अग्नि पुराण · अध्याय 173
:ए इत्य् आग्नेये महापुराणे सर्वपापप्रायश्चित्ते पापनाशनस्तोत्रं
नाम द्विसप्तत्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {173}
:श् अथ त्रिसप्तत्यधिकशततमो ऽध्यायः
प्रायश्चित्तं
अग्निर् उवाच
प्रायश्चित्तं ब्रह्णोक्तं वक्ष्ये पापोपशान्तिदं ।अप्_173.001अब्।
स्यात् प्राणवियोगफलो व्यापारो हननं स्मृतं
रागाद् द्वेषात् प्रमादाच्च स्वतः परत एव वा ।अप्_173.002अब्।
ब्राह्मणं घातयेद्यस्तु स भवेद्ब्रह्मघातकः
बहूनामेककार्याणां सर्वेषां शस्त्रधारिणां ।अप्_173.003अब्।
यद्येको घातकस्तत्र सर्वे ते घातकाः स्मृताः
आक्रोशितस्ताडितो वा धनैव्वा परिपीडितः ।अप्_173.004अब्।
:न्
1 ततः कर्माणीति ख.. , ग.. , घ.. , छ.. च
:प् 184
यमुद्दिश्य त्यजेत् प्राणांस्तमाहुर्ब्रह्मघातकं
औषधाद्युपकारे तु न पापं स्यात् कृते मृते ।अप्_173.005अब्।
पुत्रं शिष्यन्तथा भार्यां शासते न मृते ह्य् अघं
देशं कालञ्च यः शक्तिं पापञ्चावेक्ष्य यत्नतः ।अप्_173.006अब्।
प्रायश्चित्तं प्रकल्प्यं स्याद्यत्र चोक्ता ब निष्कृतिः(1)
गवार्थे ब्राह्मणार्थे वा सद्यः प्राणान् परित्यजेत् ।अप्_173.007अब्।
प्रास्येदात्मानमग्नौ वा मुच्यते ब्रह्महत्यया
शिरःकपाली ध्वजवान् भैक्षाशी कर्म वेदयन् ।अप्_173.008अब्।
ब्रह्महा द्वादशाब्दानि मितभुक् शुद्धिमाप्नुयात्
षड्भिर्वर्षैः शुद्धचारी ब्रह्महा पूयते नरः ।अप्_173.009अब्।
विहितं यदकामा मां कामात्तु द्विगुणं स्मृतं
प्रायश्चित्तं प्रवृत्तस्य बधे स्यात्तु(2) त्रिवार्षिकं ।अप्_173.010अब्।
ब्रह्मघ्नि क्षत्रे द्विगुणं विट्च्छूद्रे द्विगुणं त्रिधा
अन्यत्र विप्रे सकलं पादोनं क्षत्रिये मतं ।अप्_173.011अब्।
वैश्ये ऽर्धपादं क्षत्रे स्याद्वृद्धस्त्रीबालरोगिषु
तुरीयो ब्रह्महत्यायाः क्षत्रियस्य बधे स्मृतं ।अप्_173.012अब्।
वैश्ये ऽष्टमांशो वृत्तस्थे शूद्रे ज्ञेयस्तु षोडशः
अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्याव्रतं चरेत् ।अप्_173.013अब्।
पञ्चगव्यं पिवेद्गोघ्नो मासमासीत संयतः
गोष्ठे शयो गो ऽनुगामी गोप्रदानेन शुद्ध्यति ।अप्_173.014अब्।
कृच्छ्रञ्चैवातिकृच्छ्रं वा पादह्रासो नृपादिषु
अतिवृद्धामतिकृशामतिबालाञ्च रोगिणीं ।अप्_173.015अब्।
:न्
1 न संस्कृतिरिति छ..
2 बधे ऽस्य तु इति छ..
