अग्नि पुराण · अध्याय 18
:ए इत्य् आदिमहापुराणे आग्नेये जगत्सर्गवर्णनं नाम सप्तदशो
ऽध्यायः
% छप्तेर् {18}
:श् अथ अष्टादशो ऽध्यायः
स्वायम्भुववंशवर्णनम्
अग्निर् उवाच
प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवात् सुतौ ।अप्_18.001अब्।
अजीजनत्स तां कन्यां शतरूपां तपोन्विताम्(3)
:न्
1 भूतमुच्चावचं ह्य् अजादिति ख, घ, चिह्नितपुस्तकद्वयपाठः
सान्ध्यांस्तैर् अयजन् देवान् भूतमुच्चावचं प्रजा इति ङ,
चिह्नितपुस्तकपाठः
2 निश्चितमिति ख,चिह्नितपुस्तकपाठः
3 अजीजनत् सुतां कन्यां सद्रूपाञ्च तपोन्वितामिति ग,
चिह्नितपुस्तकपाठः । अजीजनत् सुतां कन्यां शतरूपां
तपोन्वितामिति ङ,चिह्नितपुस्तकपाठः
:प् 42
काम्यां(1) कर्दमभार्यातः सम्राट् कुक्षिर्विराट् प्रभुः ।अप्_18.002अब्।
सुरुच्यामुत्तमो जज्ञे पुत्र उत्तानपादतः
सुनीत्यान्तु ध्रुवः पुत्रस्तपस्तेपे स कीर्तये ।अप्_18.003अब्।
ध्रुवो वर्षसहस्राणि त्रीणि दिव्यानि हे मुने
तस्मै प्रीतो हरिः प्रादान्मुन्यग्रे स्थानकं स्थिरम्(2) ।अप्_18.004अब्।
श्लोकं पपाठ ह्य् उशना वृद्धिं दृष्ट्वा स तस्य च
अहो ऽस्य तपसो वीर्यमहो श्रुतमहोद्भुतम् ।अप्_18.005अब्।
यमद्य(3) पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः
तस्मात् शिष्टिञ्च(4) भव्यञ्च ध्रुवाच्छम्भुर्व्यजायत ।अप्_18.006अब्।
शिष्टेराधत्त(5) सुछाया पञ्च पुत्रानकल्मषान्
रिपुं रिपुञ्जयं रिप्रं वृकलं वृकतेजसम् ।अप्_18.007अब्।
रिपोराधत्त बृहती चाक्षुषं सर्वतेजसम्
अजीजनत् पुष्करिण्यां वीरिण्यां चाक्षुषो मनुम् ।अप्_18.008अब्।
मनोरजायन्त दश नड्वलायां सुतोत्तमाः
ऊरुः(6) पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कविः ।अप्_18.009अब्।
अग्निष्टुरतिरात्रश् च सुद्युम्नश्चाभिमन्युकः
ऊरोरजनयत् पुत्रान् षडग्नेयी महाप्रभान् ।अप्_18.010अब्।
अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसङ्गयम्
अङ्गात् सुनीथापत्यं वै वेणमेकं व्यजायत ।अप्_18.011अब्।
:न्
1 काम्या इति ग, ङ, चिह्नितपुस्तकद्वयपाठः
2 स्थानमुत्तममिति ङ, चिह्नितपुस्तकपाठः
3 यदत्र इति ङ, चिह्नितपुस्तकपाठः
4 तस्मात् श्लिष्टिञ्च इति ग, घ, चिह्नितपुस्तकद्वयपाठः
5 श्लिष्टेआराधत्त इति ख, घ, चिह्नितपुस्तकद्वयपाठः
6 उरूरिति ख,ग, ङ, चिह्नितपुस्तकत्रयपाठः
:प् 43
अरक्षकः पापरतः स हतो मुनिभिः कुशैः
प्रजार्थमृषयोथास्य ममन्थुर्दक्षिणं करं ।अप्_18.012अब्।
