अग्नि पुराण · अध्याय 175
:ए इत्य् आग्नेये महापुराणे प्रायश्चित्तानि नाम
चतुःसप्तत्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {175}
:श् अथ पञ्चसप्त्यधिकशततमो ऽध्यायः
व्रतपरिभाषा
अग्निर् उवाच
तिथिवारर्क्षदिवसमासर्त्वब्दार्कसङ्क्रमे ।अप्_175.001अब्।
नृस्त्रीव्रतादि(2) वक्ष्यामि वसिष्ठ शृणु तत् क्रमात्
:न्
1 स्मृतयः श्रुतयो व्रतमिति क.. , घ.. , ङ.. , ञ.. च । अहं
ब्रह्मेत्यादिः, तपोव्रतमित्यन्तः पाठः ग.. पुस्तके नास्ति
2 पुंस्त्री व्रतादीति ङ.. , ञ.. च
:प् 192
शास्त्रोदितो हि नियमो व्रतं तच्च तपो मतं ।अप्_175.002अब्।
नियमास्तु विशेषास्तु व्रतस्यैव दमादयः
व्रतं हि कर्तृसन्तापात्तप इत्य् अभिधीयते ।अप्_175.003अब्।
इन्द्रियग्रामनियमान्नियमश्चाभिधीयते
अनग्नयस्तु ये विप्रास्तेषां श्रेयो ऽभिधीयते ।अप्_175.004अब्।
व्रतोपवासनियमैर् नानादानैस् तथा द्विजः
ते स्युर्देवादयः(1) प्रीता भुक्तिमुक्तिप्रदायकाः ।अप्_175.005अब्।
उपावृत्तस्य पापेभ्यो यस्तु वासो गुणैः सह
उपवासः स विज्ञेयः सर्वभोगविवर्जितः(2) ।अप्_175.006अब्।
कांस्यं मांसं मसूरञ्च चणकं कोरदूषकं
शाकं मधु परान्नञ्च(3) त्यजेदुपवसन् स्त्रियं ।अप्_175.007अब्।
पुष्पालङ्कारवस्त्राणि धूपगन्धनुलेपनं
उपवासे न शस्यन्ति दन्तधावनमञ्जनं ।अप्_175.008अब्।
दन्तकाष्ठं पञ्चगव्यं कृत्वा प्रातर्व्रतञ्चरेत्
असकृज्जलपानाच्च ताम्बूलस्य च भक्षणात् ।अप्_175.009अब्।
उपवासः प्रदुष्येत दिवास्वप्नाच्च मैथुनात्
क्षमा सत्यन्दया दानं शौचमिन्द्रियनिग्रहः ।अप्_175.010अब्।
देवपूजाग्निहरणं(4) सन्तोषो ऽस्तेयमेव च
सर्वव्रतेष्वयं धर्मः सामान्यो दशधा स्मृतः ।अप्_175.011अब्।
पवित्राणि जपेच्चैव जुहुयाच्चैव शक्तितः
:न्
1 तैः स्युर्देवादय इति ग.. , छ.. च
2 सर्वपापविवर्जित इति ज.. , झ.. च । सर्वतः परिवर्जित इति छ..
3 शाकं दधि परान्नञ्चेति ख.. , छ.. च
4 देवपूजाग्निहवनमिति घ.. , ट.. च
नित्यस्नायी मिताहारो(1) गुरुदेवद्विजार्चकः ।अप्_175.012अब्।
क्षारं क्षौद्रञ्च लवणं मधु मांसानि वर्जयेत्
तिलमुद्गादृते शस्यं शस्ये गोधूमकोद्रवौ ।अप्_175.013अब्।
चीनकं देवधान्यञ्च शमीधान्यं तथैक्षवं(2)
शितधान्यं तथा पुण्यं मूलं क्षारगणः स्मृतः ।अप्_175.014अब्।
व्रीहिषष्टिकमुद्गाश् च कलायाः सतिला यवाः
श्यामाकाश् चैव नीवारा गोधूमाद्या व्रते हिताः ।अप्_175.015अब्।
कुष्माण्डालावुवार्ताकून् पालङ्कीम्पूतिकान्त्यजेत्
चरुभैक्ष्यं शक्तुकणाः शाकन्दधि घृतं पयः ।अप्_175.016अब्।
श्यामाकशालिनीवारा यवकं मूलतण्डुलं
हविष्यं व्रतनक्तादावग्निकार्यादिके हितं ।अप्_175.017अब्।
मधु मांसं विहायान्यद् व्रते वा हितमीरितं
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितं ।अप्_175.018अब्।
त्र्यहम्परञ्च नाश्नीयात् प्राजापत्यञ्चरन् द्विजः
एकैकं ग्रासमश्नीयात् त्र्यहाणि त्रीणि पूर्ववत् ।अप्_175.019अब्।
त्र्यहञ्चोपवसेदन्त्यमतिकृच्छ्रं चरन् द्विजः
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकं ।अप्_175.020अब्।
एकरात्रोपवासश् च कृच्छ्रं शान्तपनं स्मृतं
पृथक् शान्तपनद्रव्यैः षडहः सोपवासकः ।अप्_175.021अब्।
सप्ताहेन तु कृच्छ्रो ऽयं महाशान्तपनो ऽघहा
द्वादशाहोपवासेन पराकः सर्वपापहा ।अप्_175.022अब्।
:न्
1 यताहार इति घ..
