अग्नि पुराण · अध्याय 174
:ए इत्य् आग्नेये महापुराणे प्रायश्चित्तानि नाम त्रिसप्तत्यधिकशततमो
ऽध्यायः ॥
:न्
1 हविष्यभुगिति ग.. ,ट.. च
2 मातृजायागमे इति ग.. , छ.. , ट.. च
:प् 189
% छप्तेर् {174}
:श् अथ चतुःसप्तत्यधिकशततमो ऽध्यायः
प्रायश्चित्तानि
अग्निर् उवाच
देवाश्रमार्चनादीनां प्रायश्चित्तन्तु लोपतः ।अप्_174.001अब्।
पूजालोपे चाष्टशतं जपेद्द्विगुणपूजनं
पञ्चोपनिषदैर् मन्त्रैर् हुत्वा ब्राह्मणभोजनं ।अप्_174.002अब्।
सूतिकान्त्यजकोदक्यास्पृष्टे देवे शतं जपेत्(1)
पञ्चोपनिषदैः पूजां द्विगुणं स्नानमेव च ।अप्_174.003अब्।
विप्रभोज्यं होमलोपे होमस्नानं तथार्चनं
होमद्रव्ये मूषिकाद्यैर् भक्षिते कीटसंयुते ।अप्_174.004अब्।
तावन्मात्रं परित्यज्य प्रोक्ष्य देवादि पूजयेत्
अङ्कुरार्पणमात्रन्तु छिन्नं भिन्नं परित्यजेत् ।अप्_174.005अब्।
अस्पृश्यैश् चैव संस्पृष्टे अन्यपात्रे तदर्पणं
देवमानुषविघ्नघ्नं पूजाकाले तथैव च ।अप्_174.006अब्।
मन्त्रद्रव्यादिव्यत्यासे मूलं जप्त्वा पुनर्जपेत्
कुम्भेनाष्टशतजपो देवे तु पतिते करात् ।अप्_174.007अब्।
भिन्ने नष्टे चोपवासः शतहोमाच्छुभं भवेत्(2)
:न्
1 शतं शहुनेदिति ख.. , छ.. च
2 शतहोमाच्छुचिर्भवेदिति ख.. , घ.. , ञ.. च
:प् 190
कृते पापे ऽनुतापो वै यस्य पुंसः प्रजायते ।अप्_174.008अब्।
प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परं
चान्द्रायणं पराको वा प्राजापत्यमघौघनुत् ।अप्_174.009अब्।
सूर्येशशक्तिश्रीशदिमन्त्रजप्यमघौघनुत्
गायत्रीप्रणवस्तोत्रमन्त्रजप्यमघान्तकं ।अप्_174.010अब्।
काद्यैर् आवीजसंयुक्तैर् आद्यैर् आद्यैस्तदन्तकैः
सूर्येशशक्तिश्रीशादिमन्त्राः कोट्यधिकाः पृथक् ।अप्_174.011अब्।
ओंह्रीमाद्याश् चतुर्थ्यन्ता नमोन्ताः सर्वकामदाः
नृसिंहद्वादशाष्टार्णमालामन्त्राद्यघौघनुत् ।अप्_174.012अब्।
आग्नेयस्य पुराणस्य पठनं श्रवणादिकं
द्विविद्यारूपको विष्णुरग्निरूपस्तु गीयते ।अप्_174.013अब्।
परमात्मा देवमुखं सर्ववेदेषु गीयते
प्रवृत्तौ तु निवृत्तौ तु इज्यते भुक्तिमुक्तिदः(1) ।अप्_174.014अब्।
अग्निरूपस्य विष्णोर्हि हवनं ध्यानमर्चनं
जप्यं स्तुतिश् च प्रणतिः शारीराशेषाघौघनुत् ।अप्_174.015अब्।
दशस्वर्णानि दानानि धान्यद्वादशमेव च
तुलापुरुषमुख्यानि महादानानि षोडश ।अप्_174.016अब्।
अन्नदानानि मुख्यानि सर्वाण्यघहराणि हि
तिथिवारर्क्षसङ्क्रान्तियोगमन्वादिकालके ।अप्_174.018अब्।
ब्रतादि सूर्येशशक्तिश्रीशादेरघघातनं(2)
गङ्गा गया प्रयागश् च काश्ययोध्या ह्य् अवम्तिका ।अप्_174.019अब्।
:न्
1 प्रवृत्तैस्तु निवृत्तैस्तु इज्यते भुक्तिमुक्तिद इति घ.. , ङ.. , झ.. , ञ..
च
2 अघनाशनमिति ग..
:प् 191
कुरुक्षेत्रं पुष्करञ्च नैमिषं पुरुषोत्तमः
शालग्रामप्रभासाद्यं तीर्थञ्चघोघघातकं ।अप्_174.020अब्।
अहं ब्रह्म परं ज्योतिरिति ध्यानमघौघनुत्
पुराणं ब्रह्म चाग्नेयं ब्रह्मा विष्णुर्महेश्वरः ।अप्_174.021अब्।
अवताराः सर्वपूजाः प्रतिष्ठाप्रतिमादिकं
ज्योतिःशास्त्रपुराणानि स्मृतयस्तु तपोव्रतं(1) ।अप्_174.022अब्।
अर्थशास्त्रञ्च सर्गाद्या आयुर्वेदो धनुर्मतिः
शिक्षा छन्दो व्याकरणं निरुक्तञ्चाभिधानकं ।अप्_174.023अब्।
कल्पो न्यायश् च मीमांसा ह्य् अन्यत् सर्वं हरिः प्रभुः
एके द्वयोर्यतो यस्मिन् यः सर्वमिति वेद यः ।अप्_174.024अब्।
तं दृष्ट्वान्यस्य पापानि विनश्यन्ति हरिश् च सः
विद्याष्टादशरूपश् च सूक्ष्मः स्थूलो ऽपरो हरिः ।अप्_174.025अब्।
ज्योतिः सदक्षरं ब्रह्म परं विष्णुश् च निर्मलः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0