:प् 185
हत्वा पूर्वविधानेन चरेदर्धव्रतं द्विजः
ब्राह्मणान् भोजयेच्छक्त्या दद्याद्धेमतिलदिकं ।अप्_173.016अब्।
मुष्टिचपेटकीलेन तथा शृङ्गादिमोटने
लगुडादिप्रहारेण गोबधं तत्र निर्दिशेत् ।अप्_173.017अब्।
दमेन दामने चैव शकटादौ च योजने
स्तम्भशृङ्खलपाशैर् वा मृते पादोनमाचरेत् ।अप्_173.018अब्।
काष्ठे शान्तपनं कुर्यात् प्राजापत्यन्तु लोष्ठके
तप्तकृच्छ्रन्तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकं ।अप्_173.019अब्।
मार्जारगोधानकुलमण्डूकश्वपतत्रिणः
हत्वा त्र्यहं पिवेत् क्षीरं कृच्छ्रं चान्द्रायणं चरेत् ।अप्_173.020अब्।
व्रतं रहस्ये रहसि प्रकाशे ऽपि प्रकाशकं
प्राणायामशतं कार्यं सर्वपापापनुत्तये ।अप्_173.021अब्।
पानकं द्राक्षमधुकं खार्जरन्तालमैक्षवं
मध्वीकं टङ्कमाध्वीकं मैरेयं(?) नारिकेलजं ।अप्_173.022अब्।
न मद्यान्यपि मद्यानि पैष्टी मुख्या सुरा स्मृता
त्रैवर्णस्य निषिद्धानि पीत्वा तप्त्वाप्यपः शुचिः ।अप्_173.023अब्।
कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि
सुरापाणापनुत्यर्थं बालवामा जटी ध्वजी ।अप्_173.024अब्।
अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।अप्_173.025अब्।
मद्यमाण्डस्थिता आपः पीत्वा सप्तदिनं व्रती
चाण्डालस्य तु पानीयं पीत्वा स्यात् षड्दिनं व्रती ।अप्_173.026अब्।
चण्डालकूपभाण्डेषु पीत्वा शान्तपनं चरेत्
:प् 186
पञ्चगव्यं त्रिरान्ते पीत्वा चान्त्यजलं द्विजः ।अप्_173.027अब्।
मत्स्यकण्टकशम्बूकशङ्खशुक्तिकपर्दकान्
पीत्वा नवोदकं चैव पञ्चगव्येन शुद्ध्यति ।अप्_173.028अब्।
शवकूपोदकं पीत्वा त्रिरात्रेण विशुद्ध्यति
अन्त्यावसायिनामन्नं भुक्त्वा चान्द्रायणं चरेत् ।अप्_173.029अब्।
आपत्काले शूद्रगृहे मनस्तापेन शुद्ध्यति
शूद्रभाजनभुक् विप्रः पञ्चगव्यादुपोषितः ।अप्_173.030अब्।
कन्दुपक्वं स्नेहपक्वं स्नेहं च दधिशक्तवः
शूद्रादनिन्द्यान्येतानि गुडक्षीररसादिकं ।अप्_173.031अब्।
अस्नातभुक् चोपवासी दिनान्ते तु जपाच्छुचिः
मूत्रोच्चार्यशुचिर्भुक्त्वा त्रिरात्रेण विशुद्ध्यति ।अप्_173.032अब्।
केशकीटावपन्नं च पादस्पृष्टञ्च कामतः
भ्रूणघ्नावेक्षित्तं चैव सस्पृष्टं वाप्युदक्यया ।अप्_173.033अब्।
काकाद्यैर् अवलीढं च शुनासंस्पृष्टमेव च
गवाद्यैर् अन्नमाघ्रातं भुक्त्वा त्र्यहमुपावसेत् ।अप्_173.034अब्।
रेतोविण्मूत्रभक्षी तु प्राजापत्यं समाचरेत्
चान्द्रायण नवश्राद्धे पराको मासिके मतः ।अप्_173.035अब्।
पक्षत्रये ऽतिकृच्छ्रं स्यात् षण्मासे कृच्छ्रमेव च
आब्दिके पादकृच्छ्रं स्यादेकाहः पुनराव्दिके ।अप्_173.036अब्।
पूर्वेद्युर्वार्षिकं श्राद्धं परेद्युः पुनराव्दिकं
निषिद्धभक्षणे भुक्ते प्रायश्चित्तमुपोषणं ।अप्_173.037अब्।
भूस्तृणं लशुनं भुक्त्वा(1) शिशुकं कृच्छ्रमाचरेत्(2)
:न्
1 लशुनं गृञ्जनं भुक्त्वेति ङ..
