अग्नि पुराण · अध्याय 172
:ए इत्य् आग्नेये महापुरेणे रहस्यादिप्रायश्वित्तं नाम
एकसप्तत्यधिकशततमो ऽध्यायः ॥
:प् 181
% छप्तेर् {172}
:श् अथ द्विसप्तत्यधिकशततमो ऽध्यायः
सर्वपापप्रायश्चित्तानि
पुष्कर उवाच
परदारपरद्रव्यजीवहिंसादिके यदा ।अप्_172.001अब्।
प्रवर्तते नृणां चित्तं प्रायश्चित्तं स्तुतिस्तदा
विष्णवे विष्णवे नित्यं विष्णवे विष्णवे(1) नमः ।अप्_172.002अब्।
नमामि विष्णुं चित्तस्थमहङ्कारगतिं हरिं
चित्तस्थमीशमव्यक्तमनन्तमपराजितं ।अप्_172.003अब्।
विष्णुमीड्यमशेषेण अनादिनिधनं विभुं
विष्णुश्चित्तगतो यन्मे विष्णुर्बुद्धिगतश् च यत् ।अप्_172.004अब्।
यच्चाहङ्कारगो विष्णुर्यद्विष्णुर्मयि संस्थितः
करोति कर्मभूतो ऽसौ स्थवरस्य चरस्य च ।अप्_172.005अब्।
तत् पापन्नाशमायातु तस्मिन्नेव हि चिन्तिते
ध्यातो हरति यत् पापं स्वप्ने दृष्टस्तु भावनात् ।अप्_172.006अब्।
तमुपेन्द्रमहं विष्णुं प्रणतार्तिहरं हरिं
जगत्यस्मिन्निराधारे मज्जमाने तमस्यधः ।अप्_172.007अब्।
हस्तावलम्बनं विष्णुं प्रणमामि परात् परं
सर्वेश्वरेश्वर विभो परमात्मन्नधोक्षज ।अप्_172.008अब्।
हृषीकेश हृषीकेश हृषीकेश नमो ऽस्तु ते
नृसिंहानन्त गोविन्द भूतभवन केशव ।अप्_172.009अब्।
:न्
1 विष्णवे विष्णवे इति ज.. , ञ.. च
:प् 182
दुरुक्तं दुष्कृतं ध्यातं शमयाघन्नमो ऽस्तु ते
यन्मया चिन्तितं दुष्टं स्वचित्तवशवर्तिना ।अप्_172.010अब्।
अकार्यमहदत्युग्रन्तच्छमन्नय केशव
ब्रह्मण्यदेव गोविन्द परमार्थपरायण ।अप्_172.011अब्।
जगन्नाथ जगद्धातः पापं प्रशमयाच्युत
यथापराह्णे सायाह्णे मध्याह्णे च तथा निशि ।अप्_172.012अब्।
कायेन मनसा वाचा कृतं पापमजानता
जानता च हृषीकेश पुण्डरीकाक्ष माधव ।अप्_172.013अब्।
नामत्रयोच्चारणतः स्वप्ने यातु मम क्षयं
शारीरं मे हृषीकेश पुण्डरीकाक्ष माधव ।अप्_172.014अब्।
पापं प्रशमयाद्य त्वं(1) बाक्कृतं मम माधव
यद्भुञ्जन्यत्स्वपंस्तिष्ठन् गच्छन् जाग्रद् यदास्थितः ।अप्_172.015अब्।
कृतवान् पापमद्याहं कायेन मनसा गिरा
यत् स्वल्पमपि यत् स्थूलं कुयोनिनरकाबहं ।अप्_172.016अब्।
तद्यातु प्रशमं सर्वं वासुदेवानुकीर्तनात्
परं ब्रह्म परं धाम पवित्रं परमञ्च यत् ।अप्_172.017अब्।
तस्मिन्(2) प्रकीर्तिते विष्णौ यत् पापं तत् प्रणश्यतु
यत् प्राप्य न निवर्तन्ते गन्धस्पर्शदिवर्जितं ।अप्_172.018अब्।
सूरयस्तत् पदं विष्णोस्तत् सर्वं शमयत्वघं(3)
पापप्रणाशनं स्तोत्रं यः पठेच्छृणुयादपि(4) ।अप्_172.019अब्।
:न्
1 प्रशमात्यर्थमिति ख.. , घ.. , ज.. च
2 अस्मिन्निति घ..
3 सर्वं गमयत्वघमिति झ..
4 यः पटेच्छ्रद्धया नर इति ज.. , झ.. च । यः
पठेच्छृणुयान्नर इति ञ..
:प् 183
शारीरैर् मानसैर् वाग्जैः कृतैः पपैः प्रमुच्यते
सर्वपापग्रहादिभ्यो याति विष्णोः परं पदं ।अप्_172.020अब्।
तस्मात् पापे कृते जप्यं स्तोत्रं सर्वाघमर्दनं
प्रायश्चित्तमघौघानां स्तोत्रं व्रतकृते वरं ।अप्_172.021अब्।
प्रायश्चित्तैः स्तोत्रजपैर् व्रतैर् नश्यति पातकं
ततः कार्याणि(1) संसिद्ध्यै तानि वै भुक्तिमुक्तये ॥22
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0