2 शमीधान्यं तथैव चेति ग.. ,झ.. च
:प् 194
महापराकस्त्रिगुणस्त्वयमेव प्रकीर्तितः
पौर्णमास्यां पञ्चदशग्रास्यमावास्यभोजनः ।अप्_175.023अब्।
एकापाये ततो वृद्धौ चान्द्रायणमतो ऽन्यथा
कपिलागोः पलं मूत्रं अर्धाङ्गुष्ठञ्च गोमयं ।अप्_175.024अब्।
क्षीरं सप्तपलन्दद्यात् दध्नश् चैव पलद्वयं(1)
घृतमेकपलन्दद्यात् पलमेकं कुशोदकं ।अप्_175.025अब्।
गयत्र्या गृह्य गोमूत्रं गन्धद्वारेति गोमयं
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि ।अप्_175.026अब्।
तेजो ऽसीति तथा चाज्यं देवस्येति कुशोदकं(2)
ब्रह्मकूर्चो भवत्येवं आपो हिष्ठेत्यृचं जपेत् ।अप्_175.027अब्।
अघमर्षणसूक्तेन संयोज्य प्रणवेन वा
पीत्वा सर्वाघनिर्मुक्तो विष्णुलोकी ह्य् उपोषितः ।अप्_175.028अब्।
उपवासी सायम्भोजी यतिः षष्ठात्मकालवान्
मांसवर्जी चाश्वमेधी सत्यवादी दिवं व्रजेत् ।अप्_175.029अब्।
अग्न्याधेयं प्रतिष्ठाञ्च यज्ञदानव्रतानि च
देवव्रतवृषोत्सर्गचूडाकरणमेखलाः ।अप्_175.030अब्।
माङ्गल्यमभिषेकञ्च मलमासे विवर्जयेत्
दर्शाद्दर्शस्तु चान्द्रः स्यात् त्रिंशाहश् चैव भावनः ।अप्_175.031अब्।
मासः सौरस्तु सङ्क्रान्तेर्नाक्षत्रो भविवर्तनात्
सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः(3) ।अप्_175.032अब्।
:न्
1 दध्नश् चैव पलत्रयमिति घ.. , ञ.. , ट.. च
2 गायत्र्या इत्य् आदिः, कुशोदकमित्यन्तः पाठः छ.. पुस्तके
नास्ति
3 सावनो मत इति छ..
:प् 195
आव्धिके पितृकार्ये च चान्द्रो मासः प्रशस्यते
आषाढीमवधिं कृत्वा यः स्यात्पक्षस्तु पञ्चमः ।अप्_175.033अब्।
कुर्याच्छ्राद्धन्तत्र रविः कन्यां गच्छतु वा न वा
मासि संवत्सरे चैव तिथिद्वैधं यदा भवेत् ।अप्_175.034अब्।
तत्रोत्तरोत्तमा ज्ञेया पूर्वा तु स्यान् मलिम्लुचा
उपोषितव्यं नक्षत्रं येनास्तं याति भास्करः ।अप्_175.035अब्।
दिवा पुण्यास्तु तिथयो रात्रौ नक्तव्रते शुभाः
युग्माग्निकृतभूतानि(1) षण्मुन्योर्वसुरन्ध्रयोः ।अप्_175.036अब्।
रुद्रेण द्वादशो युक्ता चतुर्दश्याथ(2) पूर्णिमा
प्रतिपदा त्वमावास्या तिथ्योर्युग्मं महाफलं ।अप्_175.037अब्।
एतद्व्यस्तं महाघोरं हन्ति पुण्यं पुराकृतं
नरेन्द्रमन्त्रिव्रतिनां(3) विवाहोपद्रवादिषु ।अप्_175.038अब्।
सद्यः शौचं समाख्यातं कान्तारापदि संषदि
आरब्धदीर्घतपसां न राजा व्रतहा स्त्रियाः ।अप्_175.039अब्।
गर्भिणी सूतिका नक्तं कुमारी च रजस्वला
यदाशुद्धा तदान्येन कारयेत क्रियाः सदा ।अप्_175.040अब्।
क्रोधात् प्रमादाल्लोभाद्वा व्रतभङ्गो भवेद्यदि
दिनत्रयं न भुञ्ञीत मुण्डनं शिरसो ऽथ वा ।अप्_175.041अब्।
असामर्थ्ये व्रतकृतौ पत्नीं वा कारयेत् सुतं
सूतके मृतके कार्त्यं प्रारब्धं पूजनोज्झितं ।अप्_175.042अब्।
व्रतस्थं मूर्छितं दुग्धपानाद्यैर् उद्धरेद् गुरुः
:न्
1 युग्माग्नियुगभूतानीति ज.. , झ.. च
2 चतुर्दश्या चेति ग..
