अग्नि पुराण · अध्याय 170
:ए इत्य् आग्नेये महापुराणे प्रायश्चित्तानि नाम
एकोनसप्तत्यधिकशततमो ऽध्यायः ॥
% छप्तेर् {170}
:श् अथ सप्तत्यधिकशततमो ऽध्यायः
प्रायश्चित्तानि
पुष्कर उवाच
महापापानुयुक्तानां(1) प्रायश्चित्तानि(2) वच्मिते ।अप्_170.001अब्।
संवत्सरेण पतति पतितेन सहाचरन्
याजनाद्ध्यापनाद्यौनान्न तु यानाशनासनात् ।अप्_170.002अब्।
यो येन पतितेनैषां संसर्गं याति मानवः
स तस्यैव व्रतं कुर्यात्तत्संसर्गस्य शुद्धये ।अप्_170.003अब्।
पतितस्योदकं कार्यं सपिण्डैर् बान्धवैः सह
निन्दिते ऽहनि सायाह्णे ज्ञात्यृत्विग् गुरुसन्निधौ ।अप्_170.004अब्।
दासो घटमपां पूर्णं पर्यस्येत् प्रेतवत्पदा(3)
अहोरात्रमुपासीतन्नशौचं बान्धवैः सह ।अप्_170.005अब्।
निवर्तयेरंस्तस्मात्तु ज्येष्ठांशम्भाषणादिके
ज्येष्ठांशम्प्राप्नुयाच्चास्य यवीयान् गुणतो ऽधिकः ।अप्_170.006अब्।
:न्
1 महापापोपपन्नानामिति ङ..
2 प्रायश्चित्तं वदामि त इति झ..
3 प्रेतवत् सदेति ख.. , ग.. , घ.. , ङ.. च
:प् 175
प्रायश्चित्ते तु चरिते पूर्णं कुम्भमपां नवं
तेनैव सार्धं प्राश्येयुः स्नात्वा पुण्यजलाशये ।अप्_170.007अब्।
एवमेव विधिं कुर्युर्योषित्सु पपितास्वपि
वस्त्रान्नपानन्देयन्तु वसेयुश् च गृहान्तिके ।अप्_170.008अब्।
तेषां द्विजानां सावित्री नानूद्येत(1) यथाविधि
तांश्चारयित्वा त्रीन् कृछ्रान् यथाविध्युपनाययेत् ।अप्_170.009अब्।
विकर्मस्थाः परित्यक्तास्तेषां मप्येतदादिशेत्
जपित्वा त्रीणि सावित्र्याः सहस्त्राणि समाहितः ।अप्_170.010अब्।
मासङ्गोष्ठे पयः पीत्वा मुच्यते ऽसत्प्रतिग्रहात्
ब्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च ।अप्_170.011अब्।
अभिचारमहीनानान्त्रिभिः कृच्छैर् व्यपोहति(2)
शरणागतं परित्यज्य वेदं विप्लाव्य च द्विजः ।अप्_170.012अब्।
संवत्सं यताहारस्तत्पापमपसेधति
श्वशृगालखरैर् दष्टो ग्राम्यैः क्रव्याद्भिरेव च ।अप्_170.013अब्।
नरोष्ट्राश्वैर् वराहैश् च(3) प्राणायामेन शुद्ध्यति
स्नातकव्रतलोपे च कर्मत्यागे ह्य् अभोजनं ।अप्_170.014अब्।
हुङ्कारं(4) ब्राह्मणस्योक्त्वा त्वङ्करञ्च गरीयसः
स्नात्वानश्नन्नहःशेषमभिवाद्य प्रसादयेत् ।अप्_170.015अब्।
अवगूर्य चरेक्षच्छ्रमतिकृच्छ्रन्निपातने
कृच्छ्रातिकृच्छ्रं कुर्वीत विप्रस्योत्पाद्य शोणितं ।अप्_170.016अब्।
:न्
1 न युज्येतेति ख..
2 कृच्छ्रैर् विशुद्ध्यति इति ग.. , घ.. , ङ.. च
3 नरोष्टविड्वराहैश्चेति ङ..
4 क्रूङ्कारमिति ख.. , घ.. , छ.. च । ओङ्कारमिति ग.. , ङ.. च ।
हङ्कारञ्चेति ख..
:प् 176
चाण्डालादिरविज्ञातो यस्य तिष्ठेत वेश्मनि
सम्यग् ज्ञातस्तु कालेन तस्य कुर्वीत शोधनं ।अप्_170.017अब्।
चान्द्रायणं पराकं वा द्विजानान्तु विशोधनं
प्राजापत्यन्तु शूद्राणां शेषन्तदनुसारतः ।अप्_170.018अब्।
गुंडङ्कुसुम्भं लवणं तथा धान्यानि यानि च
कृत्वा गृहे ततो द्वारि तेषान्दद्याद्धुताशनं ।अप्_170.019अब्।
मृणमयानान्तु भाण्डानां त्याग एव विधीयते
द्रव्याणां परिशेषाणां द्रव्यशुद्धिर्विधीयते ।अप्_170.020अब्।
कूपैकपानसक्ता ये स्पर्शात्सङ्कल्पदूषिताः(1)
शुद्ध्येयुरुपवासेन पञ्चगव्येन वाप्यथ ।अप्_170.021अब्।
यस्तु संस्पृश्य चण्डालमश्नीयाच्च स्वकामतः
द्विजश्चान्द्रायणं कुर्यात्तप्तकृच्छ्रमथापि वा ।अप्_170.022अब्।
भाण्डसङ्कलसङ्कीर्णश्चाण्डालादिजुगुप्सितैः
भुक्त्वापीत्वा तथा तेषां षड्रात्रेण विशुद्ध्यति ।अप्_170.023अब्।
अन्त्यानां भुक्तशेषन्तु भक्षयित्वा द्विजातयः
व्रतं चान्द्रायणं कुर्युस्त्रिरात्रं शूद्र एव तु ।अप्_170.024अब्।
चण्डालकूपभाण्डेषु अज्ञानात्पिवते जलं
द्विजः शान्तपनं कुर्याच्छूद्रश्चोपवसेद्दिनं ।अप्_170.025अब्।
चण्डालेन तु संस्पृष्टो(2) यस्त्वपः पिवते द्विजः
त्रिरात्रन्तेन कर्तव्यं शूद्रश्चोपवसेद्दिनं ।अप्_170.026अब्।
उच्छिष्टेन यदि(3) स्पृष्टः शुना शूद्रेण वा द्विजः
:न्
1 स्पर्शसङ्कल्पभूषिता इति झ..
