अग्नि पुराण · अध्याय 17
:ए इत्य् आदिमहापुराणे आग्नेये बुद्धकल्क्यवतारवर्णनं नाम
षोडशो ऽध्यायः
% छप्तेर् {17}
:श् अथ सप्तदशो ऽध्यायः
सृष्टिविषयकवर्ननम्
अग्निर् उवाच
जगत्सर्गादिकान् क्रीडान् विष्णोर्वक्ष्येधुना शृणु ।अप्_17.001अब्।
स्वर्गादिकृत् स सर्गादिः सृष्ट्यादिः सगुणोगुणः
:प् 40
ब्रह्माव्यक्तं सदाग्रे ऽभूत् न खं रात्रिदिनादिकं ।अप्_17.002अब्।
प्रकृतिं पुरुषं विष्णुः(1) प्रविश्याक्षोभयत्ततः
स्वर्गकाले महत्तत्त्वमहङ्कारस्ततो ऽभवत् ।अप्_17.003अब्।
वैकारिकस्तैजसश् च भूतादिश् चैव तामसः
अहङ्काराच्छब्दमात्रमाकाशमभवत्ततः ।अप्_17.004अब्।
स्पर्शमात्रो ऽनिलस्तस्माद्रूपमात्रो ऽनलस्ततः
रसमात्रा आप इतो गन्धमात्रा मही स्मृता(2) ।अप्_17.005अब्।
अहङ्कारात्तामसात्तु तैजसानीन्द्रियाणि च
वैकारिका दश देवा मन एकादशेन्द्रियम् ।अप्_17.006अब्।
ततः स्वयंभूर्भगवान्(3) सिसृक्षुर्विविधाः प्रजाः
अप एव ससर्जादौ तासु वीर्यमवासृजत्(4) ।अप्_17.007अब्।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः
अयनन्तस्य ताः पूर्वन्तेन नारायणः स्मृतः ।अप्_17.008अब्।
हिरण्यवर्णमभवत्(5) तदण्डमुदकेशयम्
तस्मिन् जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम् ।अप्_17.009अब्।
हिरण्यगर्भो(6) भगवानुषित्वा परिवत्सरम्
तदण्डमकरोत् द्वैधन्दिवं भुवमथापि च ।अप्_17.010अब्।
तयोः शकलयोर्मध्ये आकाशमसृजत् प्रभुः
अप्सु पारिप्लवां पृथिवीं दिशश् च दशधा दधे ।अप्_17.011अब्।
तत्र कालं मनो वाचं कामं क्रोधमथो रतिम्
:न्
1 विष्णुमिति ख, चिह्नितपुस्तकपाठः
2 गन्धमात्रा धरित्र्यभूदिति ख, ग, घ,
चिह्नितपुस्तकत्रयपाठः
3 ततः स्वयम्भूर्भगवानित्यारभ्य स्रष्टुमिच्छन्
प्रजापतिरित्यन्तपाठस्तु महाभारतीयहरिवंशपर्वण उद्धृत
इति अध्यवसीयते उभयत्र क्रमेण पाठसाम्यात्
4 तासु बीजमथासृजदिति ख, चिह्नितपुस्तकपाठः
5 हिरण्यगर्भमभवदिति ख, चिह्नितपुस्तकपाठः
6 हिरण्यवर्ण इति ग, चिह्नित्गपुस्तकपाठः
:प् 41
ससर्ज सृष्टिन्तद्रूपां स्रष्टुमिच्छन् प्रजापतिः ।अप्_17.012अब्।
विद्युतोशनिमेघांश् च रोहितेन्द्रधनूंषि च
वयांसि च ससर्जादौ पर्जन्यञ्चाथ वक्त्रतः ।अप्_17.013अब्।
ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये
साध्यास्तैर् अयजन्देवान् भूतमुच्चावचं भुजात्(1) ।अप्_17.014अब्।
सनत्कुमारं रुद्रञ्च ससर्ज क्रोधसम्भवम्
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् ।अप्_17.015अब्।
वसिष्ठं मानसाः सप्त ब्रह्माण इति निश्चिताः(2)
सप्तैते जनयन्ति स्म प्रजा रुद्राश् च सत्तम ।अप्_17.016अब्।
द्विधा कृत्वात्मनो देहमर्धेन पुरुषो ऽभवत्
अर्धेन नारी तस्यां स ब्रह्मा वै चासृजत् प्रजाः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0