3 नरेन्द्रसत्रिव्रतिनामिति ख.. , घ.. , ज.. , ञ.. च
:प् 196
अष्तौ तान्यव्रतघ्नानि आपो मूलं फलं पयः ।अप्_175.043अब्।
हविर्ब्राह्मणकाम्या च गुरोर्वचनमौषधं
कीर्तिसन्ततिविद्यादिसौभाग्यारोग्यवृद्धये ।अप्_175.044अब्।
नैर्मल्यभुक्तिमुक्त्यर्थं कुर्वे व्रतपते व्रतं
इदं व्रतं मया श्रेष्ठं गृहीतं पुरतस्तव ।अप्_175.045अब्।
निर्विघ्नां सिद्धिमायातु त्वत्प्रसादात् जगत्पते
गृहीते ऽस्मिन् व्रतवरे(1) यद्यपूर्णे म्रिये ह्य् अहं ।अप्_175.046अब्।
तत्सर्वं पूर्णमेवास्तु प्रसन्ने त्वयि सत्पतौ
व्रतमूर्तिं जगद्भूतिं मण्डले सर्वसिद्धये ।अप्_175.047अब्।
आवहये नमस्तुभ्यं सन्निधीभव केशव
मनसा कल्पितैर् भक्त्या पञ्चगव्यैर् जलैः शुभैः ।अप्_175.048अब्।
पञ्चामृतैः स्नापयामि त्वं मे च भव पापहा
गन्धपुष्पोदकैर् युक्तमर्घ्यमर्घ्यपते शुभं ।अप्_175.049अब्।
गृहाण पाद्यमाचाममर्घ्यार्हङ्कुरु मां सदा
वस्त्रं वस्त्रपते पुण्यं गृहाण कुरु मां सदा ।अप्_175.050अब्।
भूषणाद्यैः सुवस्त्राद्यैश्छादितं व्रतसत्पते
सुगन्धिगन्धं विमलं गन्धमूर्ते गृहाण वै ।अप्_175.051अब्।
पापगन्धविहीनं मां कुरु त्वं हि सुगन्धिकं
पुष्पं गृहाण पुष्पादिपूर्ण मां कुरु सर्वदा ।अप्_175.052अब्।
पुष्पगन्धं सुविमलं आयुरारोग्यवृद्धये
दशाङ्गं गुग्गुलुघृतयुक्तं धूपं गृहाण वै ।अप्_175.053अब्।
सधूप धूपित मां त्वं कुरु धूपितसत्पते
:न्
1 व्रते देव इति ग.. , घ.. , ज.. , झ.. , ञ.. , ट.. च
:प् 197
दीपमूर्धशिखं दीप्तं गृहाणाखिलभासकं ।अप्_175.054अब्।
दीपमूर्ते प्रकाशाढ्यं सर्वदोर्ध्वगतिं कुरु
अन्नादिकञ्च नैवेद्यं गृहाणान्नादि सत्पते ।अप्_175.055अब्।
अन्नादिपूर्णं कुरु मामन्नदं सर्वदायकं
मन्त्रहीनं क्रियाहीनं भक्तिहीनं मया प्रभो ।अप्_175.056अब्।
यत् पूजितं व्रतपते परिपूर्णन्तदसु मे
धर्मं देहि धनं देहि सौभाग्यं गुणसन्ततिं ।अप्_175.057अब्।
कीर्तिं विद्यां(1) देहि चायुः स्वर्गं मोक्षञ्च देहि मे ।
इमां पूजां व्रतपते गृहीत्वा व्रज साम्प्रतं ।अप्_175.058अब्।
पुनरागमनायैव वरदानाय वै प्रभो
स्नात्वा व्रतवता सर्वव्रतेषु व्रतमूर्तयः ।अप्_175.059अब्।
पूज्याः सुवर्णजास्ता वै शक्त्या वै भूमिशायिना
जपो होमश् च सामान्यव्रतान्ते दानमेव च ।अप्_175.060अब्।
चतुर्विंशा द्वादश वा पञ्च वा त्रय एककः
विप्राः प्रपूज्या गुरवो(2) भोज्याः शक्त्या तु दक्षिणा ।अप्_175.061अब्।
देया गावः सुवर्णाद्याः पादुकोपानहौ पृथक्
जलपात्रञ्चान्नपात्रमृत्तिकाच्छत्रमासनं(3) ।अप्_175.062अब्।
शय्या वस्त्रयुगं कुम्भाः परिभाषेयमीरिता
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0