2 संसृष्ट इति क..
3 यदेति ख.. , ग.. , घ.. , ङ.. , छ.. च
:प् 177
उपोष्य रजनीमेकां पञ्चगव्येन शुद्ध्यति ।अप्_170.027अब्।
वैश्येन क्षत्रियेणैव स्नानं नक्तं समाचरेत्
अध्वानं प्रस्थितो विप्रः कान्तारे यद्यनूदके ।अप्_170.028अब्।
पक्वान्नेन गृहीतेन मूत्रोच्चारङ्करोति वै
अनिधायैव तद्द्रव्यं अङ्गे कृत्वा तु संस्थितं ।अप्_170.029अब्।
शौचं कृत्वान्नमभ्युक्ष्य अर्कस्याग्नेयश् च दर्शयेत्
म्लेच्छैर् गतानां चौरैर् वा कान्तारे वा प्रवासिनां ।अप्_170.030अब्।
भक्ष्याभक्ष्यविशुद्ध्यर्थं(1) तेषां वक्ष्यामिनिष्कृतिं
पुनः प्राप्य स्वदेशञ्च वर्णानामनुपूर्वशः ।अप्_170.031अब्।
कृच्छ्रस्यान्ते ब्राह्मणस्तु पुनः संस्कारमर्हति
पादोनान्ते क्षत्रियश् च अर्धान्ते वैश्य एव च ।अप्_170.032अब्।
पादं कृत्वा तथा शूद्रो दानं दत्वा विशुद्ध्यति
उदक्या तु सवर्णा या स्पृष्टा चेत् स्यादुदक्यया ।अप्_170.033अब्।
तस्मिन्नेवाहनि स्नाता शुद्धिमाप्नोत्यसंशयं
रजस्वला तु नाश्नीयात् संस्पृष्टा हीनवर्णया ।अप्_170.034अब्।
यावन्न शुद्धिमाप्नोति शुद्धस्नानेन शुद्ध्यति
मूत्रं कृत्वा व्रजन्वर्त्म स्मृतिभ्रंशाज्जलं पिवेत् ।अप्_170.035अब्।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुद्ध्यति
मूत्रोच्चारं द्विजः कृत्वा अकृत्वा शौचमात्मनः ।अप्_170.036अब्।
मोहाद्भुक्त्वा(2) त्रिरात्रन्तु यवान् पीत्वा विशुद्ध्यति
ये प्रत्यवसिता विप्राः प्रव्रज्यादिबलात्तथा ।अप्_170.037अब्।
:न्
1 भक्ष्यभोज्यविशुद्ध्यर्थमिति झ..
2 लोभाद्भुक्त्वेति ख.. , ग.. , घ.. , ङ.. , छ.. च
:प् 178
अनाशकनिवृताश् च तेषां शुद्धिः प्रचक्ष्यते
चारयेत्त्रीणि कृच्छ्राणि चान्द्रायणमथापि वा ।अप्_170.038अब्।
जातकर्मादिसंस्कारैः संस्कुर्यात्तं तथा पुनः
उपानहममेध्यं च यस्य संस्पृशते मुखं ।अप्_170.039अब्।
मृत्तिकागोमयौ तत्र पञ्चगव्यञ्च शोधनं
वापनं विक्रयञ्चैव नीलवस्त्रादिधारणं ।अप्_170.040अब्।
तपनीयं हि विप्रस्य त्रिभिः कृछ्रैर् विशुद्ध्यति
अन्त्यजातिश्वपाकेन(1) संस्पृष्टा स्त्री रजस्वला ।अप्_170.041अब्।
चतुर्थे ऽहनि शुद्धा सा त्रिरात्रं तत्र आचरेत्(2)
चाण्डालश्वपचौ स्पृष्ट्वा तथा पूयञ्च सूतिकां ।अप्_170.042अब्।
शवं तत्स्पर्शिनं स्पृष्ट्वा(3) सद्यः स्नानेन शुद्ध्यति
नारं स्पृष्ट्वास्थि सस्नेहं स्नात्वा विप्रो विशुद्ध्यति ।अप्_170.043अब्।
रथ्यार्कद्दमतोयेन अधीनाभेर्मृदोदकैः
वान्तो विविक्तः स्नात्वा तु घृतं प्राश्य विशुद्ध्यति ।अप्_170.044अब्।
स्नानात् क्षुरकर्मकर्ता कृच्छ्रकृद्ग्रहणे ऽन्नभुक्
अपाङ्क्तेयाशी गव्याशी शुना दष्टस् तथा शुचिः ।अप्_170.045अब्।
कृमिदष्टश्चात्मघाती कृच्छ्राज्जप्याच्च होमतः
होमाद्यैश्चानुतापेन पूयन्ते पापिनो ऽखिलाः(4)
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0