2 शिशुकृच्छ्रं समाचरेदिति ख..
:प् 187
अभोज्यानान्तु भुक्त्वान्नं स्त्रीशूद्रोच्छिष्टमेव च ।अप्_173.038अब्।
जग्ध्वा मांसमभक्ष्यञ्च सप्तरात्रं पयः पिवेत्
मधु मांसञ्च यो ऽश्नीयाच्छावं सूतकमेव वा ।अप्_173.039अब्।
प्राजापत्यं चरेत् कृच्छ्रं ब्रह्मचारी यतिर्व्रती
अन्ययेन परस्वापहरणं स्तेयमुच्यते ।अप्_173.040अब्।
मुसलेन हतो राज्ञा स्वर्णस्तेयी विशुद्ध्यति
अधःशायी जटाधारी पर्णमूलफलाशनः ।अप्_173.041अब्।
एककालं समश्नानो द्वादशाब्दे विशुद्ध्यति
रुक्मस्तेयी सुरापश् च ब्रह्महा गुरुतल्पगः ।अप्_173.042अब्।
स्तेयं कृत्वा सुरां पीत्वा कृच्छ्रञ्चाब्दं चरेन्नरः
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।अप्_173.043अब्।
अयस्कांस्योपलानाञ्च द्वादशाहं कणान्नभुक्
मनुष्याणान्तु हरणे स्त्रीणां क्षेत्रगृहस्य च ।अप्_173.044अब्।
वापीकूपतडागानां शुद्धिश्चान्द्रायणं स्मृतं
भक्ष्यभोज्यापहरणे यानशय्यासनस्य च ।अप्_173.045अब्।
पुष्पमूलफलानाञ्च पञ्चगव्यं विशोधनं
तृणकाष्ठद्रुमाणाञ्च शुष्कान्नस्य गुडस्य च ।अप्_173.047अब्।
चेलचर्मामिषाणाञ्च त्रिरात्रं स्यादभोजनं
पितुः पत्नीञ्च भगिनीमाचार्यतनयान्तथा ।अप्_173.048अब्।
आचार्याणीं सुतां स्वाञ्च गच्छंश् च गुरुतल्पगः
गुरुतल्पे ऽभिभाष्यैनस्तप्ते पच्यादयोमये ।अप्_173.049अब्।
शूमीं ज्वलन्तीञ्चाश्लिष्य मृतुना स विशुद्ध्यति
चान्द्रायणान् वा त्रीन्मासानभ्यस्य गुरुतल्पगः ।अप्_173.050अब्।
:प् 188
एवमेव विधिं कुर्याद् योषित्सु पतितास्वपि
यत् पुंसः परदारेषु तच्चैनां कारयेद्व्रतं ।अप्_173.051अब्।
रेतः सिक्त्वा कुमारीषु चाण्डालीषु सुतासु च
सपिण्डापत्यदारेषु प्राणत्यागो विधीयते ।अप्_173.052अब्।
यत् करोत्येकरात्रेण वृषलीसेवनं द्विजः
तद्भैक्ष्यभुग्(1) जपन्नित्यं त्रिभिर्वर्षैर् व्यपोहति ।अप्_173.053अब्।
पितृव्यदारगमने भ्रातृभार्यागमे(2) तथा
चाण्डालीं पुक्कसीं वापि स्नुषाञ्च भगिनीं सखीं ।अप्_173.054अब्।
मातुः पितुः स्वसारञ्च निक्षिप्तां शरणागतां
मातुलानीं स्वसारञ्च सगोत्रामन्यमिच्छतीं ।अप्_173.055अब्।
शिष्यभार्यां गुरोर्भार्यां गत्वा चान्द्रायणञ्चरेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0