वेणस्य मथितो पाणौ सम्बभूव पृथुर् नृपः
तं दृष्ट्वा मुनयः प्राहुरेष वै मुदिताः प्रजाः ।अप्_18.013अब्।
करिष्यति महातेजा यशश् च प्राप्स्यते महत्
स धन्वी कवची जातस्तेजसा निर्दहन्निव ।अप्_18.014अब्।
पृथुर्वैण्यः प्रजाः सर्वा ररक्ष क्षेत्रपूर्वजः
राजसूयाभिषिक्तानामाद्यः(1) स पृथिवीपतिः ।अप्_18.015अब्।
तस्माच्चैव समुत्पन्नौ निपुणौ सूतमागधौ
तत्स्तोत्रञ्चक्रतुर्वीरौ राजाभूज्जनरञ्जनात् ।अप्_18.016अब्।
दुग्धा गौस्तेन शस्यार्थं प्रजानां जीवनाय च
सह देवैर् मुनिगणैर् गन्धर्वैः साप्सरोगणैः ।अप्_18.017अब्।
पितृभिर्दानवैः सर्पैर् वीरुद्भिः पर्वतैर् जनैः
तेषु तेषु च पात्रेषु दुह्यमाना वसुन्धरा ।अप्_18.018अब्।
प्रादाद्यथेप्सितं क्षीरन्तेन प्राणानधारयत्
पृथोः पुत्रौ तु धर्मज्ञौ जज्ञाते ऽन्तर्द्विपालिनौ ।अप्_18.019अब्।
शिखण्डी हविर्धानमन्तर्धानात् व्यजायत
हविर्धानात् षडाग्नेयी धीषणाजनयत् सुतान् ।अप्_18.020अब्।
प्राचीनवर्हिषं शुक्रं(2) गयं कृष्णं व्रजाजिनौ
प्राचीनाग्राः कुशास्तस्य पृथिव्यां यजतो यतः ।अप्_18.021अब्।
प्राचीनवर्हिर्भगवान् महानासीत्प्रजापतिः
सवर्णाधत्त(3) सामुद्री दश प्राचीनवर्हिषः ।अप्_18.022अब्।
:न्
1 राजसूयाभिव्यक्तानामाद्य इति ख,चिह्नितपुस्तकपाठः
2 शुभ्रमिति ग,चिह्नितपुस्तकपाठः
3 सुवर्णाधत्त इति ग, चिह्नितपुस्तकपाठः
:प् 44
सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः
अपृथग्धर्मचरणास् ते तप्यन्त महत्तपः ।अप्_18.023अब्।
दशवर्षसहस्राणि समुद्रसलिलेशयाः
प्रजापतित्वं सम्प्राप्य तुष्टा विष्णोश् च निर्गताः ।अप्_18.024अब्।
भूः खं व्याप्तं हि तरुभिस्तांस्तरूनदहंश् च ते
मुखजाग्निमरुद्भ्यां च दृष्ट्वा चाथ द्रुमक्षयम् ।अप्_18.025अब्।
उपगम्याब्रवीदेतान् राजा सोमः प्रजापतीन्
कोपं यच्छत दास्यन्ति कन्यां वो मारिषां वराम् ।अप्_18.026अब्।
तपस्विनो मुनेः कण्डोः(2) प्रम्लोचायां ममैव च
भविष्यं जानता सृष्टा भार्या वो ऽस्तु कुलङ्करी ।अप्_18.027अब्।
अस्यामुत्पत्स्यते दक्षः प्रजाः संवर्धयिष्यति
प्रचेतसस्तां जगृहुर्दक्षोस्याञ्च ततो ऽभवत् ।अप्_18.028अब्।
अचरांश् च चरांश् चैव द्विपदोथ चतुष्पदः
स सृष्ट्वा मनसा(2) दक्षः पश्चादसृजत स्त्रियः ।अप्_18.029अब्।
ददौ स दश धर्माय कश्यपाय त्रयोदश
सप्ताविंशति सोमाय चतस्त्रो ऽरिष्टनेमिने ।अप्_18.030अब्।
