अग्नि पुराण · अध्याय 176
:ए इत्य् आग्नेये महापुराणे व्रतपरिभाषानाम
पञ्चसप्तत्यधिकशततमो ऽध्यायः ॥
:न्
1 कीर्तिं वृद्धिमिति ख.. , छ.. च
2 विप्राः पूज्याः सगरव इति घ.. , ज.. , ट.. च
3 मुद्रिकाछत्रमासनमिति घ..
:प् 198
% छप्तेर् {176}
:श् अथ षट्सप्तत्यधिकशततमो ऽध्यायः
प्रतिपद्व्रतानि
अग्निर् उवाच
वक्ष्ये प्रतिपदादीनि व्रतान्यखिलदानि ते ।अप्_176.001अब्।
कार्त्तिकाश्वयुजे चैत्रे प्रतिपद्ब्रह्मणस्तिथिः
पञ्चदश्यान्निराहारः प्रतिपद्यर्चयेदजं ।अप्_176.002अब्।
ओं तत् सद्ब्रह्मणे नमो गायत्र्या वाव्दमेककं
अक्षमालाश्रुवन्दक्षे(1) वामे श्रुचकमण्डलु(2) ।अप्_176.003अब्।
लम्बकूर्चञ्च जटिलं हैमं ब्रह्माणमर्चयेत्
शक्त्या क्षीरं प्रदद्यात्तु ब्रह्मा मे प्रीयतामिति ।अप्_176.004अब्।
निर्मलो भोगभ्क् स्वर्गे भूमौ विप्रो धनी भवेत्
धन्यं व्रतं प्रवक्ष्यामि अधन्यो धन्यतां व्रजेत् ।अप्_176.005अब्।
मार्गशीर्षे प्रतिपदि नक्तं हुत्वा प्युपोषितः(3)
अग्नये नम इत्य् अग्निं प्रार्च्याव्दं सर्वभाग् भवेत् ।अप्_176.006अब्।
प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0