादिरूपधृक्
द्वे विद्ये भगवान् विष्णुः परा चैवापरा च ह ।अप्_1.015अब्।
ऋग्यजुःसामाथर्वाख्या वेदाङ्गानि च षड् द्विज(9)
:न्
1 द्वे विद्ये ब्रह्म इति घ, चिह्नितपुस्तकपाठः
2 अखिलात्मगमिति ख, चिह्नितपुस्तकपाठः
3 सर्ववेदमुखम् परमिति ख, चिह्नितपुस्तकपाठः
4 वेदसम्मितमिति ख, घ, चिह्नितपुस्तकद्वयपाठः
5 पुण्यमिति ख, चिह्नितपुस्तकपाठः
6 यद् गदित्वा इति ग, चिह्नितपुस्तकपाठः
7 ज्ञानसन्दीपनादेव इति ग, चिह्नितपुस्तकपाठः
8 ब्रह्माग्नेयं पुराणमिति ग, घ, चिह्नितपुस्तकद्वयपाठः
9 यद् द्विज इति ख, चिह्नितपुस्तकपाठः
:प् 2
शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषाङ्गतिः ।अप्_1.016अब्।
छन्दो ऽभिधानं मीमांसा धर्मशास्त्रं पुराणकम्
न्यायवैद्यकगान्धर्वं धनुर्वेदो ऽर्थशास्त्रकम् ।अप्_1.017अब्।
अपरेयं परा विद्या यया ब्रह्माभिगम्यते(1)
यत्तददृश्यमग्राह्यम् अगोत्रचरणम् ध्रुवम्(2) ।अप्_1.018अब्।
विष्णुनोक्तं यथा मह्यं देवेभ्यो ब्रह्मणा पुरा ।अप्_1.018च्द्।
तथा ते कथयिष्यामि हेतुं मत्स्यादिरूपिणम्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0