द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे अदात्(3)
तासु देवाश् च नागाद्या मैथुनान्मनसा पुरा ।अप्_18.031अब्।
धर्मसर्गम्प्रवक्ष्यामि दशपत्नीषु धर्मतः
विश्वेदेवास्तु विश्वायाः साध्यान् साध्या व्यजायत ।अप्_18.032अब्।
मरुत्त्वया मरुत्त्वन्तो वसोस्तु वसवो ऽभवन्
भानोस्तु भानवः पुत्रा मुहूर्तास्तु मुहूर्तजाः ।अप्_18.033अब्।
:न्
1 कण्ठोरिति ग, चिह्नितपुस्तकपाठः कर्णोरिति
ङ,चिह्नितपुस्तकपाठः
2 स दृष्ट्वा मनसा इति ख, ग, चिह्नितपुस्तकपाठः
3 द्वे चैव भाण्डवे तत इति ग, चिह्नितपुस्तकपाठः
:प् 45
सम्बाया(1) धर्मतो घोषो नागवीथी(2) च यामिजा
पृथिवीविषयं सर्वमरुन्धत्यां व्यजायत ।अप्_18.034अब्।
सङ्कल्पायास्तु सङ्कल्पा इन्दोर् नक्षत्रतः सुताः
आपो ध्रुवञ्च सोमञ्च धरश् चैवानिलोनलः(3) ।अप्_18.035अब्।
प्रत्यूषश् च प्रभावश् च वसवोष्टौ च नामतः
आपस्य पुत्रो वैतण्ड्यः श्रमः शान्तो मुनिस् तथा ।अप्_18.036अब्।
ध्रुवस्य कालो लोकान्तो वर्चाः सोमस्य वै सुतः
धरस्य पुत्रो द्रविणो(4) हुतहव्यवहस् तथा ।अप्_18.037अब्।
मनोहरायाः शिशिरः प्राणोथ रमणस् तथा(5)
पुरोजवोनिलस्यासीदविज्ञातो ऽनलस्य च ।अप्_18.038अब्।
अग्निपुत्रः कुमारश् च शरस्तम्बे व्यजायत
तस्य शाखो विशाखश् च नैगमेयश् च पृष्टजः ।अप्_18.039अब्।
कृत्तिकातः कार्त्तिकेयो यतिः सनत्कुमारकः(6)
प्रत्यूषाद्देवलो जज्ञे विश्वकर्मा प्रभावतः ।अप्_18.040अब्।
कर्ता शिल्पसहस्राणां त्रिदशानाञ्च वर्धकिः
मनुष्याश्चोप्जीवन्ति शिल्पं वै भूषणादिकं ।अप्_18.041अब्।
सुरभी(7) कश्यपाद्रुद्रानेकादश विजज्ञुषी
महादेवप्रसादेन तपसा भाविता सती ।अप्_18.042अब्।
:न्
1 लम्बाया इति ग,चिह्नितपुस्तकपाठः
2 नगवीथी इति ख, चिह्नितपुस्तकपाठः
3 धर्मश् चैवानिलोनल इति ख, ग, चिह्नितपुस्तकपाठः
4 धरिष इति ग, चिह्नितपुस्तकपाठः
5 मरणस्तथेति ग, चिह्नितपुस्तकपाठः
6 जातः सनत्कुमारत इति ग, चिह्नितपुस्तकपाठः
7 युवती इति ग, चिह्नितपुस्तकपाठः
:प् 46
अजैकपादहिर्ब्रघ्नस्त्वष्टा रुद्राश् च सत्तम(1)
त्वष्टुश् चैवात्मजः श्रीमान्विश्वरूपो महायशाः ।अप्_18.043अब्।
हरश् च बहुरूपश् च त्र्यम्बकश्चापराजितः
वृषाकपिश् च शम्भुश् च कपर्दी रैवतस् तथा ।अप्_18.044अब्।
मृगव्याधस्य सर्पश् च कपाली दश चैककः ।अप्_18.044च्द्।
रुद्राणां च शतं लक्षं यैर् व्याप्तं सचराचरं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0